अध्याय 112

महाभारत संस्कृत - आरण्यकपर्व

1 [र] इहागतॊ जटिलॊ बरह्म चारी; न वै हरस्वॊ नातिदीर्घॊ मनॊ वी
सुवर्णवर्णः कमलायताक्षः; सुतः सुराणाम इव शॊभमानः

2 समृद्धरूपः सवितेव दीप्तः; सुशुक्लकृष्णाक्ष तरश चकॊरैः
नीलाः परसन्नाश च जटाः सुगन्धा; हिरण्यरज्जु गरथिताः सुदीर्घाः

3 आधार रूपा पुनर अस्य कण्ठे; विभ्राजते विद्युद इवान्तरिक्षे
दवौ चास्य पिण्डाव अधरेण कण्ठम; अजातरॊमौ सुमनॊहरौ च

4 विलग्नमध्यश च स नाभिदेशे; कतिश च तस्यातिकृत परमाणा
अथास्य चीरान्तर इता परभाति; हिरन मयी मेखला मे यथेयम

5 अन्यच च तस्याद्भुत दर्शनीयं; विकूजितं पादयॊः संप्रभाति
पाण्यॊश च तद्वत सवनवन निबद्धौ; कलापकाव अक्षमाला यथेयम

6 विचेष्टमानस्य च तस्य तानि; कूजन्ति हंसा सरसीव मत्ताः
चीराणि तस्याद्भुत दर्शनानि; नेमानि तद्वन मम रूपवन्ति

7 वक्त्रं च तस्याद्भुत दर्शनीयं; परव्याहृतं हलादयतीव चेतः
पुंस्कॊकिलस्येव च तस्य वाणी; तां शृण्वतॊ मे वयथितॊ ऽनतरात्मा

8 यथा वनं माधव मासि मध्ये; समीरितं शवसनेनाभिवाति
तथा स वात्य उत्तमपुण्यगन्धी; निषेव्यमाणः पवनेन तात

9 सुसंयताश चापि जटा विभक्ता; दवैधी कृता भान्ति समा ललाटे
कर्णौ च चित्रैर इव चक्रवालैः; समावृतौ तस्य सुरूपवद्भिः

10 तथा फलं वृत्तम अथॊ वि चित्रं; समाहनत पाणिना दक्षिणेन
तद भूमिम आसाद्य पुनः पुनश च; समुत्पतत्य अद्भुतरूपम उच्चैः

11 तच चापि हत्वा परिवर्तते ऽसौ; वातेरितॊ वृक्ष इवावघूर्णः
तं परेक्ष्य मे पुत्रम इवामराणां; परीतिः परा तात रतिश च जाता

12 स मे समाश्लिष्य पुनः शरीरं; जटासु गृह्याभ्यवनाम्य वक्त्रम
वक्त्रेण वक्त्रं परणिधाय शब्दं; चकार तन मे ऽजनयत परहर्षम

13 न चापि पाद्यं बहुमन्यते ऽसौ; फलानि चेमानि मयाहृतानि
एवं वरतॊ ऽसमीति च माम अवॊचत; फलानि चान्यानि नवान्य अदान मे

14 मयॊपयुक्तानि फलानि तानि; नेमानि तुल्यानि रसेन तेषाम
न चापि तेषां तवग इयं यथैषां; साराणि नैषाम इव सन्ति तेषाम

15 तॊयानि चैवाति रसानि मह्यं; परादात स वै पातुम उदाररूपः
पीत्वैव यान्य अभ्यधिकः परहर्षॊ; ममाभवद भूश चलितेव चासीत

16 इमानि चित्राणि च गन्धवन्ति; माल्यानि तस्यॊद्ग्रथितानि पट्टैः
यानि परकीर्येह गतः सवम एव; स आश्रमं तपसा दयॊतमानः

17 गतेन तेनास्मि कृतॊ वि चेता; गात्रं च मे संपरितप्यतीव
इच्छामि तस्यान्तिकम आशु गन्तुं; तं चेह नित्यं परिवर्तमानम

18 गच्छामि तस्यान्तिकम एव तात; का नाम सा वरतचर्या च तस्य
इच्छाम्य अहं चरितुं तेन सार्धं; यथा तपः स चरत्य उग्रकर्मा

अध्याय 1
अध्याय 1