Homeधार्मिक ग्रंथ (Page 32)

धार्मिक ग्रंथ

1 [स] दृष्ट्वा तु संनिवृत्तांस तान संशप्तकगणान पुनः
वासुदेवं महात्मानम अर्जुनः समभाषत

1 [बर] शुभानाम अशुभानां च नेह नाशॊ ऽसति कर्मणाम
पराप्य पराप्य तु पच्यन्ते कषेत्रं कषेत्रं तथा तथा

1 [गान्धारी] पश्य माधव पुत्रान मे शतसंख्याञ जितक्लमान
गदया भीमसेनेन भूयिष्ठं निहतान रणे

1 [ष] ततः शक्रः सतूयमानॊ गन्धर्वाप्सरसां गणैः
ऐरावतं समारुह्य दविपेन्द्रं लक्षणैर युतम

1 [भृगु] न परनाशॊ ऽसति जीवानां दत्तस्य च कृतस्य च
याति देहान्तरं परानी शरीरं तु विशीर्यते

1 [वै] तस्मै दित्सति कन्यां तु बराह्मणाय महात्मने
कॊप आसीन महीपानाम आलॊक्यान्यॊन्यम अन्तिकात

1 [वै] काम्यकं पराप्य कौन्तेया युधिष्ठिरपुरॊगमाः
कृतातिथ्या मुनिगणैर निषेदुः सह कृष्णया

1 भीष्म उवाच
तम अहं समयन्न इव रणे परत्यभाषं वयवस्थितम
भूमिष्ठं नॊत्सहे यॊद्धुं भवन्तं रथम आस्थितः

1 [भृगु] असृजद बराह्मणान एव पूर्वं बरह्मा परजापतिः
आत्मतेजॊ ऽभिनिर्वृत्तान भास्कराग्निसमप्रभान

1 [वै] अजिनानि विधुन्वन्तः करकांश च दविजर्षभाः
ऊचुस तं भीर न कर्तव्या वयं यॊत्स्यामहे परान

1 [वै] तं विवक्षन्तम आलक्ष्य कुरुराजॊ महामुनिम
कथा संजननार्थाय चॊदयाम आस पाण्डवः

1 भीष्म उवाच
आत्मनस तु ततः सूतॊ हयानां च विशां पते
मम चापनयाम आस शल्यान कुशलसंमतः

1 [भरद्वाज] बराह्मणः केन भवति कषत्रियॊ वा दविजॊत्तम
वैश्यः शूद्रश च विप्रर्षे तद बरूहि वदतां वर

1 [वै] गत्वा तु तां भार्गव कर्मशालां; पार्थौ पृथां पराप्य महानुभावौ
तां याज्ञसेनीं परमप्रतीतौ; भिक्षेत्य अथावेदयतां नराग्र्यौ

1 [वै] मार्कण्डेयं महात्मानम ऊचुः पाण्डुसुतास तदा
माहात्म्यं दविजमुख्यानां शरॊतुम इच्छाम कथ्यताम

1 भीष्म उवाच
समागतस्य रामेण पुनर एवातिदारुणम
अन्येद्युस तुमुलं युद्धं तदा भरतसत्तम

1 [भृगु] सत्यं बरह्म तपः सत्यं सत्यं सृजति च परजाः
सत्येन धार्यते लॊकः सवर्गं सत्येन गच्छति

1 [वै] भरातृवचस तत परसमीक्ष्य सर्वे; जयेष्ठस्य पाण्डॊस तनयास तदानीम
तम एवार्थं धयायमाना मनॊभिर; आसां चक्रुर अथ तत्रामितौजाः

1 [मार्क] भूय एव तु माहात्म्यं बराह्मणानां निबॊध मे
वैन्यॊ नामेह राजर्षिर अश्वमेधाय दीक्षितः
तम अत्रिर गन्तुम आरेभे वित्तार्थम इति नः शरुतम

1 भीष्म उवाच
ततः परभाते राजेन्द्र सूर्ये विमल उद्गते
भार्गवस्य मया सार्धं पुनर युद्धम अवर्तत

