अध्याय 159

1 [भ] कृतार्थॊ यक्ष्यमाणश च सर्ववेदान्तगश च यः
आचार्य पितृभार्यार्थं सवाध्यायार्थम अथापि वा

2 एते वै साधवॊ दृष्टा बराह्मणा धर्मभिक्षवः
अस्वेभ्यॊ देयम एतेभ्यॊ दानं विद्या विशेषतः

3 अन्यत्र दक्षिणा यातु देया भरतसत्तम
अन्येभ्यॊ हि बहिर वेद्यां नाकृतान्नं विधीयते

4 सर्वरत्नानि राजा च यथार्हं परतिपादयेत
बराह्मणाश चैव यज्ञाश च सहान्नाः सह दक्षिणाः

5 यस्य तरैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये
अधिकं वापि विद्येत स सॊमं पातुम अर्हति

6 यज्ञश चेत परतिविद्धः सयाद अङ्गेनैकेन यज्वनः
बराह्मणस्य विशेषेण धार्मिके सति राजनि

7 यॊ वैश्यः सयाद बहु पशुर हीनक्रतुर असॊमपः
कुटुम्बात तस्य तद दरव्यं यज्ञार्थं पार्थिवॊ हरेत

8 आहरेद वेश्मतः किं चित कामं शूद्रस्य दरव्यतः
न हि वेश्मनि शूद्रस्य कश चिद अस्ति परिग्रहः

9 यॊ ऽनाहिताग्निः शतगुर अयज्वा च सहस्रगुः
तयॊर अपि कुटुम्बाभ्याम आहरेद अविचारयन

10 अदातृभ्यॊ हरेन नित्यं वयाख्याप्य नृपतिः परभॊ
तथा हय आचरतॊ धर्मॊ नृपतेः सयाद अथाखिलः

11 तथैव सप्तमे भक्ते भक्तानि षड अनश्नता
अश्वस्तन विधानेन हर्तव्यं हीनकर्मणः
खलात कषेत्रात तथागाराद यतॊ वाप्य उपपद्यते

12 आख्यातव्यं नृपस्यैतत पृच्छतॊ ऽपृच्छतॊ ऽपि वा
न तस्मै धारयेद दण्डं राजा धर्मेण धर्मवित

13 कषत्रियस्य हि बालिश्याद बराह्मणः कलिश्यते कषुधा
शरुतशीले समाज्ञाय वृत्तिम अस्य परकल्पयेत
अथैनं परिरक्षेत पिता पुत्रम इवौरसम

14 इष्टिं वैश्वानरीं नित्यं निर्वपेद अब्द पर्यये
अविकल्पः पुरा धर्मॊ धर्मवादैस तु केवलम

15 विश्वैस तु देवैः साध्यैश च बराह्मणैश च महर्षिभिः
आपत्सु मरणाद भीतैर लिङ्गप्रतिनिधिः कृतः

16 परभुः परथमकल्पस्य यॊ ऽनुकल्पेन वर्तते
न साम्परायिकं तस्य दुर्मतेर विद्यते फलम

17 न बराह्मणान वेदयेत कश चिद राजनि मानवः
अवीर्यॊ वेदनाद विद्यात सुवीर्यॊ वीर्यवत्तरम

18 तस्माद राज्ञा सदा तेजॊ दुःसहं बरह्मवादिनाम
मन्ता शास्ता विधाता च बराह्मणॊ देव उच्यते
तस्मिन नाकुशलं बरूयान न शुक्ताम ईरयेद गिरम

19 कषत्रियॊ बाहुवीर्येण तरत्य आपदम आत्मनः
धनेन वैश्यः शूद्रश च मन्त्रैर हॊमैश च वै दविजः

20 न वै कन्या न युवतिर नामन्त्रॊ न च बालिशः
परिवेष्टाग्निहॊत्रस्य भवेन नासंस्कृतस तथा
नरके निपतन्त्य एते जुह्वानाः स च यस्य तत

21 पराजापत्यम अदत्त्वाश्वम अग्न्याधेयस्य दक्षिणाम
अनाहिताग्निर इति स परॊच्यते धर्मदर्शिभिः

22 पुण्यान्य अन्यानि कुर्वीत शरद्दधानॊ जितेन्द्रियः
अनाप्त दक्षिणैर यज्ञैर न यजेत कथं चन

23 परजाः पशूंश च सवर्गं च हन्ति यज्ञॊ हय अदक्षिणः
इन्द्रियाणि यशः कीर्तिम आयुश चास्यॊपकृन्तति

24 उदक्या हय आसते ये च ये च के चिद अनग्नयः
कुलं चाश्रॊत्रियं येषां सर्वे ते शूद्र धर्मिणः

