अध्याय 57

महाभारत संस्कृत - शल्यपर्व

1 [स] समुदीर्णं ततॊ दृष्ट्वा सांग्रामं कुरुमुख्ययॊः
अथाब्रवीद अर्जुनस तु वासुदेवं यशस्विनम

2 अनयॊर वीरयॊर युद्धे कॊ जयायान भवतॊ मतः
कस्य वा कॊ गुणॊ भूयान एतद वद जनार्दन

3 [वा] उपदेशॊ ऽनयॊस तुल्यॊ भीमस तु बलवत्तरः
कृतयत्नतरस तव एष धार्तराष्ट्रॊ वृकॊदरात

4 भीमसेनस तु धर्मेण युध्यमानॊ न जेष्यति
अन्यायेन तु युध्यन वै हन्याद एष सुयॊधनम

5 मायया निर्जिता देवैर असुरा इति नः शरुतम
विरॊचनश च शक्रेण मायया निर्जितः सखे
मायया चाक्षिपत तेजॊ वृत्रस्य बलसूदनः

6 परतिज्ञातं तु भीमेन दयूतकाले धनंजय
ऊरू भेत्स्यामि ते संख्ये गदयेति सुयॊधनम

7 सॊ ऽयं परतिज्ञां तां चापि पारयित्वारि कर्शनः
मायाविनं च राजानं माययैव निकृन्ततु

8 यद्य एष बलम आस्थाय नयायेन परहरिष्यति
विषामस्थस ततॊ राजा भविष्यति युधिष्ठिरः

9 पुनर एव च वक्ष्यामि पाण्डवेदं निबॊध मे
धर्मराजापराधेन भयं नः पुनरागतम

10 कृत्वा हि सुमहत कर्महत्वा भीष्म मुखान कुरून
जयः पराप्तॊ यशश चाग्र्यं वैरं च परतियातितम
तद एवं विजयः पराप्तः पुनः संशयितः कृतः

11 अबुद्धिर एषा महती धर्मराजस्य पाण्डव
यद एकविजये युद्धे पणितं कृतम ईदृशम
सुयॊधनः कृती वीर एकायनगतस तथा

12 अपि चॊशनसा गीतः शरूयते ऽयं पुरातनः
शलॊकस तत्त्वार्थ सहितस तन मे निगदतः शृणु

13 पुनरावर्तमानानां भग्नानां जीवितैषिणाम
भतव्यम अरिशेषाणाम एकायनगता हि ते

14 सुयॊधनम इमं भग्नं हतसैन्यं हरदं गतम
पराजितं वनप्रेप्सुं निराशं राज्यलम्भने

15 कॊ नव एष समयुगे पराज्ञः पुनर दवंद्वे समाह्वयेत
अपि वॊ निर्जितं राज्यं न हरेत सुयॊधनः

16 यस तरयॊदश वर्षाणि गदया कृतनिश्रमः
चरत्य ऊर्ध्वं च तिर्यक च भीमसेनजिघांसया

17 एवं चेन न महाबाहुर अन्यायेन हनिष्यति
एष वः कौरवॊ राजा धार्तराष्ट्रॊ भविष्यति

18 धनंजयस तु शरुत्वैतत केशवस्य महात्मनः
परेक्षतॊ भीमसेनस्य हस्तेनॊरुम अताडयत

19 गृह्य संज्ञां ततॊ भीमॊ गदया वयचरद रणे
मण्डलानि विचित्राणि यमकानीतराणि च

20 दक्षिणं मण्डलं सव्यं गॊमूत्रकम अथापि च
वयचरत पाण्डवॊ राजन्न अरिं संमॊहयन्न इव

21 तथैव तव पुत्रॊ ऽपि गदा मार्गविशारदः
वयचरल लघुचित्रं च भीमसेनजिघांसया

22 आधुन्वन्तौ गदे घॊरे चन्दनागरुरूषिते
वैरस्यान्तं परीप्सन्तौ रणे करुद्धाव इवान्तकौ

23 अन्यॊन्यं तौ जिघांसन्तौ परवीरौ पुरुषर्षभौ
युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ

24 मण्डलानि विचित्राणि चरतॊर नृप भीमयॊः
गदा संपातजास तत्र परजज्ञुः पावकार्चिषः

25 समं परहरतॊस तत्र शूरयॊर बलिनॊर मृधे
कषुब्धयॊर वायुना राजन दवयॊर इव समौद्रयॊः

26 तयॊः परहरतॊस तुल्यं मत्तकुञ्जरयॊर इव
गदा निर्घातसंह्रादः परहाराणाम अजायत

27 तस्मिंस तदा संप्रहारे दारुणे संकुले भृशम
उभाव अपि परिश्रान्तौ युध्यमानाव अरिंदमौ

28 तौ मुहूर्तं समाश्वस्य पुनर एव परंतपौ
अभ्यहारयतां करुद्धौ परगृह्य महती गदे

29 तयॊः समभवद युद्धं घॊररूपम असंवृतम
गदा निपातै राजेन्द्र तक्षतॊर वै परस्परम

30 वयायामप्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ
अन्यॊन्यं जघ्नतुर वीरौ पङ्कस्थौ महिषाव इव

