अध्याय 56

महाभारत संस्कृत - शल्यपर्व

1 [स] ततॊ दुर्यॊधनॊ दृष्ट्वा भीमसेनं तथागतम
परत्युद्ययाव अदीनात्मा वेगेन महता नदन

2 समापेततुर आनद्य शृङ्गिणौ वृषभाव इव
महानिर्घात घॊषश च संप्रहारस तयॊर अभूत

3 अभवच च तयॊर युद्धं तुमुलं लॊम हार्षणम
जिगीषतॊर युधा अन्यॊन्यम इन्द्र परह्रादयॊर इव

4 रुधिरॊक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ
ददृशाते महात्मानौ पुष्पिताव इव कुंशुकौ

5 तथा तस्मिन महायुद्धे वर्तमाने सुदारुणे
खद्यॊतसंघैर इव खं दर्शनीयं वयरॊचत

6 तथा तस्मिन वर्तमाने संकुले तुमुले भृशम
उभाव आपि परिश्रान्तौ युध्यमानाव अरिंदमौ

7 तौ मुहूर्तं समाश्वस्य पुनर एव परंतपौ
अभ्यहारयतां तत्र संप्रगृह्य गदे शुभे

8 तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ
बलिनौ वारणौ यद्वद वाशितार्थे मदॊत्कटौ

9 अपारवीर्यौ संप्रेक्ष्य परगृहीतगदाव उभौ
विस्मयं परमं जग्मुर देवगन्धर्वदानवाः

10 परगृहीतगदौ दृष्ट्वा दुर्यॊधन वृकॊदरौ
सांशयः सर्वभूतानां विजये समपद्यत

11 समागम्य ततॊ भूयॊ भरातरौ बलिनां वरौ
अन्यॊन्यस्यान्तर परेप्सू परचक्राते ऽनतरं परति

12 यमदण्डॊपमां गुर्वीम इन्द्राशनिम इवॊद्यताम
ददृशुः परेक्षका राजन रौद्रीं विशसनीं गदाम

13 आविध्यतॊ गदां तस्य भीमसेनस्य संयुगे
शब्दः सुतुमुलॊ घॊरॊ मुहूर्तं समपद्यत

14 आविध्यन्तम अभिप्रेक्ष्य धार्तराष्ट्रॊ ऽथ पाण्डवम
गदाम अलघु वेगां तां विस्मितः संबभूव ह

15 चरंश च विविधान मार्गान मण्डलानि च भारत
अशॊभत तदा वीरॊ भूय एव वृकॊदरः

16 तौ परस्परम आसाद्य यत ताव अन्यॊन्यरक्षणे
मार्जाराव इव भक्षार्थे ततक्षाते मुहुर मुहुः

17 अचरद भीमसेनस तु मार्गान बहुविधांस तथा
मण्डलानि विचित्राणि सथानानि विविधानि च

18 गॊमूत्रिकाणि चित्राणि गतप्रत्यागतानि च
परिमॊक्षं परहाराणां वर्जनं परिधावनम

19 अभिद्रवणम आक्षेपम अवस्थानं सविग्रहम
परावर्तन संवर्तम अवप्लुतम अथाप्लुतम
उपन्यस्तम अपन्यस्तं गदायुद्धविशारदौ

20 एवं तौ विचरन्तौ तु नयघ्नतां वै परस्परम
वञ्चयन्तौ पुनश चैव चेरतुः कुरुसत्तमौ

21 विक्रीडन्तौ सुबलिनौ मण्डलानि परचेरतुः
गदाहस्तौ ततस तौ तु मण्डलावस्थितौ बली

22 दक्षिणं मण्डलं राजन धार्तराष्ट्रॊ ऽभयवर्तत
सव्यं तु मण्डलं तत्र भीमसेनॊ ऽभयवर्तत

