अध्याय 189

महाभारत संस्कृत - आदिपर्व

1 [वयास] पुरा वै नैमिषारण्ये देवाः सत्रम उपासते
तत्र वैवस्वतॊ राजञ शामित्रम अकरॊत तदा

2 ततॊ यमॊ दीक्षितस तत्र राजन; नामारयत किं चिद अपि परजाभ्यः
ततः परजास ता बहुला बभूवुः; कालातिपातान मरणात परहीणाः

3 ततस तु शक्रॊ वरुणः कुबेरः; साध्या रुद्रा वसवश चाश्विनौ च
परणेतारं भुवनस्य परजापतिं; समाजग्मुस तत्र देवास तथान्ये

4 ततॊ ऽबरुवँल लॊकगुरुं समेता; भयं नस तीव्रं मानुषाणां विवृद्ध्या
तस्माद भयाद उद्विजन्तः सुखेप्सवः; परयाम सर्वे शरणं भवन्तम

5 [बरह्मा] किं वॊ भयं मानुषेभ्यॊ यूयं सर्वे यदामराः
मा वॊ मर्त्यसकाशाद वै भयं भवतु कर्हि चित

6 [देवाह] मर्त्या हय अमर्त्याः संवृत्ता न विशेषॊ ऽसति कश चन
अविशेषाद उद्विजन्तॊ विशेषार्थम इहागताः

7 [बरह्मा] वैवस्वतॊ वयापृतः सत्र हेतॊस; तेन तव इमे न मरियन्ते मनुष्याः
तस्मिन्न एकाग्रे कृतसर्वकार्ये; तत एषां भवितैवान्त कालः

8 वैवस्वतस्यापि तनुर विभूता; वीर्येण युष्माकम उत परयुक्ता
सैषाम अन्तॊ भविता हय अन्तकाले; तनुर हि वीर्यं भविता नरेषु

9 [वयास] ततस तु ते पूर्वज देववाक्यं; शरुत्वा देवा यत्र देवा यजन्ते
समासीनास ते समेता महाबला; भागी रथ्यां ददृशुः पुण्डरीकम

10 दृष्ट्वा च तद विस्मितास ते बभूवुस; तेषाम इन्द्रस तत्र शूरॊ जगाम
सॊ ऽपश्यद यॊषाम अथ पावकप्रभां; यत्र गङ्गा सततं संप्रसूता

11 सा तत्र यॊषा रुदती जलार्थिनी; गङ्गां देवीं वयवगाह्यावतिष्ठत
तस्याश्रु बिन्दुः पतितॊ जले वै; तत पद्मम आसीद अथ तत्र काञ्चनम

12 तद अद्भुतं परेक्ष्य वज्री तदानीम; अपृच्छत तां यॊषितम अन्तिकाद वै
का तवं कथं रॊदिषि कस्य हेतॊर; वाक्यं तथ्यं कामयेह बरवीहि

13 [सत्री] तवं वेत्स्यसे माम इह यास्मि शक्र; यदर्थं चाहं रॊदिमि मन्दभाग्या
आगच्छ राजन पुरतॊ ऽहं गमिष्ये; दरष्टासि तद रॊदिमि यत्कृते ऽहम

14 [वयास] तां गच्छन्तीम अन्वगच्छत तदानीं; सॊ ऽपश्यद आरात तरुणं दर्शनीयम
सिंहासनस्थं युवती सहायं करीडन्तम; अक्षैर गिरिराजमूर्ध्नि

15 तम अब्रवीद देवराजॊ ममेदं; तवं विद्धि विश्वं भुवनं वशे सथितम
ईशॊ ऽहम अस्मीति समन्युर अब्रवीद; दृष्ट्वा तम अक्षैः सुभृशं परमत्तम

16 करुद्धं तु शक्रं परसमीक्ष्य देवॊ; जहास शक्रं च शनैर उदैक्षत
संस्तम्भितॊ ऽभूद अथ देवराजस; तेनॊक्षितः सथाणुर इवावतस्थे