1 [भरद्वाज] दानस्य किं फलं पराहुर धर्मस्य चरितस्य च
तपसश च सुतप्तस्य सवाध्यायस्य हुतस्य च

1 [वै] धृष्टद्युम्नस तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ
अन्वगच्छत तदा यान्तौ भार्गवस्य निवेशनम

1 [मार्क] अत्रैव च सरस्वत्या गीतं परपुरंजय
पृष्टया मुनिना वीर शृणु तर्क्षेण धीमता

1 भीष्म उवाच
ततॊ ऽहं निशि राजेन्द्र परणम्य शिरसा तदा
बरह्मणानां पितॄणां च देवतानां च सर्वशः

1 [भ] वानप्रस्थाः खल्व ऋषिधर्मम अनुसरन्तः पुण्यानि तीर्थानि नदीप्रस्रवणानि सुविविक्तेष्व अरण्येषु मृगमहिष वराहसृमर गजाकीर्णेषु तपस्यन्तॊ ऽनुसंचरन्ति
तयक्तग्राम्य वस्त्राहारॊपभॊगा वन्यौषधि मूलफलपर्णपरिमित विचित्रनियताहाराः सथानासनिनॊ भूमिपासानसिकता शर्करा वालुका भस्मशायिनः काशकुश चर्म वल्कलसंवृताङ्गाः केशश्मश्रुनखरॊमधारिणॊ नियतकालॊपस्पर्शनास्कन्न हॊमबलिकालानुष्ठायिनः समित कुश कुसुमॊपहार हॊमार्जन लब्धविश्रामाः शीतॊस्न पवननिष्टप्त विभिन्नसर्वत्वचॊ विविधनियम यॊगचर्या विहित धर्मानुष्ठान हृतमांस शॊनितास तवग अस्थि भूता धृतिपराः सत्त्वयॊगाच छरीराण्य उद्वहन्ति

1 [वै] ततस तथॊक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः
धृष्टद्युम्नः सॊमकानां परबर्हॊ; वृत्तं यथा येन हृता च कृष्णा

1 [वै] ततः स पाण्डवॊ भूयॊ मार्कण्डेयम उवाच ह
कथयस्वेह चरितं मनॊर वैवस्वतस्य मे

1 भीष्म उवाच
ततॊ रात्र्यां वयतीतायां परतिबुद्धॊ ऽसमि भारत
तं च संचिन्त्य वै सवप्नम अवापं हर्षम उत्तमम

1 [य] आचारस्य विधिं तात परॊच्यमानं तवयानघ
शरॊतुम इच्छामि धर्मज्ञ सर्वज्ञॊ हय असि मे मतः

1 [वै] ततः स पुनर एवाथ मार्कण्डेयं यशस्विनम
पप्रच्छ विनयॊपेतॊ धर्मराजॊ युधिष्ठिरः

1 [दूत] जन्यार्थम अन्नं दरुपदेन राज्ञा; विवाह हेतॊर उपसंस्कृतं च
तद आप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम

1 भीष्म उवाच
ततॊ हलहलाशब्दॊ दिवि राजन महान अभूत
परस्वापं भीष्म मा सराक्षीर इति कौरवनन्दन

1 [य] अध्यात्मं नाम यद इदं पुरुषस्येह चिन्त्यते
यद अध्यात्मं यतश चैतत तन मे बरूहि पितामह

1 [वै] तत आहूय पाञ्चाल्यॊ राजपुत्रं युधिष्ठिरम
परिग्रहेण बराह्मेण परिगृह्य महाद्युतिः

1 [देव] कामं देवापि मां विप्र न विजानन्ति तत्त्वतः
तवत परीत्या तु परवक्ष्यामि यथेदं विसृजाम्य अहम

1 राम उवाच
परत्यक्षम एतल लॊकानां सर्वेषाम एव भामिनि
यथा मया परं शक्त्या कृतं वै पौरुषं महत

