अध्याय 330

महाभारत संस्कृत - शांतिपर्व

1 [भगवान] सूर्या चन्द्रमसौ शश्वत केशैर मे अंशुसंज्ञितैः
बॊधयंस तापयंश चैव जगद उत्तिष्ठतः पृथक

2 बॊधनात तापनाच चैव जगतॊ हर्षणं भवेत
अग्नीषॊम कृतैर एभिः कर्मभिः पाण्डुनन्दन
हृषीकेशॊ ऽहम ईशानॊ वरदॊ लॊकभावनः

3 इदॊपहूत यॊगेन हरे भागं करतुष्व अहम
वर्णश च मे हरिश्रेष्ठस तस्माद धरिर अहं समृतः

4 धाम सारॊ हि लॊकानाम ऋतं चैव विचारितम
ऋतधामा ततॊ विप्रैः सत्यश चाहं परकीर्तितः

5 नस्तां च धरणीं पूर्वम अविन्दं वै गुहा गताम
गॊविन्द इति मां देवा वाग भिः समभितुष्टुवुः

6 शिपिविष्टेति चाख्यायां हीनरॊमा च यॊ भवेत
तेनाविष्टं हि यत किं चिच छिपिविष्टं हि तत समृतम

7 यास्कॊ माम ऋषिर अव्यग्रॊ नैकयज्ञेषु गीतवान
शिपिविष्ट इति हय अस्माद गुह्य नाम धरॊ हय अहम

8 सतुत्वा मां शिपिविष्टेति यास्कॊ ऋषिर उदारधीः
मत्प्रसादाद अधॊ नस्तं निरुक्तम अभिजग्मिवान

9 न हि जातॊ न जाये ऽहं न जनिष्ये कदा चन
कषेत्रज्ञः सर्वभूतानां तस्माद अहम अजः समृतः

10 नॊक्तपूर्वं मया कषुद्रम अश्लीलं वा कदा चन
ऋता बरह्मसुता सा मे सत्या देवी सरस्वती

11 सच चासच चैव कौन्तेय मयावेशितम आत्मनि
पौष्करे बरह्म सदने सत्यं माम ऋषयॊ विदुः

12 सत्त्वान न चयुत पूर्वॊ ऽहं सत्त्वं वै विद्धि मत्कृतम
जन्मनीहाभवत सत्त्वं पौर्विकं मे धनञ्जय

13 निराशीः कर्म संयुक्तं सात्वतं मां परकल्पय
सात्वत जञानदृष्टॊ ऽहं सात्वतः सात्वतां पतिः

14 कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसॊ महान
कृष्णॊ वर्णश च मे यस्मात तस्मात कृष्णॊ ऽहम अर्जुन

15 मया संश्लेषिता भूमिर अद्भिर वयॊम च वायुना
वायुश च तेजसा सार्धं वैकुन्थत्वं ततॊ मम

16 निर्वानं परमं सौख्यं धर्मॊ ऽसौ पर उच्यते
तस्मान न चयुत पूर्वॊ ऽहम अच्युतस तेन कर्मणा

17 पृथिवी नभसी चॊभे विश्रुते विश्वलौकिके
तयॊः संधारणार्थं हि माम अधॊक्षजम अञ्जसा

18 निरुक्तं वेद विदुषॊ ये च शब्दार्थ चिन्तकाः
ते मां गायन्ति पराग्वंशे अधॊक्षज इति सथितिः

19 शब्द एकमतैर एष वयाहृतः परमर्षिभिः
नान्यॊ हय अधॊक्षजॊ लॊके ऋते नारायणं परभुम

20 घृतं ममार्चिषॊ लॊके जन्तूनां पराण धारणम
घृतार्चिर अहम अव्यग्रैर वेदज्ञैः परिकीर्तितः

21 तरयॊ हि धातवः खयाताः कर्मजा इति च समृताः
पित्तं शलेष्मा च वायुश च एष संघात उच्यते

22 एतैश च धार्यते जन्तुर एतैः कषीणैश च कषीयते
आयुर्वेदविदस तस्मात तरिधातुं मां परचक्षते

23 वृषॊ हि भगवान धर्मः खयातॊ लॊकेषु भारत
नैघन्तुक पदाख्यातं विद्धि मां वृषम उत्तमम

24 कपिर वराहः शरेष्ठश च धर्मश च वृष उच्यते
तस्माद वृषाकपिं पराह कश्यपॊ मां परजापतिः