25 उदपानॊदके गरामे बराह्मणॊ वृषली पतिः
उषित्वा दवादश समाः शूद्र कर्मेह गच्छति

26 अनर्यां शयने बिभ्रद उज्झन बिभ्रच च यॊ दविजाम
अब्राह्मणॊ मन्यमानस तृणेष्व आसीत पृष्ठतः
तथा स शुध्यते राजञ शृणु चात्र वचॊ मम

27 यद एकरात्रेण करॊति पापं; कृष्णं वर्णं बराह्मणः सेवमानः
सथानासनाभ्यां विचरन वरती संस; तरिभिर वर्षैः शमयेद आत्मपापम

28 न नर्म युक्तं वचनं हिनस्ति; न सत्रीषु राजन न विवाह काले
न गुर्वर्थे नात्मनॊ जीवितार्थे; पञ्चानृतान्य आहुर अपातकानि

29 शरद्दधानः शुभां विद्यां हीनाद अपि समाचरेत
सुवर्णम अपि चामेध्याद आददीतेति धारणा

30 सत्रीरत्नं दुष्कुलाच चापि विषाद अप्य अमृतं पिबेत
अदुष्टा हि सत्रियॊ रत्नम आप इत्य एव धर्मतः

31 गॊब्राह्मण हितार्थं च वर्णानां संकरेषु च
गृह्णीयात तु धनुर वैश्यः परित्राणाय चात्मनः

32 सुरा पानं बरह्महत्या गुरु तल्पम अथापि वा
अनिर्देश्यानि मन्यन्ते पराणान्तानीति धारणा

33 सुवर्णहरणं सतैन्यं विप्रा सङ्गश च पातकम
विहरन मद्य पानं चाप्य अगम्या गमनं तथा

34 पतितैः संप्रयॊगाच च बराह्मणैर यॊनितस तथा
अचिरेण महाराज तादृशॊ वै भवत्य उत

35 संवत्सरेण पतति पतितेन सहाचरन
याजन धयापनाद यौनान न तु यानासनाशनात

36 एतानि च ततॊ ऽनयानि निर्देश्यानीति धारणा
निर्देश्यकेन विधिना कालेनाव्यसनी भवेत

37 अन्नं तिर्यङ न हॊतव्यं परेतकर्मण्य अपातिते
तरिषु तव एतेषु पूर्वेषु न कुर्वीत विचारणाम

38 अमात्यान वा गुरून वापि जह्याद धर्मेण धार्मिकः
परायश्चित्तम अकुर्वाणैर नैतैर अर्हति संविदम

39 अधर्मकारी धर्मेण तपसा हन्ति किल्बिषम
बरुवन सतेन इति सतेनं तावत पराप्नॊति किल्बिषम
अस्तेनं सतेन इत्य उक्त्वा दविगुणं पापम आप्नुयात

40 तरिभागं बरह्महत्यायाः कन्या पराप्नॊति दुष्यती
यस तु दूषयिता तस्याः शेषं पराप्नॊति किल्बिषम

41 बराह्मणायावगूर्येह सपृष्ट्वा गुरुतरं भवेत
वर्षाणां हि शतं पापः परतिष्ठां नाधिगच्छति

42 सहस्रं तव एव वर्षाणां निपात्य नरके वसेत
तस्मान नैवावगूर्याद धि नैव जातु निपातयेत

43 शॊणितं यावतः पांसून संगृह्णीयाद दविज कषतात
तावतीः स सभा राजन नरके परिवर्तते

44 भरूणहाहवमध्ये तु शुध्यते शस्त्रपातितः
आत्मानं जुहुयाद वह्नौ समिद्धे तेन शुध्यति

45 सुरापॊ वारुणीम उष्णां पीत्वा पापाद विमुच्यते
तया स काये निर्दग्धे मृत्युना परेत्य शुध्यति
लॊकांश च लभते विप्रॊ नान्यथा लभते हि सः

46 गुरु तल्पम अधिष्ठाय दुरात्मा पापचेतनः
सूर्मीं जवलन्तीम आश्लिष्य मृत्युना स विशुध्यति

47 अथ वा शिश्नवृषणाव आदायाञ्जलिना सवयम
नैरृतीं दिशम आस्थाय निपतेत स तव अजिह्मगः

48 बराह्मणार्थे ऽपि वा पराणान संत्यजेत तेन शुध्यति
अश्वमेधेन वापीष्ट्वा गॊमेधेनापि वा पुनः
अग्निष्टॊमेन वा सम्यग इह परेत्य च पूयते

