अध्याय 42

महाभारत संस्कृत - कर्णपर्व

1 [स] ततः पुनः समाजग्मुर अभीताः कुरुसृञ्जयाः
युधिष्ठिर मुखाः पार्था वैकर्तन मुखा वयम

2 ततः परववृते भीमः संग्रामॊ लॊमहर्षणः
कर्णस्य पाण्डवानां च यम राष्ट्रविवर्धनः

3 तस्मिन परवृत्ते संग्रामे तुमुले शॊणितॊदके
संशप्तकेषु शूरेषु किं चिच छिष्टेषु भारत

4 धृष्टद्युम्नॊ महाराज सहितः सर्वराजभिः
कर्णम एवाभिदुद्राव पाण्डवाश च महारथाः

5 आगच्छमानांस तान संख्ये परहृष्टान विजयैषिणः
दधारैकॊ रणे कर्णॊ जलौघान इव पर्वतः

6 तम आसाद्य तु ते कर्णं वयशीर्यन्त महारथः
यथाचलं समासाद्य जलौघाः सर्वतॊदिशम
तयॊर आसीन महाराज संग्रामॊ लॊमहर्षणः

7 धृष्टद्युम्नस तु राधेयं शरेण नतपर्वणा
ताडयाम आस संक्रुद्धस तिष्ठ तिष्ठेति चाब्रवीत

8 विजयं तु धनुःश्रेष्ठं विधुन्वानॊ महारथः
पार्षतस्य धनुश छित्त्वा शरान आशीविषॊपमान
ताडयाम आस संक्रुद्धः पार्षतं नवभिः शरैः

9 ते वर्म हेमविकृतं भित्त्वा तस्य महात्मनः
शॊणिताक्ता वयराजन्त शक्र गॊपा इवानघ

10 तद अपास्य धनुश छिन्नं धृष्टद्युम्नॊ महारथः
अन्यद धनुर उपादाय शरांश चाशीविषॊपमान
कर्णं विव्याध सप्तत्या शरैः संनतपर्वभिः

11 तथैव राजन कर्णॊ ऽपि पार्षतं शत्रुतापनम
दरॊण शत्रुं महेष्वासॊ विव्याध निशितैः शरैः

12 तस्य कर्णॊ महाराज शरं कनकभूषणम
परेषयाम आस संक्रुद्धॊ मृत्युदण्डम इवापरम

13 तम आपतन्तं सहसा घॊररूपं विशां पते
चिच्छेद सप्तधा राजञ शैनेयः कृतहस्तवत

14 दृष्ट्वा विनिहितं बाणं शरैः कर्णॊ विशां पते
सात्यकिं शरवर्षेण समन्तात पर्यवारयत

15 विव्याध चैनं समरे नाराचैस तत्र सप्तभिः
तं परत्यविध्यच छैनेयः शरैर हेमविभूषितैः

16 ततॊ युद्धम अतीवासीच चक्षुः शरॊत्रभयावहम
राजन घॊरं च चित्रं च परेक्षणीयं समन्ततः

17 सर्वेषां तत्र भूतानां लॊम हर्षॊ वयजायत
तद दृष्ट्वा समरे कर्म कर्ण शैनेययॊर नृप

18 एतस्मिन्न अन्तरे दरौणिर अभ्ययात सुमहाबलम
पार्षतं शत्रुदमनं शत्रुवीर्यासु नाशनम

19 अभ्यभाषत संक्रुद्धॊ दरौणिर दूरे धनंजये
तिष्ठ तिष्ठाद्य बरह्मघ्न न मे जीवन विमॊक्ष्यसे

20 इत्य उक्त्वा सुभृशं वीरः शीघ्रकृन निशितैः शरैः
पार्षतं छादयाम आस घॊररूपैः सुतेजनैः
यतमानं परं शक्त्या यतमानॊ महारथः

21 यथा हि समरे दरौणिः पार्षतं वीक्ष्य मारिष
तथा दरौणिं रणे दृष्ट्वा पार्षतः परवीरहा
नातिहृष्टमना भूत्वा मन्यते मृत्युम आत्मनः

22 दरौणिस तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नं रणे सथितम
करॊधेन निःश्वसन वीरः पार्षतं समुपाद्रवत
ताव अन्यॊन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम

23 अथाब्रवीन महाराज दरॊणपुत्रः परतापवान
धृष्टद्युम्नं समीपस्थं तवरमाणॊ विशां पते
पाञ्चालापसदाद्य तवां परेषयिष्यामि मृत्यवे

24 पापं हि यत तवया कर्म घनता दरॊणं पुरा कृतम
अद्य तवा पत्स्यते तद वै यथा हय अकुशलं तथा

25 अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे
नापक्रमसि वा मूढ सत्यम एतद बरवीमि ते

26 एवम उक्तः परत्युवाच धृष्टद्युम्नः परतापवान
परतिवाक्यं स एवासिर मामकॊ दास्यते तव
येनैव ते पितुर दत्तं यतमानस्य संयुगे

27 यदि तावन मया दरॊणॊ निहतॊ बराह्मण बरुवः
तवाम इदानीं कथं युद्धे न हनिष्यामि विक्रमात

28 एवम उक्त्वा महाराज सेनापतिर अमर्षणः
निशितेनाथ बाणेन दरौणिं विव्याध पार्षत

29 ततॊ दरॊणिः सुसंक्रुद्धः शरैः संनतपर्वभिः
पराच्छादयद दिशॊ राजन धृष्टद्युम्नस्य संयुगे

