1 [जनमेजय]
धर्मात्मनि महासत्त्वे सत्यसंधे जितात्मनि
देवव्रते महाभागे शरतल्पगते ऽचयुते
1 [य]
मत्तः कैतवकेनैव यज जितॊ ऽसमि दुरॊदरम
शकुने हन्त दीव्यामॊ गलहमानाः सहस्रशः
1 [अर्ज]
कर्ण यत ते सभामध्ये बहु वाचा विकत्थितम
न मे युधि समॊ ऽसतीति तद इदं परत्युपस्थितम
1 बृहदश्व उवाच
वृते तु नैषधे भैम्या लॊकपाला महौजसः
यान्तॊ ददृशुर आयान्तं दवापरं कलिना सह
1 [स]
एतच छरुत्वा वचस तस्य केशवस्य महात्मनः
सुभद्रा पुत्रशॊकार्ता विललाप सुदुःखिता
1 धृतराष्ट्र उवाच
परतिज्ञाते तु भीष्मेण तस्मिन युद्धे सुदारुणे
करॊधितॊ मम पुत्रेण दुःखितेन विशेषतः
1 [वै]
गुरवे पराङ नमस्कृत्य मनॊ बुद्धिसमाधिभिः
संपूज्य च दविजान सर्वांस तथान्यान विदुषॊ जनान
1 [वै]
ततॊ वाग युद्धम अभवत तुमुलं जनमेजय
यत्र दुःखान्वितॊ राजा धृतराष्ट्रॊ ऽबरवीद इदम
1 [ज]
उत्तङ्कः केन तपसा संयुक्तः सुमहातपाः
यः शापं दातुकामॊ ऽभूद विष्णवे परभविष्णवे
1 [च]
वरश च गृह्यतां मत्तॊ यश च ते संशयॊ हृदि
तं च बरूहि नरश्रेष्ठ सर्वं संपादयामि ते
1 [दुर]
अक्षौहिणीः सप्त लब्ध्वा राजभिः सह संजय
किं सविद इच्छति कौन्तेयॊ युद्धप्रेप्सुर युधिष्ठिरः
1 [स]
शरुत्वा च रथि निर्घॊषं सिंहनादं च संयुगे
अर्जुनः पराह गॊविन्दं शीघ्रं चॊदय वाजिनः
1 [विदुर]
महाराज विजानीहि यत तवां वक्ष्यामि तच छृणु
मुमूर्षॊर औषधम इव न रॊचेतापि ते शरुतम
1 [विदुर]
महाराज विजानीहि यत तवां वक्ष्यामि तच छृणु
मुमूर्षॊर औषधम इव न रॊचेतापि ते शरुतम
1 [वैषम्पायन]
अथाब्रवीन महातेजा वाक्यं कौरवनन्दनः
हन्त धर्मान परवक्ष्यामि दृढे वान मनसी मम
1 [वै]
ततॊ वैकर्तनं जित्वा पार्थॊ वैराटिम अब्रवीत
एतन मां परापयानीकं यत्र तालॊ हिरण्मयः
1 [स]
ततॊ ऽरजुनस्य भवनं परविश्याप्रतिमं विभुः
सपृष्ट्वाम्भः पुण्डरीकाक्षः सथण्डिले शुभलक्षणे
संतस्तार शुभां शय्यां दर्भैर वैडूर्य संनिभैः
1 [स]
वयुष्टां निशां भारत भारतानाम; अनीकिनिनां परमुखे महात्मा
ययौ सपत्नान परति जातकॊपॊ; वृतः समग्रेण बलेन भीष्मः
1 [ज]
कथितं वै समासेन तवया सर्वं दविजॊत्तम
महाभारतम आख्यानं कुरूणां चरितं महत
1 [स]
ततॊ दुर्यॊधनॊ दृष्ट्वा भीमसेनं तथागतम
परत्युद्ययाव अदीनात्मा वेगेन महता नदन
1 [व]
स तं दृष्ट्वा तथा भूतं राजानं घॊरदर्शनम
दीर्घश्मश्रु धरं नॄणां शॊणितेन समुक्षितम
1 बृहदश्व उवाच
एवं स समयं कृत्वा दवापरेण कलिः सह
आजगाम ततस तत्र यत्र राजा स नैषधः
1 [च]
अवश्यं कथनीयं मे तवैतन नरपुंगव
यदर्थं तवाहम उच्छेत्तुं संप्राप्तॊ मनुजाधिप
1 [धृ]
कांस तत्र संजयापश्यः परत्यर्थेन समागतान
ये यॊत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम
1 [धृ]
ततॊ भग्नेषु सैन्येषु भीमसेनेन संयुगे
दुर्यॊधनॊ ऽबरवीत किं नु सौबलॊ वापि संजय
1 [वि]
दयूतं मूलं कलहस्यानुपाति; मिथॊ भेदाय महते वा रणाय