49 तथैव दवादश समाः कपाली बरह्महा भवेत
बरह्म चारि चरेद भैक्षं सवकर्मॊदाहरन मुनिः

50 एवं वा तपसा युक्तॊ बरह्महा सवनी भवेत
एवं वा गर्भम अज्ञाता चात्रेयीं यॊ ऽभिगच्छति
दविगुणा बरह्महत्या वय आत्रेयी वयसने भवेत

51 सुरापॊ नियताहारॊ बरह्म चारी कषमा चरः
ऊर्ध्वं तरिभ्यॊ ऽथ वर्षेभ्यॊ जयेताग्निष्टुता परम
ऋषभैक सहस्रं गा दत्त्वा शुभम अवाप्नुयात

52 वैश्यं हत्वा तु वर्षे दवे ऋषभैक शताश च गाः
शूद्रं हत्वाब्दम एवैकम ऋषभैकादशाश च गाः

53 शवबर्बर खरान हत्वा शौद्रम एव वरतं चरेत
मार्जारचाष मण्डूकान काकं भासं च मूषकम

54 उक्तः पशुसमॊ धर्मॊ राजन पराणि निपातनात
परायश्चित्तान्य अथान्यानि परवक्ष्याम्य अनुपूर्वशः

55 तल्पे चान्यस्य चौर्ये च पृथक संवत्सरं चरेत
तरीणि शरॊत्रिय भार्यायां परदारे तु दवे समृते

56 काले चतुर्थे भुञ्जानॊ बरह्म चारी वरती भवेत
सथानासनाभ्यां विहरेत तरिर अह्नॊ ऽभयुदिताद अपः
एवम एव निराचान्तॊ यश चाग्नीन अपविध्यति

57 तयजत्य अकारणे यश च पितरं मातरं तथा
पतितः सयात स कौरव्य तथा धर्मेषु निश्चयः

58 गरासाच्छादनम अत्यर्थं दद्याद इति निदर्शनम
भार्यायां वयभिचारिण्यां निरुद्धायां विशेषतः
यत पुंसां परदारेषु तच चैनां चारयेद वरतम

59 शरेयांसं शयने हित्वा या पापीयांसम ऋच्छति
शवभिस तां खादयेद राजा संस्थाने बहु संवृते

60 पुमांसं बन्धयेत पराज्ञः शयने तप्त आयसे
अप्य आदधीत दारूणि तत्र दह्येत पापकृत

61 एष दण्डॊ महाराज सत्रीणां भर्तृव्यतिक्रमे
संवत्सराभिशस्तस्य दुष्टस्य दविगुणॊ भवेत

62 दवे तस्य तरीणि वर्षाणि चत्वारि सह सेविनः
कुचरः पञ्चवर्षाणि चरेद भैक्षं मुनिव्रतः

63 परिवित्तिः परिवेत्ता यया च परिविद्यते
पाणिग्राहश च धर्मेण सर्वे ते पतिताः समृताः

64 चरेयुः सर्व एवैते वीरहा यद वरतं चरेत
चान्द्रायणं चरेन मासं कृच्छ्रं वा पापशुद्धये

65 परिवेत्ता परयच्छेत परिवित्ताय तां सनुषाम
जयेष्ठेन तव अभ्यनुज्ञातॊ यवीयान परत्यनन्तरम
एनसॊ मॊक्षम आप्नॊति सा च तौ चैव धर्मतः

66 अमानुषीषु गॊवर्जम अनावृष्टिर न दुष्यति
अधिष्ठातारम अत्तारं पशूनां पुरुषं विदुः

67 परिधायॊर्ध्व वालं तु पात्रम आदाय मृन्मयम
चरेत सप्त गृहान भैक्षं सवकर्म परिकीर्तयन

68 तत्रैव लब्धभॊजी सयाद दवादशाहात स शुध्यति
चरेत संवत्सरं चापि तद वरतं यन निराकृति

69 भवेत तु मानुषेष्व एवं परायश्चित्तम अनुत्तमम
दानं वादान सक्तेषु सर्वम एव परकल्पयेत
अनास्तिकेषु गॊमात्रं पराणम एकं परचक्षते

70 शववराह मनुष्याणां कुक्कुटस्य खरस्य च
मांसं मूत्र पुरीषं च पराश्य संस्कारम अर्हति

71 बराह्मणस्य सुरापस्य गन्धम आघ्राय सॊमपः
अपस तर्यहं पिबेद उष्णास तर्यहम उष्णं पयः पिबेत
तर्यहम उष्णं घृतं पीत्वा वायुभक्षॊ भवेत तर्यहम

72 एवम एतत समुद्दिष्टं परायश्चित्तं सनातनम
बराह्मणस्य विशेषेण तत्त्वज्ञानेन जायते

अध्याय 1
अध्याय 1