अध्याय 19

महाभारत संस्कृत - आदिपर्व

1 [सू] ततॊ रजन्यां वयुष्टायां परभात उदिते रवौ
कद्रूश च विनता चैव भगिन्यौ ते तपॊधन

2 अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा
जग्मतुस तुरगं दरष्टुम उच्छैः शरवसम अन्तिकात

3 ददृशाते तदा तत्र समुद्रं निधिम अम्भसाम
तिमिंगिलझषाकीर्णं मकरैर आवृतं तथा

4 सत्त्वैश च बहुसाहस्रैर नानारूपैः समावृतम
उग्रैर नित्यम अनाधृष्यं कूर्मग्राहसमाकुलम

5 आकरं सर्वरत्नानाम आलयं वरुणस्य च
नागानाम आलयं रम्यम उत्तमं सरितां पतिम

6 पातालज्वलनावासम असुराणां च बन्धनम
भयंकरं च सत्त्वानां पयसां निधिम अर्णवम

7 शुभं दिव्यम अमर्त्यानाम अमृतस्याकरं परम
अप्रमेयम अचिन्त्यं च सुपुण्य जलम अद्भुतम

8 घॊरं जलचराराव रौद्रं भैरवनिस्वनम
गम्भीरावर्त कलिलं सर्वभूतभयंकरम

9 वेलादॊलानिल चलं कषॊभॊद्वेग समुत्थितम
वीचीहस्तैः परचलितैर नृत्यन्तम इव सर्वशः

10 चन्द्र वृद्धिक्षयवशाद उद्वृत्तॊर्मि दुरासदम
पाञ्चजन्यस्य जननं रत्नाकरम अनुत्तमम

11 गां विन्दता भगवता गॊविन्देनामितौजसा
वराहरूपिणा चान्तर विक्षॊभित जलाविलम

12 बरह्मर्षिणा च तपता वर्षाणां शतम अत्रिणा
अनासादित गाधं च पातालतलम अव्ययम

13 अध्यात्मयॊगनिद्रां च पद्मनाभस्य सेवतः
युगादि कालशयनं विष्णॊर अमिततेजसः

14 वडवामुखदीप्ताग्नेस तॊयहव्यप्रदं शुभम
अगाध पारं विस्तीर्णम अप्रमेयं सरित्पतिम

15 महानदीभिर बह्वीभिः सपर्धयेव सहस्रशः
अभिसार्यमाणम अनिशं ददृशाते महार्णवम

16 गम्भीरं तिमिमकरॊग्र संकुलं तं; गर्जन्तं जलचर राव रौद्रनादैः
विस्तीर्णं ददृशतुर अम्बरप्रकाशं; ते ऽगाधं निधिम उरुम अम्भसाम अनन्तम

17 इत्य एवं झषमकरॊर्मि संकुलं तं; गम्भीरं विकसितम अम्बरप्रकाशम
पातालज्वलनशिखा विदीपितं तं; पश्यन्त्यौ दरुतम अभिपेततुस तदानीम

अध्याय 2
अध्याय 1