17 यदा तु पर्याप्तम इहास्य करीडया; तदा देवीं रुदतीं ताम उवाच
आनीयताम एष यतॊ ऽहम आरान; मैनं दर्पः पुनर अप्य आविशेत

18 ततः शक्रः सपृष्टमात्रस तया तु; सरस्तैर अङ्गैः पतितॊ ऽभूद धरण्याम
तम अब्रवीद भगवान उग्रतेजा; मैवं पुनः शक्र कृथाः कथं चित

19 विवर्तयैनं च महाद्रिराजं; बलं च वीर्यं च तवाप्रमेयम
विवृत्य चैवाविश मध्यम अस्य; यत्रासते तवद्विधाः सूर्यभासः

20 स तद विवृत्य शिखरं महागिरेस; तुल्यद्युतींश चतुरॊ ऽनयान ददर्श
स तान अभिप्रेक्ष्य बभूव दुःखितः; कच चिन नाहं भविता वै यथेमे

21 ततॊ देवॊ गिरिशॊ वज्रपाणिं; विवृत्य नेत्रे कुपितॊ ऽभयुवाच
दरीम एतां परविश तवं शतक्रतॊ; यन मां बाल्याद अवमंस्थाः पुरस्तात

22 उक्तस तव एवं विभुना देवराजः; परवेपमानॊ भृशम एवाभिषङ्गात
सरस्तैर अङ्गैर अनिलेनेव नुन्नम; अश्वत्थ पात्रं गिरिराजमूर्ध्नि

23 स पराञ्जलिर विनतेनाननेन; परवेपमानः सहसैवम उक्तः
उवाच चेदं बहुरूपम उग्रं; दरष्टा शेषस्य भगवंस तवं भवाद्य

24 तम अब्रवीद उग्रधन्वा परहस्य; नैवं शीलाः शेषम इहाप्नुवन्ति
एते ऽपय एवं भवितारः पुरस्तात; तस्माद एतां दरिम आविश्य शेध्वम

25 शेषॊ ऽपय एवं भविता नॊ न संशयॊ; यॊनिं सर्वे मानुषीम आविशध्वम
तत्र यूयं कर्मकृत्वाविषह्यं; बहून अन्यान निधनं परापयित्वा

26 आगन्तारः पुनर एवेन्द्र लॊकं; सवकर्मणा पूर्वजितं महार्हम
सर्वं मया भाषितम एतद एवं; कर्तव्यम अन्यद विविधार्थवच च

27 [पूर्वैन्द्राह] गमिष्यामॊ मानुषं देवलॊकाद; दुराधरॊ विहितॊ यत्र मॊक्षः
देवास तव अस्मान आदधीरञ जनन्यां; धर्मॊ वायुर मघवान अश्विनौ च

28 [वयास] एतच छरुत्वा वज्रपाणिर वचस तु; देव शरेष्ठं पुनर एवेदम आह
वीर्येणाहं पुरुषं कार्यहेतॊर; दद्याम एषां पञ्चमं मत्प्रसूतम

29 तेषां कामं भगवान उग्रधन्वा; परादाद इष्टं सन्निसर्गाद यथॊक्तम
तां चाप्य एषां यॊषितं लॊककान्तां; शरियं भार्यां वयदधान मानुषेषु

30 तैर एव सार्धं तु ततः स देवॊ; जगाम नारायणम अप्रमेयम
स चापि तद वयदधात सर्वम एव; ततः सर्वे संबभूवुर धरण्याम

31 स चापि केशौ हरिर उद्बबर्ह; शुक्लम एकम अपरं चापि कृष्णम
तौ चापि केशौ विशतां यदूनां; कुले सथिरौ रॊहिणीं देवकीं च
तयॊर एकॊ बलदेवॊ बभूव; कृष्णॊ दवितीयः केशवः संबभूव

32 ये ते पूर्वं शक्र रूपा निरुद्धास; तस्यां दर्यां पर्वतस्यॊत्तरस्य
इहैव ते पाण्डवा वीर्यवन्तः; शक्रस्यांशः पाण्डवः सव्यसाची