1 [भीस्म] हन्त वक्ष्यामि ते पार्थ धयानयॊगं चतुर्विधम
यं जञात्वा शाश्वतीं सिद्धिं गच्छन्ति परमर्षयः

1 [वै] ततस ते पाण्डवाः सर्वे पाञ्चाल्यश च महायशाः
परत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन

1 [वै] एवम उक्तास तु ते पार्था यमौ च पुरुषर्षभौ
दरौपद्या कृष्णया सार्धं नमश चक्रुर जनार्दनम

1 भीष्म उवाच
ततस ते तापसाः सर्वे तपसे धृतनिश्चयाम
दृष्ट्वा नयवर्तयंस तात किं कार्यम इति चाब्रुवन

1 [य] चातुराश्रम्यम उक्तं ते राजधर्मास तथैव च
नानाश्रयाश च बहव इतिहासाः पृथग्विधाः

1 [वयास] पुरा वै नैमिषारण्ये देवाः सत्रम उपासते
तत्र वैवस्वतॊ राजञ शामित्रम अकरॊत तदा

1 [मार्क] ततश चॊरक्षयं कृत्वा दविजेभ्यः पृथिवीम इमाम
वाजिमेधे महायज्ञे विधिवत कल्पयिष्यति

1 दुर्यॊधन उवाच
कथं शिखण्डी गाङ्गेय कन्या भूत्वा सती तदा
पुरुषॊ ऽभवद युधि शरेष्ठ तन मे बरूहि पितामह

1 [ग] एष माधव पुत्रॊ मे विकर्णः पराज्ञसंमतः
भूमौ विनिहतः शेते भीमेन शतधा कृतः

1 [स] संनिवृत्ते बलौघे तु शाल्वॊ मलेच्छ गणाधिपः
अभ्यवर्तत संक्रुद्धः पाण्डूनां सुमहद बलम

1 [य] यद इदं सहधर्मेति परॊच्यते भरतर्षभ
पाणिग्रहण काले तु सत्रीणाम एतत कथं समृतम

1 [वा] एष पार्थ महान सवादुः पशुमान नित्यम अम्बुमान
निरामयः सुवेश्माढ्यॊ निवेशॊ मागधः शुभः

1 [दरौ] अहं सैरन्धि वेषेण चरन्ती राजवेश्मनि
शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात

1 [वै] एवम उक्तस तु राज्ञा स विदुरॊ बुद्धिसत्तमः
धृतराष्ट्रम उपेत्येदं वाक्यम आह महार्थवत

1 [स] शवेताश्वॊ ऽपि महाराज वयधमत तावकं बलम
यथा वायुः समासाद्य तूला राशिं समन्ततः

1 [युधिस्ठिर] वेदाहं तात शास्त्राणि अपराणि पराणि च
उभयं वेद वचनं कुरु कर्म तयजेति च

1 [धृ] अक्षौहिण्यॊ दशैकां च वयूढां दृष्ट्वा युधिष्ठिरः
कथम अल्पेन सैन्येन परत्यव्यूहत पाण्डवः

1 [सू] ततॊ रजन्यां वयुष्टायां परभात उदिते रवौ
कद्रूश च विनता चैव भगिन्यौ ते तपॊधन

1 [वा] शाल्व बाणार्दिते तस्मिन परद्युम्ने बलिनां वरे
वृष्णयॊ भग्नसंकल्पा विव्यथुः पृतना गताः

1 [स] परिणाम्य निशां तां तु भारद्वाजॊ महारथः
बहूक्त्वा च ततॊ राजन राजानं च सुयॊधनम

1 [बर] यः सयाद एकायने लीनस तूष्णीं किं चिद अचिन्तयन
पूर्वं पूर्वं परित्यज्य स निरारम्भकॊ भवेत

1 [व] युयुधानस ततॊ वीरः सात्वतानां महारथः
महता चतुरङ्गेण बलेनागाद युधिष्ठिरम

1 [दरुपद] अश्रुत्वैवं वचनं ते महर्षे; मया पूर्वं यातितं कार्यम एतत
न वै शक्यं विहितस्यापयातुं; तद एवेदम उपपन्नं विधानम

