अध्याय 320

महाभारत संस्कृत - शांतिपर्व

1 [भी] इत्य एवम उक्त्वा वचनं बरह्मर्षिः सुमहातपः
परातिष्ठत शुकः सिद्धिं हित्वा लॊकांश चतुर्विधान

2 तमॊ हय अस्तविधं हित्वा जहौ पञ्च विधं रजः
ततः सत्त्वं जहौ धीमांस तद अद्भुतम इवाभवत

3 ततस तस्मिन पदे नित्ये निर्गुणे लिङ्गवर्जिते
बरह्मणि परत्यतिष्ठत स विधूमॊ ऽगनिर इव जवलन

4 उल्का पाता दिशां दाहा भूमिकम्पास तथैव च
परादुर्भूताः कषणे तस्मिंस तद अद्भुतम इवाभवत

5 दरुमाः शाखाश च मुमुचुः शिखराणि च पर्वताः
निर्घातशब्दैश च गिरिर हिमवान दीर्यतीव ह

6 न बभासे सहस्रांशुर न जज्वाल च पावकः
हरदाश च सरितश चैव चुक्षुभुः सागरास तथा

7 ववर्ष वासवस तॊयं रसवच च सुगन्धि च
ववौ समीरणश चापि दिव्यगन्धवहः शुचिः

8 स शृङ्गे ऽपरतिमे दिव्ये हिमवन मेरुसंभवे
संश्लिष्टे शवेतपीते दवे रुक्त रूप्यमये शुभे

9 शतयॊजनविस्तारे तिर्यग ऊर्ध्वं च भारत
उदीचीं दिशम आश्रित्य रुचिरे संददर्श ह

10 सॊ ऽविशङ्केन मनसा तथैवाभ्यपतच छुकः
ततः पर्वतशृङ्गे दवे सहसैव दविधाकृते
अदृश्येतां महाराज तद अद्भुतम इवाभवत

11 ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः
न च परतिजघानास्य स गतिं पर्वतॊत्तमः

12 ततॊ महान अभूच छब्दॊ दिवि सर्वदिवौकसाम
गन्धर्वाणाम ऋषीणां च ये च शैलनिवासिनः

13 दृष्ट्वा शुकम अतिक्रान्तं पर्वतं च दविधाकृतम
साधु साध्व इति तत्रासीन नादः सर्वत्र भारत

14 स पूज्यमानॊ देवैश च गन्धर्वैर ऋषिभिस तथा
यक्षराक्षस संघैश च विद्याधरगणैस तथा

15 दिव्यैः पुष्पैः समाकीर्णम अन्तरिक्षं समन्ततः
आसीत किल महाराज शुकाभिपतने तदा

16 ततॊ मन्दाकिनीं रम्याम उपरिष्टाद अभिव्रजन
शुकॊ ददर्श धर्मात्मा पुष्पित दरुमकाननाम

17 तस्यां करीदन्त्य अभिरताः सनान्ति चैवाप्सरॊ गणाः
शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः

18 तं परक्रमन्तम आज्ञाय पिता सनेहसमन्वितः
उत्तमां गतिम आस्थाय पृष्ठतॊ ऽनुससार ह

19 शुकस तु मारुताद ऊर्ध्वं गतिं कृत्वान्तरिक्षगाम
दर्शयित्वा परभावं सवं सर्वभूतॊ ऽभवत तदा

20 महायॊगगतिं तव अग्र्यां वयासॊत्थाय महातपः
निमेषान्तरमात्रेण शुकाभिपतनं ययौ

21 स ददर्श दविधाकृत्वा पर्वताग्रं शुकं गतम
शशंसुर ऋषयस तस्मै कर्म पुत्रस्य तत तदा

22 ततः शुकेति दीर्घेण शैक्षेणाक्रन्दितस तदा
सवयं पित्रा सवरेणॊच्चैस तरीँल लॊकान अनुनाद्य वै

23 शुकः सर्वगतॊ भूत्वा सर्वात्मा सर्वतॊ मुखः
परत्यभासत धर्मात्मा भॊः शब्देनानुनादयन

24 तत एकाक्षरं नादं भॊ इत्य एव समीरयन
परत्याहरञ जगत सर्वम उच्चैः सथावरजङ्गमम

25 ततः परभृति चाद्यापि शब्दान उच्चारितान पृथक
गिरिगह्वर पृष्ठेषु वयाजहार शुकं परति

26 अन्तर्हितः परभावं तु दर्शयित्वा शुकस तदा
गुणान संत्यज्य शब्दादीन पदम अध्यगमत परम

27 महिमानं तु तं दृष्ट्वा पुत्रस्यामित तेजसः
निषसाद गिरिप्रस्थे पुत्रम एवानुचिन्तयन

28 ततॊ मन्दाकिनी तीरे करीदन्तॊ ऽपसरसां गणाः
आसाद्य तम ऋषिं सर्वाः संभ्रान्ता गतचेतसः

29 जले निलिल्यिरे काश चित काश चिद गुल्मान परपेदिरे
वसनान्य आददुः काश चिद दृष्ट्वा तं मुनिसत्तमम

30 तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा
सक्तताम आत्मनश चैव परीतॊ ऽभूद वरीदितश च ह

31 तं देवगन्धर्ववृतॊ महर्षिगणपूजितः
पिनाक हस्तॊ भवगान अभ्यागच्छत शंकरः

32 तम उवाच महादेवः सान्त्वपूर्वम इदं वचः
पुत्रशॊकाभिसंतप्तं कृष्णद्वैपायनं तदा

33 अग्नेर भूमेर अपां वायॊर अन्तरिक्षस्य चैव ह
वीर्येण सदृशः पुत्रस तवया मत्तः पुरा वृतः

34 स तथा लक्षणॊ जातस तपसा तव संभृतः
मम चैव परभावेन बरह्मतेजॊमयः शुचिः

35 स गतिं परमां पराप्तॊ दुष्प्रापाम अजितेन्द्रियैः
दैवतैर अपि विप्रर्षे तं तवं किम अनुशॊचसि

36 यावत सथास्यन्ति गिरयॊ यावत सथास्यन्ति सागराः
तावत तवाक्षया कीर्तिः सपुत्रस्य भविष्यति

37 छायां सवपुत्र सदृशीं सर्वतॊ ऽनपगां सदा
दरक्ष्यसे तवं च लॊके ऽसमिन मत्प्रसादान महामुने

38 सॊ ऽनुनीतॊ भगवता सवयं रुद्रेण भारत
छाया पश्यन समावृत्तः स मुनिः परया मुदा

39 इति जन्म गतिश चैव शुकस्य भरतर्षभ
विस्तरेण मयाख्यातं यन मां तवं परिपृच्छसि

40 एतद आचस्त मे राजन देवर्षिर नारदः पुरा
वयासश चैव महायॊगी संजल्पेषु पदे पदे

41 इतिहासम इमं पुण्यं मॊक्षधर्मार्थसंहितम
धारयेद यः शम परः स गच्छेत परमां गतिम

अध्याय 3
अध्याय 3