23 तथा तु चरतस तस्य भीमस्य रणमूर्धनि
दुर्यॊधनॊ महाराज पार्श्वदेशे ऽभयताडयत

24 आहतस तु तदा भीमस तव पुत्रेण भारत
आविध्यत गदां गुर्वीं परहारं तम अचिन्तयन

25 इन्द्राशनिसमां घॊरां यमदण्डम इवॊद्यताम
ददृशुस ते महाराज भीमसेनस्य तां गदाम

26 आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः
समुद्यम्या गदां घॊरां परत्यविध्यद अरिंदमः

27 गदा मारुतवेगेन तव पुत्रस्य भारत
शब्द आसीत सुतुमुलस तेजश च समजायत

28 स चरन विविधान मार्गान मण्डलानि च भागशः
समशॊभत तेजस्वी भूयॊ भीमात सुयॊधनः

29 आविद्धा सर्ववेगेन भीमेन महती गदा
सधूमं सार्चिषं चाग्निं मुमॊचॊग्रा महास्वना

30 आधूतां भीमसेनेन गदां दृष्ट्वा सुयॊधनः
अद्रिसारमयीं गुर्वीम आविध्यन बह्व अशॊभत

31 गदा मारुतवेगं हि दृष्ट्वा तस्य महात्मनः
भयं विवेश पाण्डून वै सर्वान एव ससॊमकान

32 तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः
गदाभ्यां सहसान्यॊन्यम आजघ्नतुर अरिंदमौ

33 तौ परस्परम आसाद्य दंष्ट्राभ्यां दविरदौ यथा
अशॊभेतां महाराज शॊणितेन परिप्लुतौ

34 एवं तद अभवद युद्धं घॊररूपम असंवृतम
परिवृत्ते ऽहनि करूरं वृत्रवासवयॊर इव

35 दृष्ट्वा वयवस्थितं भीमं तव पुत्रॊ महाबलः
चरंश चित्रतरान मार्गान कौन्तेयम अभिदुद्रुवे

36 तस्य भीमॊ महावेगां जाम्बूनदपरिष्कृताम
अभिक्रुद्धस्य करुद्धस तु ताडयाम आस तां गदाम

37 सविस्फुलिङ्गॊ निर्ह्रादस तयॊस तत्राभिघातजः
परादुरासीन महाराज सृष्टयॊर वज्रयॊर इव

38 वेगवत्या तया तत्र भीमसेनप्रमुक्तया
निपतन्त्या महाराज पृथिवीसमकम्पत

39 तां नामृष्यत कौरव्यॊ गदां परतिहतां रणे
मत्तॊ दविप इव करुद्धः परतिजुञ्जर दर्शनात

40 स सव्यं मण्डलं राजन्न उद्भ्राम्य कृतनिश्चयः
आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया

41 तया तव अभिहतॊ भीमः पुत्रेण तव पाण्डवः
नाकम्पत महाराज तद अद्भुतम इवाभवत

42 आश्चर्यं चापि तद राजन सर्वसैन्यान्य अपूजयन
यद गदाभिहतॊ भीमॊ नाकम्पत पदात पदम

43 ततॊ गुरुतरां दीप्तां गदां हेमपरिष्कृताम
दुर्यॊधनाय वयसृजद भीमॊ भीमपराक्रमः

44 तं परहारम असंभ्रान्तॊ लाघवेन महाबलः
मॊघं दुर्यॊधनश चक्रे तत्राभूद विस्मयॊ महान

45 सा तु मॊघा गदा राजन पतन्ती भीम चॊदिता
चालयाम आस पृथिवीं महानिर्घात निस्वना

46 आस्थाय कौशिकान मार्गान उत्पतन स पुनः पुनः
गदा निपातं परज्ञाय भीमसेनम अवञ्चयत

47 वञ्चयित्वा तथा भीमं गदया कुरुसत्तमः
ताडयाम आस संक्रुद्धॊ वक्षॊ देशे महाबलः

48 गदयाभिहतॊ भीमॊ मुह्यमानॊ महारणे
नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस तव