1 [य] गतीनाम उत्तमा पराप्तिः कथिता जापकेष्व इह
एकैवैषा गतिस तेषाम उत यान्त्य अपराम अपि

1 [वै] भूय एव बराह्मणमहाभाग्यं वक्तुम अर्हसीत्य अब्रवीत पाण्डवेयॊ मार्कण्डेयम

1 भीष्म उवाच
चकार यत्नं दरुपदः सर्वस्मिन सवजने महत
ततॊ लेख्यादिषु तथा शिल्पेषु च परं गता
इष्वस्त्रे चैव राजेन्द्र दरॊणशिष्यॊ बभूव ह

1 [य] कीदृशॊ जापकॊ याति निरयं वर्णयस्व मे
कौतूहलं हि मे जातं तद भवान वक्तुम अर्हति

1 [वै] पाण्डवैः सह संयॊगं गतस्य दरुपदस्य तु
न बभूव भयं किं चिद देवेभ्यॊ ऽपि कथं चन

1 [वै] मार्कण्डेयम ऋषयः पाण्डवाश च पर्यपृच्छन
अस्ति कश चिद भवतश चिरजाततरेति

1 भीष्म उवाच
एवम उक्तस्य दूतेन दरुपदस्य तदा नृप
चॊरस्येव गृहीतस्य न परावर्तत भारती

1 [य] कालमृत्युयमानां च बराह्मणस्य च सत्तम
विवादॊ वयाहृतः पूर्वं तद भवान वक्तुम अर्हति

1 [वै] ततॊ राज्ञां चरैर आप्तैश चारः समुपनीयत
पाण्डवैर उपसंपन्ना दरौपदी पतिभिः शुभा

1 [वै] युधिष्ठिरॊ धर्मराजः पप्रच्छ भरतर्षभ
मार्कण्डेयं तपॊवृद्धं दीर्यायुर अम अकल्मषम

1 भीष्म उवाच
ततः शिखण्डिनॊ माता यथातत्त्वं नराधिप
आचचक्षे महाबाहॊ भर्त्रे कन्यां शिखण्डिनीम

1 [य] किम उत्तरं तदा तौ सम चक्रतुस तेन भासिते
बराह्मणॊ वाथ वा राजा तन मे बरूहि पितामह

1 [धृ] अहम अप्य एवम एवैतच चिन्तयामि यथा युवाम
विवेक्तुं नाहम इच्छामि तव आकरं विदुरं परति

1 [मार्क] इक्ष्वाकौ संस्थिते राजञ शशादः पृथिवीम इमाम
पराप्तः परमधर्मात्मा सॊ ऽयॊध्यायां नृपॊ ऽभवत

1 भीष्म उवाच
शिखण्डिवाक्यं शरुत्वाथ स यक्षॊ भरतर्षभ
परॊवाच मनसा चिन्त्य दैवेनॊपनिपीडितः
भवितव्यं तथा तद धि मम दुःखाय कौरव

1 [य] किं फलं जञानयॊगस्य वेदानां नियमस्य च
भूतात्मा वा कथं जञेयस तन मे बरूहि पितामह

1 [कर्ण] दुर्यॊधन तव परज्ञा न सम्यग इति मे मतिः
न हय उपायेन ते शक्याः पाण्डवाः कुरुनन्दन

1 [मार्क] स एवम उक्तॊ राजर्षिर उत्तङ्केनापराजितः
उत्तङ्कं कौरवश्रेष्ठ कृताञ्जलिर अथाब्रवीत

1 संजय उवाच
परभातायां तु शर्वर्यां पुनर एव सुतस तव
मध्ये सर्वस्य सैन्यस्य पितामहम अपृच्छत

1 [भस] न रॊचते विग्रहॊ मे पाण्डुपुत्रैः कथं चन
यथैव धृतराष्ट्रॊ मे तथा पाण्डुर असंशयम

1 [मनु] अक्षरात खं ततॊ वायुर वायॊर जयॊतिस ततॊ जलम
जलात परसूता जगती जगत्यां जायते जगत