25 न चादिं न मध्यं तथा नैव चान्तं; कदा चिद विदन्ते सुराश चासुराश च
अनाद्यॊ हय अमध्यस तथा चाप्य अनन्तः; परगीतॊ ऽहम ईशॊ विभुर लॊकसाक्षी

26 शुचीनि शरवणीयानि शृणॊमीह धनंजय
न च पापानि गृह्णामि ततॊ ऽहं वै शुचिश्रवः

27 एकशृङ्गः पुरा भूत्वा वराहॊ दिव्यदर्शनः
इमाम उद्धृतवान भूमिम एकशृङ्गस ततॊ हय अहम

28 तथैवासं तरिककुदॊ वाराहं रूपम आस्थितः
तरिककुत तेन विख्यातः शरीरस्य तु मापनात

29 विरिञ्च इति यः परॊक्तः कपिल जञानचिन्तकैः
स परजापतिर एवाहं चेतनात सर्वलॊककृत

30 विद्या सहायवन्तं माम आदित्यस्थं सनातनम
कपिलं पराहुर आचार्याः सांख्या निश्चित निश्चयाः

31 हिरण्यगर्भॊ दयुतिमान एष यश छन्दसि सतुतः
यॊगैः संपूज्यते नित्यं स एवाहं विभुः समृतः

32 एकविंशतिशाखं च ऋग्वेदं मां परचक्षते
सहस्रसाखं यत साम ये वै वेद विदॊ जनाः
गायन्त्य आरण्यके विप्रा मद्भक्तास ते ऽपि दुर्लभाः

33 सः पञ्चाशतम अस्तौ च सप्तत्रिंशतम इत्य उत
यस्मिञ शाखा यजुर्वेदे सॊ ऽहम आध्वर्यवे समृतः

34 पञ्च कल्पम अथर्वाणं कृत्याभिः परिबृंहितम
कल्पयन्ति हि मां विप्रा अथर्वाणविदस तथा

35 शाखा भेदाश च ये के चिद याश च शाखासु गीतयः
सवरवर्णसमुच्चाराः सर्वांस तान विद्धि मत्कृतान

36 यत तद धयशिरः पार्थ समुदेति वरप्रदम
सॊ ऽहम एवॊत्तरे भागे करमाक्षर विभागवित

37 रामादेशित मार्गेण मत्प्रसादान महात्मना
पाञ्चालेन करमः पराप्तस तस्माद भूतात सनातनात
बाभ्रव्य गॊत्रः स बभौ परथमः करमपारगः

38 नारायणाद वरं लब्ध्वा पराप्य यॊगम अनुत्तमम
करमं परनीय शिक्षां च परनयित्वा स गालवः

39 कन्दलीकॊ ऽथ राजा च बरह्मदत्तः परतापवान
जाती मरणजं दुःखं समृत्वा समृत्वा पुनः पुनः
सप्तजातिषु मुख्यत्वाद यॊगानां संपदं गतः

40 पुराहम आत्मजः पार्थ परथितः कारणान्तरे
धर्मस्य कुरुशार्दूल ततॊ ऽहं धर्मजः समृतः

41 नरनारायणौ पूर्वं तपस तेपतुर अव्ययम
धर्मयानं समारूढौ पर्वते गन्धमादने

42 तत कालसमयं चैव दक्षयज्ञॊ बभूव ह
न चैवाकल्पयद भागं दक्षॊ रुद्रस्य भारत

43 ततॊ दधीचि वचनाद दक्षयज्ञम अपाहरत
ससर्ज शूलं करॊधेन परज्वलन्तं मुहुर मुहुः

44 तच छूलं भस्मसात कृत्वा दक्षयज्ञं सविस्तरम
आवयॊः सहसागच्छद बदर्य आश्रमम अन्तिकात
वेगेन महता पार्थ पतन नारायणॊरसि

45 ततः सवतेजसाविष्टाः केशा नारायणस्य ह
बभूवुर मुञ्ज वर्णास तु ततॊ ऽहं मुञ्ज केशवान

46 तच च शूलं विनिर्धूतं हुंकारेण महात्मना
जगाम शंकर करं नारायण समाहतम

47 अथ रुद्र उपाधावत ताव ऋषी तपसान्वितौ
तत एनं समुद्धूतं कन्थे जग्राह पानिना
नारायणः स विश्वात्मा तेनास्य शिति कन्थता