यद आस्थितॊ ऽयं धृतराष्ट्रस्य पुत्रॊ; दुर्यॊधनः सृजते वैरम उग्रम
1 परणिपत्य हृषीकेशम अभिवाद्य पिता महम
अनुमान्य गुरून सर्वान पर्यपृच्छद युधिष्ठिरः
1 [भीस्म]
नित्यॊद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर
परशाम्यते च राजा हि नारीवॊद्यम वर्जितः
1 [वै]
अथ संगम्य सर्वे तु कौरवाणां महारथाः
अर्जुनं सहिता यत्ताः परत्ययुध्यन्त भारत
1 [स]
कुन्तीपुत्रस तु तं मन्त्रं समरन्न एव धनंजयः
परतिज्ञाम आत्मनॊ रक्षन मुमॊहाचिन्त्य विक्रमः
1 [स]
दरौणिर भूरिश्रवाः शल्यश चित्रसेनश च मारिष
पुत्रः साम्यमनेश चैव सौभद्रं समयॊधयन
1 [व]
राजॊपरिचरॊ नाम धर्मनित्यॊ महीपतिः
बभूव मृगयां गन्तुं स कदा चिद धृतव्रतः
1 [स]
समुदीर्णं ततॊ दृष्ट्वा सांग्रामं कुरुमुख्ययॊः
अथाब्रवीद अर्जुनस तु वासुदेवं यशस्विनम
1 बृहदश्व उवाच
दमयन्ती ततॊ दृष्ट्वा पुण्यश्लॊकं नराधिपम
उन्मत्तवद अनुन्मत्ता देवने गतचेतसाम
1 [व]
स मित्रसहम आसाद्य तव अभिज्ञानम अयाचत
तस्मै ददाव अभिज्ञानं स चेक्ष्वाकुवरस तदा
1 [य]
मुह्यामीव निशम्याद्य चिन्तयानः पुनः पुनः
हीनां पार्थिव संघातैः शरीमद्भिः पृथिवीम इमाम
1 [धृ]
कषत्रतेजा बरह्म चारी कौमाराद अपि पाण्डवः
तेन संयुगम एष्यन्ति मन्दा विलपतॊ मम
1 [स]
अर्जुनस तु महाराज कृत्वा सैन्यं पृथग्विधाम
सूतपुत्रं सुसंरब्धं दृष्ट्वा चैव महारणे
1 [दुर]
परेषाम एव यशसा शलाघसे तवं; सदा छन्नः कुत्सयन धार्तराष्ट्रान
जानीमस तवां विदुर यत परियस तवं; बालान इवास्मान अवमन्यसे तवम
1 [वै]
अथ दुर्यॊधनः कर्णॊ दुःशासनविविंशती
दरॊणश च सह पुत्रेण कृपश चातिरथॊ रणे
1 [स]
तयॊः संवदतॊर एव कृष्ण दारुकयॊस तदा
सात्यगाद रजनी राजन्न अथ राजान्वबुध्यत
1 धृतराष्ट्र उवाच
दैवम एव परं मन्ये पौरुषाद अपि संजय
यत सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते
1 [ज]
य एते कीर्तिता बरह्मन ये चान्ये नानुकीर्तिताः
सम्यक ताञ शरॊतुम इच्छामि राज्ञश चान्यान सुवर्चसः
1 बृहदश्व उवाच
ततस तु याते वार्ष्णेये पुण्यश्लॊकस्य दीव्यतः
पुष्करेण हृतं राज्यं यच चान्यद वसु किं चन
1 [स]
तं पातितं ततॊ दृष्ट्वा महाशालम इवॊद्गतम
परहृष्टमनसः सर्वे बभूवुस तत्र पाण्डवाः
1 [ज]
उत्तङ्काय वरं दत्त्वा गॊविन्दॊ दविजसत्तम
अत ऊर्ध्वं महाबाहुः किं चकार महायशाः
1 [य]
यानीमानि बहिर वेद्यां दानानि परिचक्षते
तेभ्यॊ विशिष्टं किं दानं मतं ते कुरुपुंगव
1 [धृ]
यद अब्रूतां महात्मानौ वासुदेवधनंजयौ
तन मे बरूहि महाप्राज्ञ शुश्रूषे वचनं तव
1 [स]
राजन कुरूणां परवरैर बलैर भीमम अभिद्रुतम
मज्जन्तम इव कौन्तेयम उज्जिहीर्षुर धनंजयः
1 [ष]
बहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर
आचक्ष्व वित्तं कौन्तेय यदि ते ऽसत्य अपराजितम
1 [भीस्म]
