अध्याय 345

महाभारत संस्कृत - शांतिपर्व

1 [भीस्म] स वनानि विचित्राणि तीर्थानि च सरांसि च
अभिगच्छन करमेण सम कं चिन मुनिम उपस्थितः

2 तं स तेन यथॊद्दिष्टं नागं विप्रेण बराह्मणः
पर्यपृच्छद यथान्यायं शरुत्वैव च जगाम सः

3 सॊ ऽभिगम्य यथाख्यातं नागायतनम अर्थवित
परॊक्तवान अहम अस्मीति भॊः शब्दालंकृतं वचः

4 ततस तस्य वचः शरुत्वा रूपिणी धर्मवत्सला
दर्शयाम आस तं विप्रं नागपत्नी पतिव्रता

5 सा तस्मै विधिवत पूजां चक्रे धर्मपरायना
सवागतेनागतं कृत्वा किं करॊमीति चाब्रवीत

6 [बराह्मन] विश्रान्तॊ ऽभयर्चितश चास्मि भवत्या शलक्ष्णया गिरा
दरष्टुम इच्छामि भवति तं देवं नागम उत्तमम

7 एतद धि परमं कार्यम एतन मे फलम ईप्सितम
अनेनार्थेन चास्म्य अद्य संप्राप्तः पन्नगालयम

8 [नागभार्या] आर्य सूर्यरथं वॊढुं गतॊ ऽसौ मासचारिकः
सप्तास्तभिर दिनैर विप्र दर्शयिष्यत्य असंशयम

9 एतद विदितम आर्यस्य विवास करणं मम
भर्तुर भवतु किं चान्यत करियतां तद वदस्व मे

10 [बराह्मन] अनेन निश्चयेनाहं साध्वि संप्राप्तवान इह
परतीक्षन्न आगमं देवि वत्स्याम्य अस्मिन महावने

11 संप्राप्तस्यैव चाव्यग्रम आवेद्यॊ ऽहम इहागतः
ममाभिगमनं पराप्तॊ वाच्यश च वचनं तवया

12 अहम अप्य अत्र वत्स्यामि गॊमत्याः पुलिने शुभे
कालं परिमिताहारॊ यथॊक्तं परिपालयन

13 [भीस्म] ततः स विप्रस तां नागीं समाधाय पुनः पुनः
तद एव पुलिनं नद्याः परययौ बराह्मणर्षभः

अध्याय 3
अध्याय 3