अध्याय 190

महाभारत संस्कृत - शांतिपर्व

1 [य] गतीनाम उत्तमा पराप्तिः कथिता जापकेष्व इह
एकैवैषा गतिस तेषाम उत यान्त्य अपराम अपि

2 [भी] शृणुष्वावहितॊ राजञ जापकानां गतिं विभॊ
यथा गच्छन्ति निरयम अनेकं पुरुषर्षभ

3 यथॊक्तम एतत पूर्वं यॊ नानुतिष्ठति जापकः
एकदेशक्रियश चात्र निरयं स निगच्छति

4 अवज्ञानेन कुरुते न तुष्यति न शॊचति
ईदृशॊ जापकॊ याति निरयं नात्र संशयः

5 अहंकारकृतश चैव सर्वे निरयगामिनः
परावमानी पुरुषॊ भविता निरयॊपगः

6 अभिध्या पूर्वकं जप्यं कुरुते यश च मॊहितः
यत्राभिध्यां स कुरुते तं वै निरयम ऋच्छति

7 अथैश्वर्यप्रवृत्तः सञ जापकस तत्र रज्यते
स एव निरयस तस्य नासौ तस्मात परमुच्यते

8 रागेण जापकॊ जप्यं कुरुते तत्र मॊहितः
यत्रास्य रागः पतति तत्र तत्रॊपजायते

9 दुर्बुद्धिर अकृतप्रज्ञश चले मनसि तिष्ठति
चलाम एव गतिं याति निरयं वाधिगच्छति

10 अकृतप्रज्ञकॊ बालॊ मॊहं गच्छति जापकः
स मॊहान निरयं याति तत्र गत्वानुशॊचति

11 दृध गराही करॊमीति जप्यं जपति जापकः
न संपूर्णॊ न वा युक्तॊ निरयं सॊ ऽधिगच्छति

12 [य] अनिमित्तं परं यत तद अव्यक्तं बरह्मणि सथितम
सद भूतॊ जापकः कस्मात स शरीरम अथाविशेत

13 [भी] दुष्प्रज्ञानेन निरया बहवः समुदाहृताः
परशस्तं जापकत्वं च दॊषाश चैते तद आत्मकाः

अध्याय 1
अध्याय 1