एतत ते राजधर्माणां नव नीतं युधिष्ठिर
बृहस्पतिर हि भगवान नान्यं धर्मं परशंसति
1 ततः काल्यं समुत्थाय कृतपौर्वाह्णिक करियाः
ययुस ते नगराकारै रथैः पाण्डव यादवाः
1 [य]
मुखेन रजनी वयुष्टा कच चित ते मधुसूदन
कच चिज जञानानि सर्वाणि परसन्नानि तवाच्युत
1 [स]
तस्मिन हते गजानीके पुत्रॊ दुर्यॊधनस तव
भीमसेनं घनतेत्य एवं सव सैन्यान्य अचॊदयत
1 [व]
अथ नारायणेनेन्द्रश चकार सह संविदम
अवतर्तुं महीं सवर्गाद अंशतः सहितः सुरैः
1 नल उवाच
यथा राज्यं पितुस ते तत तथा मम न संशयः
न तु तत्र गमिष्यामि विषमस्थः कथं चन
1 [धृ]
अधर्मेण हतं दृष्टा राजानं माधवॊत्तमः
किम अब्रवीत तदा सूत बलदेवॊ महाबलः
1 [वा]
शरुतवान अस्मि वार्ष्णेय संग्रामं परमाद्भुतम
नराणां वदतां पुत्र कथॊद्घातेषु नित्यशः
1 [य]
यौ तु सयातां चरणेनॊपपन्नौ; यौ विद्यया सदृशौ जन्मना च
ताभ्यां दानं कतरस्मै विशिष्टम; अयाचमानाय च याचते च
1 [व]
संजयस्य वचः शरुत्वा परज्ञा चक्षुर नरेश्वरः
ततः संख्यातुम आरेभे तद वचॊ गुणदॊषतः
1 [स]
तं तु यान्तं महावेगैर अश्वैः कपिवरध्वजम
युद्धायाभ्यद्रवन वीराः कुरूणां नवती रथाः
परिवव्रुर नरव्याघ्रा नरव्याघ्रं रणे ऽरजुनम
1 [दूृ]
एहि कषत्तर दरौपदीम आनयस्व; परियां भार्यां संमतां पाण्डवानाम
संमार्जतां वेश्म परैतु शीघ्रम; आनन्दॊ नः सह दासीभिर अस्तु
1 [वै]
ततः शांतनवॊ भीष्मॊ दुराधर्षः परतापवान
वध्यमानेषु यॊधेषु धनंजयम उपाद्रवत
1 [य]
पितामह महाप्राज्ञ सर्वशास्त्रविशारद
दैवे पुरुषकारे च किं सविच छरेष्ठतरं भवेत
1 [व]
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
बृहस्पतेश च संवादं मरुत्तस्य च भारत
1 [वैषम्पायन]
एतावद उक्त्वा देवर्षिर विरराम स नारदः
युधिष्ठिरस तु राजर्षिर दध्यौ शॊकपरिप्लुतः
1 [स]
हते दरॊणे महेष्वासे तस्मिन्न अहनि भारत
कृते च मॊघसंकल्पे दरॊणपुत्रे महारथे
1 [व]
संपूज्याथाभ्यनुज्ञातॊ महर्षेर वचनात परम
परत्युवाचानुपूर्व्येण धर्मराजॊ युधिष्ठिरः
1 [दरुपद]
भूतानां पराणिनः शरेष्ठाः पराणिनां बुद्धिजीविनः
बुद्धिमत्सु नराः शरेष्ठा नराणां तु दविजातयः
1 [वै]
ततॊ विराटं परथमं युधिष्ठिरॊ; राजा सभायाम उपविष्टुम आव्रजत
वैडूर्य रूपान परतिमुच्य काञ्चनान; अक्षान स कक्षे परिगृह्य वाससा
1 [य]
न मां परीणयते राज्यं तवय्य एवं दुःखिते नृप
धिन माम अस्तु सुदुर्बुद्धिं राज्यसक्तं परमादिनम
1 [धृ]
दवारदेशे ततॊ दरौणिम अवस्थितम अवेक्ष्य तौ
अकुर्वतां भॊजकृपौ किं संजय वदस्व मे
1 [वै]
दारुकॊ ऽपि कुरून गत्वा दृष्ट्वा पार्थान महारथान
आचष्ट मौसाले वृष्णीन अन्यॊन्येनॊपसंहृतान
1 [धृ]
नदीनां पर्वतानां च नामधेयानि संजय
तथा जनपदानां च ये चान्ये भूमिम आश्रिताः
1 [स]
अग्नेर अथ वचः शरुत्वा तद रक्षः परजहार ताम
बरह्मन वराहरूपेण मनॊमारुतरंहसा
1 [धृ]