30 नैवान्तरिक्षं न दिशॊ नैव यॊधाः समन्ततः
दृश्यन्ते वै महाराज शरैश छन्नाः सहस्रशः

31 तथैव पार्षतॊ राजन दरौणिम आहवशॊभिनम
शरैः संछादयाम आस सूतपुत्रस्य पश्यतः

32 राधेयॊ ऽपि महाराज पाञ्चालान सह पाण्डवैः
दरौपदेयान युधामन्युं सात्यकिं च महारथम
एकः स वारयाम आस परेक्षणीयः समन्ततः

33 धृष्टद्युम्नॊ ऽपि समरे दरौणेश चिच्छेद कार्मुकम
तद अपास्य धनुश छिन्नम अन्यद आदत्त कार्मुकम
वेगवत समरे घॊरं शरांश चाशीविषॊपमान

34 स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां धवजम
हयान सूतं रथं चैव निमेषाद वयधमच छरैः

35 स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः
खड्गम आदत्त विपुलं शतचन्द्रं च भानुमत

36 दरौणिस तद अपि राजेन्द्र भल्लैः कषिप्रं महारथः
चिच्छेद समरे वीरः कषिप्रहस्तॊ दृढायुधः
रथाद अनवरूढस्य तद अद्भुतम इवाभवत

37 धृष्टद्युम्नं तु विरथं हताश्वं छिन्नकार्मुकम
शरैश च बहुधा विद्धम अस्त्रैश च शकलीकृतम
नातरद भरतश्रेष्ठ यतमानॊ महारथः

38 तस्यान्तम इषुभी राजन यदा दरौणिर न जग्मिवान
अथ तयक्त्वा धनुर वीरः पार्षतं तवरितॊ ऽनवगात

39 आसीद आद्रवतॊ राजन वेगस तस्य महात्मनः
गरुडस्येव पततॊ जिघृक्षॊः पन्नगॊत्तमम

40 एतस्मिन्न एव काले तु माधवॊ ऽरजुनम अब्रवीत
पश्य पार्थ यथा दरौणिः पार्षतस्य वधं परति
यत्नं करॊति विपुलं हन्याच चैनम असंशयम

41 तं मॊचय महाबाहॊ पार्षतं शत्रुतापनम
दरौणेर आस्यम अनुप्राप्तं मृत्यॊर आस्य गतं यथा

42 एवम उक्त्वा महाराज वासुदेवः परतापवान
परैषयत तत्र तुरगान यत्र दरौणिर वयवस्थितः

43 ते हयाश चन्द्रसंकाशाः केशवेन परचॊदिताः
पिबन्त इव तद वयॊम जग्मुर दरौणि रथं परथि

44 दृष्ट्वायान्तौ महावीर्याव उभौ कृष्ण धनंजयौ
धृष्टद्युम्न वधे राजंश चक्रे यत्नं महाबलः

45 विकृष्यमाणं दृष्ट्वैव धृष्टद्युम्नं जनेश्वर
शरांश चिक्षेप वै पार्थॊ दरौणिं परति महाबलः

46 ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम
दरौणिम आसाद्य विविशुर वल्मीकम इव पन्नगाः

47 स विद्धस तैः शरैर घॊरैर दरॊणपुत्रः परतापवान
रथम आरुरुहे वीरॊ धनंजय शरार्दितः
परगृह्य च धनुःश्रेष्ठं पार्थं विव्याध सायकैः

48 एतस्मिन्न अन्तरे वीरः सहदेवॊ जनाधिप
अपॊवाह रथेनाजौ पार्षतं शत्रुतापनम

49 अर्जुनॊ ऽपि महाराज दरौणिं विव्याध पत्रिभिः
तं दरॊणपुत्रः संक्रुद्धॊ बाह्वॊर उरसि चार्दयत

50 करॊधितस तु रणे पार्थॊ नाराचं कालसंमितम
दरॊणपुत्राय चिक्षेप कालदण्डम इवापरम
स बराह्मणस्यांस देशे कालदण्डम इवापरम

51 स विह्वलॊ महाराज शरवेगेन संयुगे
निषसाद रथॊपस्थे वयाक्षिपद विजयं धनुः

52 अर्जुनं समरे करुद्धः परेक्षमाणॊ मुहुर मुहुः
दवैरथं चापि पार्थेन कामयानॊ महारणे

53 तं तु हित्वा हतं वीरं सारथिः शत्रुकर्शनम
अपॊवाह रथेनाजौ तवरमाणॊ रणाजिरात

54 अथॊत्क्रुष्टं महा राजपाञ्चालैर जितकाशिभिः
मॊक्षितं पार्षतं दृष्ट्वा दरॊणपुत्रं च पीडितम

55 वादित्राणि च दिव्यानि परावाद्यन्त सहस्रशः
सिंहनादश च संजज्ञे दृष्ट्वा घॊरं महाद्भुतम

56 एवं कृत्वाब्रवीत पार्थॊ वासुदेवं धनंजयः
याहि संशप्तकान कृष्ण कार्यम एतत परं मम

57 ततः परयातॊ दाशार्हः शरुत्वा पाण्डव भाषितम
रथेनातिपताकेन मनॊमारुतरंहसा

अध्याय 4
अध्याय 4