33 एवम एते पाण्डवाः संबभूवुर; ये ते राजन पूर्वम इन्द्रा बभूवुः
लक्ष्मीश चैषां पूर्वम एवॊपदिष्टा; भार्यां यैषा दरौपदी दिव्यरूपा

34 कथं हि सत्री कर्मणॊ ऽनते महीतलात; समुत्थिष्ठेद अन्यतॊ दैवयॊगात
यस्या रूपं सॊमसूर्यप्रकाशं; गन्धश चाग्र्यः करॊशमात्रात परवाति

35 इदं चान्यत परीतिपूर्वं नरेन्द्र; ददामि ते वरम अत्यद्भुतं च
दिव्यं चक्षुः पश्य कुन्तीसुतांस तवं; पुण्यैर दिव्यैः पूर्वदेहैर उपेतान

36 [वै] ततॊ वयासः परमॊदारकर्मा; शुचिर विप्रस तपसा तस्य राज्ञः
चक्रुर दिव्यं परददौ तान स सर्वान; राजापश्यत पूर्वदेहैर यथावत

37 ततॊ दिव्यान हेमकिरीट मालिनः; शक्र परख्यान पावकादित्यवर्णान
बद्धापीढांश चारुरूपांश च यूनॊ; वयूढॊरस्कांस तालमात्रान ददर्श

38 दिव्यैर वस्त्रैर अरजॊभिः सुवर्णैर; माल्यैश चाग्र्यैः शॊभमानान अतीव
साक्षात तर्यक्षान वसवॊ वाथ दिव्यान; आदित्यान वा सर्वगुणॊपपन्नान
तान पूर्वेन्द्रान एवम ईक्ष्याभिरूपान; परीतॊ राजा दरुपदॊ विस्मितश च

39 दिव्यां मायां ताम अवाप्याप्रमेयां; तां चैवाग्र्यां शरियम इव रूपिणीं च
यॊग्यां तेषां रूपतेजॊ यशॊभिः; पत्नीम ऋद्धां दृष्टवान पार्थिवेन्द्रः

40 स तद दृष्ट्वा महद आश्चर्यरूपं; जग्राह पादौ सत्यवत्याः सुतस्य
नैतच चित्रं परमर्षे तवयीति; परसन्नचेताः स उवाच चैनम

41 [वयास] आसीत तपॊवने का चिद ऋषेः कन्या महात्मनः
नाध्यगच्छत पतिं सा तु कन्या रूपवती सती

42 तॊषयाम आस तपसा सा किलॊग्रेण शंकरम
ताम उवाचेश्वरः परीतॊ वृणु कामम इति सवयम

43 सैवम उक्ताब्रवीत कन्या देवं वरदम ईश्वरम
पतिं सर्वगुणॊपेतम इच्छामीति पुनः पुनः

44 ददौ तस्मै स देवेशस तं वरं परीतिमांस तदा
पञ्च ते पतयः शरेष्ठा भविष्यन्तीति शंकरः

45 सा परसादयती देवम इदं भूयॊ ऽभयभाषत
एकं पतिं गुणॊपेतं तवत्तॊ ऽरहामीति वै तदा
तां देवदेवः परीतात्मा पुनः पराह शुभं वचः

46 पञ्च कृत्वस तवया उक्तः पतिं देहीत्य अहं पुनः
तत तथा भविता भद्रे तव तद भद्रम अस्तु ते
देहम अन्यं गतायास ते यथॊक्तं तद भविष्यति

47 दरुपदैषा हि सा जज्ञे सुता ते देवरूपिणी
पञ्चानां विहिता पत्नी कृष्णा पार्षत्य अनिन्दिता

48 सवर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे
सेह तप्त्वा तपॊ घॊरं दुहितृत्वं तवागता

49 सैषा देवी रुचिरा देव जुष्टा; पञ्चानाम एका सवकृतेन कर्मणा
सृष्टा सवयं देवपत्नी सवयम्भुवा; शरुत्वा राजन दरुपदेष्टं कुरुष्व

अध्याय 1
अध्याय 1