अहॊ खलु महद दुःखं कृच्छ्रवासं वसत्य असौ
कथं तस्य रतिस तत्र तुष्टिर वा वदतां वर
1 [स]
सेनापत्यं तु संप्राप्य भारद्वाजॊ महारथः
युयुत्सुर वयूह्य सैन्यानि परायात तव सुतैः सह
1 [व]
पाण्डवास तु वने वासम उद्दिश्य भरतर्षभाः
परययुर जाह्नवी कूलात कुरुक्षेत्रं सहानुगाः
1 [स]
एतच छरुत्वा वचॊ राज्ञॊ मद्रराजः परतापवान
दुर्यॊधनं तदा राजन वाक्यम एतद उवाच ह
1 [वै]
भीष्मे तु संग्रामशिरॊ विहाय; पलायमाने धेतराष्ट्र पुत्रः
उच्छ्रित्य केतुं विनदन महात्मा; सवयं विगृह्यार्जुनम आससाद
1 [वैषम्पायन]
ततः पुनः स गाङ्गेयम अभिवाद्य पिता महम
पराञ्जलिर नियतॊ भूत्वा पर्यपृच्छद युधिष्ठिर
1 [स]
ततॊ भूरिश्रवा राजन सात्यकिं नवभिः शरैः
अविध्यद भृशसंक्रुद्धस तॊत्त्रैर इव महाद्विपम
1 [स]
तथा संभाषतां तेषां परादुरासीद धनंजयः
दुदृक्षुर भरतश्रेष्ठं राजानं ससुहृद गणम
1 [व]
बरह्मणॊ मानसाः पुत्रा विदिताः षण महर्षयः
एकादश सुताः सथाणॊः खयाताः परममानसाः
1 बृहदश्व उवाच
अपक्रान्ते नले राजन दमयन्ती गतक्लमा
अबुध्यत वरारॊहा संत्रस्ता विजने वने
1 [धृ]
हतं दुर्यॊधनं दृष्ट्वा भीमसेनेन संयुगे
पाण्डवाः सृञ्जयाश चैव किम अकुर्वत संजय
1 [व]
कथयन्न एव तु तदा वासुदेवः परतापवान
महाभारत युद्धं तत कथान्ते पितुर अग्रतः
1 [य]
दानं यज्ञक्रिया चेह किंस्वित परेत्य महाफलम
कस्य जयायः फलं परॊक्तं कीदृशेभय कथं कदा
1 [व]
पितुर एतद वचः शरुत्वा धार्तराष्ट्रॊ ऽतयमर्षणः
आधाय विपुलं करॊधं पुनर एवेदम अब्रवीत
1 [स]
ततः कर्णः कुरुषु परद्रुतेषु; वरूथिना शवेतहयेन राजन
पाञ्चाल पुत्रान वयधमत सूतपुत्रॊ; महेषुभिर वात इवाभ्रसंघान
1 [वै]
धिग अस्तु कषत्तारम इति बरुवाणॊ; दर्पेण मत्तॊ धृतराष्ट्रस्य पुत्रः
अवैक्षत परातिकामीं सभायाम; उवाच चैनं परमार्यमध्ये
1 [वै]
आहूयमानस तु स तेन संख्ये; महामना धृतराष्ट्रस्य पुत्रः
निवर्तितस तस्य गिराङ्कुशेन; गजॊ यथामत्त इवाङ्कुशेन
1 [भीस्म]
आश्रमाणां महाबाहॊ शृणु सत्यपराक्रम
चतुर्णाम इह वर्णानां कर्माणि च युधिष्ठिर
1 [ज]
देवानां दानवानां च यक्षाणाम अथ रक्षसाम
अन्येषां चैव भूतानां सर्वेषां भगवन्न अहम
1 [धृ]
भयं मे सुमहज जातं विस्मयश चैव संजय
शरुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम
1 [धृ]
शवॊभूते किम अकार्षुस ते दुःखशॊकसमन्विताः
अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः
1 बृहदश्व उवाच
सा निहत्य मृगव्याधं परतस्थे कमलेक्षणा
वनं परतिभयं शून्यं झिल्लिकागणनादितम
1 [स]
ततस ते परययुः सर्वे निवासाय महीक्षितः
शङ्खान परध्मापयन्तॊ वै हृष्टाः परिघबाहवः
1 [व]
एतच छरुत्वा तु पुत्रस्य वचः शूरात्मजस तदा
विहाय शॊकं धर्मात्मा ददौ शराद्धम अनुत्तमम
1 [य]
इदं देयम इदं देयम इतीयं शरुतिचॊदना
बहु देयाश च राजानः किं सविद देयम अनुत्तमम