अध्याय 258

महाभारत संस्कृत - शांतिपर्व

1 [य] कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा
सर्वथा कार्यदुर्गे ऽसमिन भवान नः परमॊ गुरुः

2 [भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
चिरकारेस तु यत पूर्वं वृत्तम आङ्गिरसे कुले

3 चिरकारिक भद्रं ते भद्रं ते चिरकारिक
चिरकारी हि मेधावी नापराध्यति कर्मसु

4 चिरकारी महाप्राज्ञॊ गौतमस्याभवत सुतः
चिरं हि सर्वकार्याणि समेक्षावान परपद्यते

5 चिरं संचिन्तयन्न अर्थांश चिरं जाग्रच चिरं सवपन
चिरकार्याभिसंपत्तेश चिरकारी तथॊच्यते

6 अलस गरहणं पराप्तॊ दुर्मेधावी तथॊच्यते
बुद्धिलाघव युक्तेन जनेनादीर्घ दर्शिना

7 वयभिचारे तु कस्मिंश चिद वयतिक्रम्यापरान सुतान
पित्रॊक्तः कुपितेनाथ जहीमां जननीम इति

8 स तथेति चिरेणॊक्त्वा सवभावाच चिरकारिकः
विमृश्य चिरकारित्वाच चिन्तयाम आस वै चिरम

9 पितुर आज्ञां कथं कुर्यां न हन्यां मातरं कथम
कथं धर्मछले नास्मिन्न इमं जेयम असाधुवत

10 पितुर आज्ञा परॊ धर्मः सवधर्मॊ मातृरक्षणम
अस्वतन्त्रं च पुत्रत्वं किं नु मां नात्र पीडयेत

11 सत्रियं हत्वा मातरं च कॊ हि जातु सुखी भवेत
पितारं चाप्य अवज्ञाय कः परतिष्ठाम अवाप्नुयात

12 अनवज्ञा पितुर युक्ता धारणं मातृरक्षणम
युक्तक्षमाव उभाव एतौ नातिवर्तेतमां कथम

13 पिता हय आत्मानम आधत्ते जायायां जज्ञियाम इति
शीलचारित्रगॊत्रस्य धारणार्थं कुलस्य च

14 सॊ ऽहम आत्मा सवयं पित्रा पुत्रत्वे परकृतः पुनः
विज्ञानं मे कथं न सयाद बुबुधे चात्मसंभवम

15 जातकर्मणि यत पराह पिता यच चॊपकर्मणि
परत्याप्तः स दृधी कारः पितुर गौरवनिश्चये

16 गुरुर अग्र्यः परॊ धर्मः पॊषणाध्ययनाद धितः
पिता यद आह धर्मः स वेदेष्व अपि सुनिश्चितः

17 परीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता
शरीरादीनि देयानि पिता तव एकः परयच्छति

18 तस्मात पितुर वचः कार्यं न विचार्यं कथं चन
पातकान्य अपि पूयन्ते पितुर वचनकारिणः

19 भॊगे भाग्ये परसवने सर्वलॊकनिदर्शने
भर्त्रा चैव समायॊगे सीमन्तॊन्नयने तथा

20 पिता सवर्गः पिता धर्मः पिता परमकं तपः
पितरि परीतिम आपन्ने सर्वाः परीयन्ति देवताः

21 आशिषस ता भजन्त्य एनं पुरुषं पराह याः पिता
निष्कृतिः सर्वपापानां पिता यद अभिनन्दति

22 मुच्यते बन्धनात पुष्पं फलं वृन्तात परमुच्यते
कलिश्यन्न अपि सुतस्नेहैः पिता सनेहं न मुञ्चति

23 एतद विचिन्तितं तावत पुत्रस्य पितृगौरवम
पिता हय अल्पतरं सथानं चिन्तयिष्यामि मातरम

24 यॊ हय अयं मयि संघातॊ मर्त्यत्वे पाञ्चभौतिकः
अस्य मे जननी हेतुः पावकस्य यथारणिः
माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः

25 न च शॊचति नाप्य एनं सथाविर यम अपकर्षति
सत्रिया हीनॊ ऽपि यॊ गेहे अम्बेति परतिपद्यते