49 तस्मिंस तथा वर्तमाने राजन सॊमक पाण्डवाः
भृशॊपहत संकल्पा नहृष्ट मनसॊ ऽभवन

50 स तु तेन परहारेण मातङ्ग इव रॊषितः
हस्तिवद धस्ति संकाशम अभिदुद्राव ते सुतम

51 ततस तु रभसॊ भीमॊ गदया तनयं तव
अभिदुद्राव वेगेन सिंहॊ वनगजं यथा

52 उपसृत्य तु राजानं गदा मॊक्षविशारदः
आविध्यत गदां राजन समुद्दिश्य सुतं तव

53 अताडयद भीमसेनः पार्श्वे दुर्यॊधनं तदा
स विह्वलः परहारेण जानुभ्याम अगमन महीम

54 तस्मिंस तु भरतश्रेष्ठे जानुभ्याम अवनीं गते
उदतिष्ठत ततॊ नादः सृञ्जयानां जगत्पते

55 तेषां तु निनदं शरुत्वा सृञ्जयानां नरर्षभः
अमर्षाद भरतश्रेष्ठ पुत्रस ते समकुप्यत

56 उत्थाय तु महाबाहुः करुद्धॊ नाग इव शवसन
दिधक्षन्न इव नेत्राभ्यां भीमसेनम अवैक्षत

57 ततः स भरतश्रेष्ठॊ गदापाणिर अभिद्रवत
परमथिष्यन्न इव शिरॊ भीमसेनस्य संयुगे

58 स महात्मा महात्मानं भीमं भीमपराक्रमः
अताडयच छङ्खदेशे स चचालाचलॊपमः

59 स भूयः शुशुभे पार्थस ताडितॊ गदया रणे
उद्भिन्न रुधिरॊ राजन परभिन्न इव कुञ्जरः

60 ततॊ गदां वीर हणीम अयॊ मयीं; परगृह्य वज्राशनितुल्यनिस्वनाम
अताडयच छत्रुम अमित्रकर्शनॊ; बलेन विक्रम्य धनंजयाग्रजः

61 स भीमसेनाभिहतस तवात्मजः; पपात संकम्पित देहबन्धनः
सुपुष्पितॊ मारुतवेगताडितॊ; महावने साल इवावघूर्णितः

62 ततः परणेदुर जहृषुश च पाण्डवाः; समीक्ष्य पुत्रं पतितं कषितौ तव
तथ सुतस ते परतिलभ्य चेतनां; समुत्पपात दविरदॊ यथा हरदात

63 स पार्थिवॊ नित्यम अमर्षितस तदा; महारथः शिक्षितवत परिभ्रमन
अताडयत पाण्डवम अग्रतः सथितं; स विह्वलाङ्गॊ जगतीम उपास्पृशत

64 स समिह नादान विननाद कौरवॊ; निपात्य भूमौ युधि भीमम ओजसा
बिभेद चैवाशनि तुल्यतेजसा; गदा निपातेन शरीररक्षणम

65 ततॊ ऽनतरिक्षे निनदॊ महान अभूद; दिवौकसाम अप्सरसां च नेदुषाम
पपात चॊच्चर मर परवेरितं; विचित्रपुष्पॊत्कर वर्षम उत्तमम

66 ततः परान आविशद उत्तमं भयं; समीक्ष्य भूमौ पतितं नरॊत्तमम
अहीयमानं च बलेन कौरवं; निशम्य भेदं च दृढस्य वर्मणः

67 ततॊ मुहूर्ताद उपलभ्य चेतनां; परमृज्य वक्त्रं रुधिरार्धम आत्मनः
धृतिं समालम्ब्य विवृत्तलॊचनॊ; बलेन संस्तभ्य वृकॊदरः सथितः

अध्याय 5
अध्याय 5