48 अथ रुद्र विघातार्थम इषीकां जगृहे नरः
मन्त्रैश च संयुयॊजाशु सॊ ऽभवत परशुर महान

49 कषिप्तश च सहसा रुद्रे खन्दनं पराप्तवांस तदा
ततॊ ऽहं खन्द परशुः समृतः परशु खन्दनात

50 [अर्जुन] अस्मिन उद्धे तु वार्ष्णेय तरैलॊक्यमथने तदा
जयं कः पराप्तवांस तत्र शंसैतन मे जनार्दन

51 [षरीभगवान] तयॊः संलग्नयॊर युद्धे रुद्र नारायणात्मनॊः
उद्विग्नाः सहसा कृत्स्ना लॊकाः सर्वे ऽभवंस तदा

52 नागृह्णात पावकः शुभ्रं मखेषु सुहुतं हविः
वेदा न परतिभान्ति सम ऋषीणां भावितात्मनाम

53 देवान रजस तमश चैव समाविविशतुस तदा
वसुधा संचकम्पे ऽथ नभश च विपफाल ह

54 निष्प्रभानि च तेजांसि बरह्मा चैवासनाच चयुतः
अगाच छॊषं समुद्रश च हिमवांश च वयशीर्यत

55 तस्मिन्न एवं समुत्पन्ने निमित्ते पाण्डुनन्दन
बरह्मा वृतॊ देवगणैर ऋषिभिश च महात्मभिः
आजगामाशु तं देशं यत्र युद्धम अवर्तत

56 साञ्जलि परग्रहॊ भूत्वा चतुर्वक्त्रॊ निरुक्तगः
उवाच वचनं रुद्रं लॊकानाम अस्तु वै शिवम
नयस्यायुधानि विश्वेश जगतॊ हितकाम्यया

57 यद अक्षरम अथाव्यक्तम ईशं लॊकस्य भावनम
कूतस्थं कर्तृ निर्द्वन्द्वम अकर्तेति च यं विदुः

58 वयक्तभावगतस्यास्य एका मूर्तिर इयं शिवा
नरॊ नारायणश चैव जातौ धर्मकुलॊद्वहौ

59 तपसा महता युक्तौ देव शरेष्ठौ महाव्रतौ
अहं परसादजस तस्य कस्मिंश चित कारणान्तरे
तवं चैव करॊधजस तात पूर्वसर्गे सनातनः

60 मया च सार्धं वरदं विबुधैश च महर्षिभिः
परसादयाम आस ततॊ देवं नारायणं परभुम

61 बरह्मणा तव एवम उक्तस तु रुद्रः करॊधाग्निम उत्सृजन
परसादयाम आस ततॊ देवं नारयणं परभुम
शरणं च जगामाद्यं वरेण्यं वरदं हरिम

62 ततॊ ऽथ वरदॊ देवॊ जितक्रॊधॊ जितेन्द्रियः
परीतिमान अभवत तत्र रुद्रेण सह संगतः

63 ऋषिभिर बरह्मणा चैव विबुधैश च सुपूजितः
उवाच देवम ईशानम ईशः स जगतॊ हरिः

64 यस तवां वेत्ति स मां वेत्ति यस तवाम अनु स माम अनु
नावयॊर अन्तरं किं चिन मा ते भूद बुद्धिर अन्यथा

65 अद्य परभृति शरीवत्सः शूलाङ्कॊ ऽयं भवत्व अयम
मम पान्य अङ्कितश चापि शरीकन्थस तवं भविष्यसि

66 एवं लक्षणम उत्पाद्य परस्परकृतं तदा
सख्यं चैवातुलं कृत्वा रुद्रेण सहिताव ऋषी
तपस तेपतुर अव्यग्रौ विसृज्य तरिदिवौकसः

67 एष ते कथितः पार्थ नारायण जयॊ मृधे
नामानि चैव गुह्यानि निरुक्तानि च भारत
ऋषिभिः कथितानीह यानि संकीर्तितानि ते

68 एवं बहुविधै रूपैश चरामीह वसुंधरम
बरह्मलॊकं च कौन्तेय गॊलॊकं च सनातनम
मया तवं रक्षितॊ युद्धे महान्तं पराप्तवाञ जयम

69 यस तु ते सॊ ऽगरतॊ याति युद्धे संप्रत्युपस्थिते
तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम

70 कालः स एव कथितः करॊधजेति मया तव
निहतांस तेन वै पूर्वं हतवान असि वै रिपून

71 अप्रमेयप्रभावं तं देवदेवम उमापतिम
नमस्व देवं परयतॊ विश्वेशं हरम अव्ययम

अध्याय 3
अध्याय 3