26 पुत्रपौत्र समाकीर्णॊ जननीं यः समाश्रितः
अपि वर्षशतस्यान्ते स दविहायनवच चरेत

27 समर्थं वासमर्थं वा कृशं वाप्य अकृशं तथा
रक्षत्य एव सुतं माता नान्यः पॊष्टा विधानतः

28 तदा स वृद्धॊ भवति यदा भवति दुःखितः
तदा शून्यं जगत तस्य तदा मात्रा वियुज्यते

29 नास्ति मातृसमा छाया नास्ति मातृसमा गतिः
नास्ति मातृसमं तराणं नास्ति मातृसमा परपा

30 कुक्षि संधारणाद धात्री जननाज जननी समृता
अङ्गानां वर्धनाद अम्बा वीर सूत्वेन वीरसूः

31 शिशॊः शुश्रूसनाच छुश्रूर माता देहम अनन्तरम
चेतनावान नरॊ हन्याद यस्य नासुषिरं शिरः

32 दम्पत्यॊः पराण संश्लेषे यॊ ऽभिसंधिः कृतः किल
तं माता वा पिता वेद भूतार्थॊ मातरि सथितः

33 माता जानाति यद गॊत्रं माता जानाति यस्य सः
मातुर भरण मात्रेण परीतिः सनेहः पितुः परजाः

34 पानि बन्धं सवयं कृत्वा सहधर्मम उपेत्य च
यदि याप्यन्ति पुरुषाः सत्रियॊ नार्हन्ति याप्यताम

35 भरणाद धि सत्रियॊ भर्ता पात्याच चैव सत्रियाः पतिः
गुणस्यास्य निवृत्तौ तु न भर्ता न पतिः पतिः

36 एवं सत्री नापराध्नॊति नर एवापराध्यति
वयुच्चरंश च महादॊषं नर एवापराध्यति

37 सत्रिया हि परमॊ भर्ता दैवतं परमं समृतम
तस्यात्मना तु सदृशम आत्मानं परमं ददौ
सर्वकार्यापराध्यत्वान नापराध्यन्ति चाङ्गनाः

38 यश्चनॊक्तॊ हि निर्देशः सत्रिया मैथुन तृप्तये
तस्य समारयतॊ वयक्तम अधर्मॊ नात्र संशयः

39 यावन नारीं मातरं च गौरवे चाधिके सथिताम
अवध्यां तु विजानीयुः पशवॊ ऽपय अविचक्षणाः

40 देवतानां समावायम एकस्थं पितरं विदुः
मर्त्यानां देवतानां च सनेहाद अभ्येति मातरम

41 एवं विमृशतस तस्य चिरकारितया बहु
दीर्घः कालॊ वयतिक्रान्तस ततस तस्यागमत पिता

42 मेधातिथिर महाप्राज्ञॊ गौतमस तपसि सथितः
विमृश्य तेन कालेन पत्न्याः संस्था वयतिक्रमम

43 सॊ ऽबरवीद दुःखसंतप्तॊ भृशम अश्रूणि वर्तयन
शरुतधैर्य परसादेन पश्चात तापम उपागतः

44 आश्रमं मम संप्राप्तस तरिलॊकेशः पुरंदरः
अतिथिव्रतम आस्थाय बराह्मणं रूपम आस्थितः

45 समया सान्त्वितॊ वाग्भिः सवागतेनाभिपूजितः
अर्घ्यं पाद्यं च नयायेन तयाभिप्रतिपादितः

46 परवत्य अस्मि चाप्य उक्तः परनयिष्ये नयेन च
अत्र चाकुशले जाते सत्रियॊ नास्ति वयतिक्रमः

47 एवं न सत्री न चैवाहं नाध्वगस तरिदशेश्वरः
अपराध्यति धर्मस्य परमादस तव अपराध्यति

48 ईर्ष्याजं वयसनं पराहुस तेन चैवॊर्ध्व रेतसः
ईर्ष्यया तव अहम आक्षिप्तॊ मग्नॊ दुष्कृत सागरे

49 हत्वा साध्वीं च नारीं च वयसनित्वाच च शासिताम
भर्तव्यत्वेन भार्यां च कॊ नु मां तारयिष्यति

50 अन्तरेण मयाज्ञप्तश चिरकारी हय उदारधीः
यद्य अद्य चिरकारी सयात स मां तरायेत पातकात