1 [मार्क] धुन्धुर नाम महातेजा तयॊः पुत्रॊ महाद्युतिः
स तपॊ ऽतप्यत महन महावीर्यपराक्रमः

1 वैशंपायन उवाच
एतच छरुत्वा तु कौन्तेयः सर्वान भरातॄन उपह्वरे
आहूय भरतश्रेष्ठ इदं वचनम अब्रवीत

1 [मनु] यद इन्द्रियैस तूपकृतान पुरस्तात; पराप्तान गुणान संस्मरते चिराय
तेष्व इन्द्रियेषूपहतेषु पश्चात; स बुद्धिरूपः परमः सवभावः

1 [दरॊण] मन्त्राय समुपानीतैर धृतराष्ट्र हितैर नृप
धर्म्यं पथ्यं यशस्यं च वाच्यम इत्य अनुशुश्रुमः

1 [वै] ततॊ युधिष्ठिरॊ राजा मार्कण्डेयं महाद्युतिम
पप्रच्छ भरतश्रेष्ठ धर्मप्रश्नं सुदुर्वचम

1 वैशंपायन उवाच
ततः परभाते विमले धार्तराष्ट्रेण चॊदिताः
दुर्यॊधनेन राजानः परययुः पाण्डवान परति

1 [मनु] यथा वयक्तम इदं शेते सवप्ने चरति चेतनम
जञानम इन्द्रियसंयुक्तं तद्वत परेत्य भवाभवौ

1 [मार्क] कश चिद दविजातिप्रवरॊ वेदाध्यायी तपॊधनः
तपस्वी धर्मशीलश च कौशिकॊ नाम भारत

1 [विदुर] राजन निःसंशयं शरेयॊ वाच्यस तवम असि बान्धवैः
न तव अशुश्रूषमाणेषु वाक्यं संप्रतितिष्ठति

1 वैशंपायन उवाच
तथैव राजा कौन्तेयॊ धर्मपुत्रॊ युधिष्ठिरः
धृष्टद्युम्नमुखान वीरांश चॊदयाम आस भारत

1 [धृ] भीष्मः शांतनवॊ विद्वान दरॊणश च भगवान ऋषिः
हितं परमकं वाक्यं तवं च सत्यं बरवीषि माम

1 [मनु] जञानं जञेयाभिनिर्वृत्तं विद्धि जञानगुणं मनः
परज्ञा करण संयुक्तं ततॊ बुद्धिः परवर्तते

1 [मार्क] चिन्तयित्वा तद आश्चर्यं सत्रिया परॊक्तम अशेषतः
विनिन्दन स दविजॊ ऽऽतमानम आगः कृत इवाबभौ

1 [दरुपद] एवम एतन महाप्राज्ञ यथात्थ विदुराद्य माम
ममापि परमॊ हर्षः संबन्धे ऽसमिन कृते विभॊ

1 [मनु] यदा ते पञ्चभिः पञ्च विमुक्ता मनसा सह
अथ तद दरक्ष्यसे बरह्म मनौ सूत्रम इवार्पितम

1 [मार्क] स तु विप्रम अथॊवाच धर्मव्याधॊ युधिष्ठिर
यद अहं हय आचरे कर्म घॊरम एतद असंशयम

1 [य] पितामह महाप्राज्ञ सर्वशास्त्रविशारद
शरुतं मे महद आख्यानम इदं मतिमतां वर

1 [बलदेव] शरुतं भवद्भिर गद पूर्वजस्य; वाक्यं यथा धर्मवद अर्थवच च
अजातशत्रॊश च हितं हितं च; दुर्यॊधनस्यापि तथैव राज्ञः

1 [व] एवम उक्तस तु राज्ञा स धृतराष्ट्रेण धीमता
तूष्णीं बभूव मेधावी तम उवाचाथ केशवः

1 [वैषम्पायन] स एवम उक्तस तु मुनिर नारदॊ वदतां वरः
कथयाम आस तत सर्वं यथा शप्तः ससूतजः