31 जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसंप्लुतौ
ददृशाते हिमवति पुष्पिताव इव किंशुकौ

32 दुर्यॊधनेन पार्थस तु विवरे संप्रदर्शिते
ईषद उत्स्मयमानस तु सहसा परससाह ह

33 तम अभ्याशगतं पराज्ञॊ रणे परेक्ष्य वृकॊदरः
अवाक्षिपद गदां तस्मै वेगेन महता बली

34 अवक्षेपं तु तं दृष्ट्वा पुत्रस तव विशां पते
अपासर्पत ततः सथानात सा मॊघा नयपतद भुवि

35 मॊक्षयित्वा परहारं तं सुतस तव स संभ्रमात
भीमसेनं च गदया पराहरत कुरुसत्तमः

36 तस्य विष्यन्दमानेन रुधिरेणामितौजसः
परहार गुरु पाताच च मूर्छेव समजायत

37 दुर्यॊधनस तं च वेद पीडितं पाण्डवं रणे
धारयाम आस भीमॊ ऽपि शरीरम अतिपीडितम

38 अमन्यत सथितं हय एनं परहरिष्यन्तम आहवे
अतॊ न पराहरत तस्मै पुनर एव तवात्मजः

39 ततॊ मुहूर्तम आश्वस्य दुर्यॊधनम अवस्थितम
वेगेनाभ्यद्रवद राजन भीमसेनः परतापवान

40 तम आपतन्तं संप्रेक्ष्य संरब्धम अमितौजसम
मॊघम अस्य परहारं तं चिकीर्षुर भरतर्षभ

41 अवस्थाने मतिं कृत्वा पुत्रस तव महामनाः
इयेषॊत्पतितुं राजंश छलयिष्यन वृकॊदरम

42 अबुध्यद भीमसेनस तद राज्ञस तस्य चिकीर्षितम
अथास्य समभिद्रुत्य समुत्क्रम्य च सिंहवत

43 सृत्या वञ्चयतॊ राजन पुनर एवॊत्पतिष्यतः
ऊरुभ्यां पराहिणॊद राजङ्गदां वेगेन पाण्डवः

44 सा वज्रनिष्पेष समा परहिता भीमकर्मणा
ऊरू दुर्यॊधनस्याथ बभञ्जे परियदर्शनौ

45 स पपात नरव्याघ्रॊ वसुधाम अनुनादयन
भग्नॊरुर भीमसेनेन पुत्रस तव महीपते

46 ववुर वाताः सनिर्घाताः पांसुवर्षं पपात च
चचाल पृथिवी चापि सवृक्षक्षुप पर्वता

47 तस्मिन निपतिते वीरे पत्यौ सर्वमहीक्षिताम
महास्वना पुनर दीप्ता सनिर्घाता भयंकरी
पपात चॊल्का महती पतिते पृथिवीपतौ

48 तथा शॊणितवर्षं च पांसुवर्षं च भारत
ववर्ष मघवांस तत्र तव पुत्रे निपातिते

49 यक्षाणां राक्षसानां च पिशाचानां तथैव च
अन्तरिक्षे महानादः शरूयते भरतर्षभ

50 तेन शब्देन घॊरेण मृगाणाम अथ पक्षिणाम
जज्ञे घॊरतमः शब्दॊ बहूनां सर्वतॊदिशम

51 ये तत्र वाजिनः शेषा गजाश च मनुजैः सह
मुमुचुस ते महानादं तव पुत्रे निपातिते

52 भेरीशङ्खमृदङ्गानाम अभवच च सवनॊ महान
अन्तर्भूमि गतश चैव तव पुत्रे निपातिते

53 बहु पादैर बहु भुजैः कबन्धैर घॊरदर्शनैः
नृत्यद्भिर भयदैर वयाप्ता दिशस तत्राभवन नृप

54 धवजवन्तॊ ऽसत्रवन्तश च शस्त्रवन्तस तथैव च
पराकम्पन्त ततॊ राजंस तव पुत्रे निपातिते

55 हरदाः कूपाश च रुधिरम उद्वेमुर नृपसत्तम
नद्यश च सुमहावेगाः परतिस्रॊतॊ वहाभवन

56 पुल्लिङ्गा इव नार्यस तु सत्रीलिङ्गाः पुरुषाभवन
दुर्यॊधने तदा राजन पतिते तनये तव

57 दृष्ट्वा तान अद्भुतॊत्पातान पाञ्चालाः पाण्डवैः सह
आविग्नमनसः सर्वे बभूवुर भरतर्षभ

58 ययुर देवा यथाकामं गन्धर्वाप्सरसस तथा
कथयन्तॊ ऽदभुतं युद्धं सुतयॊस तव भारत

59 तथैव सिद्धा राजेन्द्र तथा वातिक चारणाः
नरसिंहौ परशंसन्तौ विप्रजग्मुर यथागतम

अध्याय 5
अध्याय 5