51 चिरकारिक भद्रं ते भद्रं ते चिरकारिक
यद्य अद्य चिरकारी तवं ततॊ ऽसि चिरकारिकः

52 तराहि मां मातरं चैव तपॊ यच चार्जितं मया
आत्मानं पातकेभ्यश च भवाद्य चिरकारिकः

53 सहजं चिरकारित्वं चिरप्राज्ञतया तव
सखलं तत तवाद्यास्तु भवाद्य चिरकारिकः

54 चिरम आशंसितॊ मात्रा चिरं गर्भेण धारितम
सफलं चिरकारित्वं कुरु तवं चिरकारिक

55 चिरायते च संतापाच चिरं सवपिति वारितः
आवयॊश चिरसंतापाद अवेक्ष्य चिरकारिक

56 एवं स दुःखितॊ राजन महर्षिर गौतमस तदा
चिरकारिं ददर्शाथ पुत्रं सथितम अथान्तिके

57 चिरकारी तु पितरं दृष्ट्वा परमदुःखितः
शस्त्रं तयक्त्वा ततॊ मूर्ध्ना परसादायॊपचक्रमे

58 गौतमस तु सुतं दृष्ट्वा शिरसा पतितं भुवि
पत्नीं चैव निराकारां पराम अभ्यगमन मुदम

59 न हि सा तेन संभेदं पत्नी नीता महात्मना
विजने चाश्रमस्थेन पुत्रश चापि समाहितः

60 हन्यात तव अनपवादेन शस्त्रपानौ सुते सथिते
विनीतं परश्नयित्वा च वयवस्येद आत्मकर्मसु

61 बुद्धिश चासीत सुतं दृष्ट्वा पितुश चरणयॊर नतम
शस्त्रग्रहणचापल्यं संवृणॊति भयाद इति

62 ततः पित्रा चिरं सतुत्वा चिरं चाघ्राय मूर्धनि
चिरं दॊर्भ्यां परिष्वज्य चिरं जीवेत्य उदाहृतः

63 एवं स गौतमः पुत्रं परीतिहर्षसमन्वितः
अभिनन्द्य महाप्राज्ञ इदं वचनम अब्रवीत

64 चिरकारिक भद्रं ते चिरकारी चिरं भव
चिरायमाणे तवयि च चिरम अस्मि सुदुःखितः

65 गाथाश चाप्य अब्रवीद विद्वान गौतमॊ मुनिसत्तमः
चिरकारिषु घॊरेषु गुणॊद्देश समाश्रयात

66 चिरेण मित्रं बध्नीयाच चिरेण च कृतं तयजेत
चिरेण हि कृतं मित्रं चिरं धारणम अर्हति

67 रागे दर्पे च माने च दरॊहे पापे च कर्मणि
अप्रिये चैव कर्तव्ये चिरकारी परशस्यते

68 बन्धूनां सुहृदां चैव भृत्यानां सत्रीजनस्य च
अव्यक्तेष्व अपराधेषु चिरकारी परशस्यते

69 एवं स गौतमस तस्य परीतः पुत्रस्य भारत
कर्मणा तेन कौरव्य चिरकारितया तया

70 एवं सर्वेषु कार्येषु विमृश्य पुरुषस ततः
चिरेण निश्चयं कृत्वा चिरं न परितप्यते

71 चिरं धारयते रॊषं चिरं कर्म नियच्छति
पश्चात तापकरं कर्म न किं चिद उपपद्यते

72 चिरं वृद्धान उपासीत चिरम अन्वास्य पूजयेत
चिरं धर्मान निषेवेत कुर्याच चान्वेषणं चिरम

73 चिरम अन्वास्य विदुषश चिरं शिष्टान निषेव्य च
चिरं विनीय चात्मानं चिरं यात्य अनवज्ञताम

74 बरुवतश च परस्यापि वाक्यं धर्मॊपसंहितम
चिरं पृच्छेच चिरं बरूयाच चिरं न परिभूयते

75 उपास्य बहुलास तस्मिन्न आश्रमे सुमहातपः
समाः सवर्गं गतॊ विप्रः पुत्रेण सहितस तदा

अध्याय 2
अध्याय 2