अध्याय 111

महाभारत संस्कृत - आरण्यकपर्व

1 [लॊमष] सा तु नाव्याश्रमं चक्रे राजकार्यार्थ सिद्धये
संदेशाच चैव नृपतेः सवबुद्ध्या चैव भारत

2 नानापुष्पफलैर वृक्षैः कृत्रिमैर उपशॊभितम
नानागुल्मलतॊपैतैः सवादु कामफलप्रदैः

3 अतीव रमणीयं तद अतीव च मनॊहरम
चक्रे नाव्याश्रमं रम्यम अद्भुतॊपमदर्शनम

4 ततॊ निबध्य तां नावम अदूरे काश्यपाश्रमात
चारयाम आस पुरुषैर विहारं तस्य वै मुनेः

5 ततॊ दुहितरं वेश्या समाधायेति कृत्यताम
दृष्ट्वान्तरं काश्यपस्य पराहिणॊद बुद्धिसंमताम

6 सा तत्र गत्वा कुशला तपॊनित्यस्य संनिधौ
आश्रमं तं समासाद्य ददर्श तम ऋषेः सुतम

7 [वेष्या] कच चिन मुने कुशलं तापसानां; कच चिच च वॊ मूलफलं परभूतम
कच चिद भवान रमते चाश्रमे ऽसमिंस; तवां वै दरष्टुं सांप्रतम आगतॊ ऽसमि

8 कच चित तपॊ वर्धते तापसानां; पिता च ते कच चिद अहीन तेजाः
कच चित तवया परीयते चैव विप्र; कच चित सवाध्यायः करियत ऋश्य शृङ्ग

9 [र] ऋद्धॊ भवाञ जयॊतिर इव परकाशते; मन्ये चाहं तवाम अभिवादनीयम
पाद्यं वै ते संप्रदास्यामि कामाद; यथा धर्मं फलमूलानि चैव

10 कौश्यां बृस्याम आस्स्व यथॊपजॊषं; कृष्णाजिनेनावृतायां सुखायाम
कव चाश्रमस तव किंनाम चेदं; वरतं बरह्मंश चरसि हि देव वत तवम

11 [वेष्या] ममाश्रमः काश्यप पुत्र रम्यस; तरियॊजनं शैलम इमं परेण
तत्र सवधर्मॊ ऽनभिवानदं नॊ; न चॊदकं पाद्यम उपस्पृशामः

12 [र] फलानि पक्वानि ददानि ते ऽहं; भल्लातकान्य आमलकानि चैव
परूषकाणीङ्गुद धन्वनानि; परियालानां कामकारं कुरुष्व

13 [ल] सा तानि सर्वाणि विसर्जयित्वा; भक्षान महार्हान परददौ ततॊ ऽसमै
तान्य ऋश्य शृङ्गस्य महारसानि; भृशं सुरूपाणि रुचिं ददुर हि

14 ददौ च माल्यानि सुगन्धवन्ति; चित्राणि वासांसि च भानुमन्ति
पानानि चाग्र्याणि ततॊ मुमॊद; चिक्रीड चैव परजहास चैव

15 सा कन्दुकेनारमतास्य मूले; विभज्यमाना फलिता लतेव
गात्रैश च गात्राणि निषेवमाणा; समाश्लिषच चासकृद ऋश्य शृङ्गम

16 सर्जान अशॊकांस तिलकांश च वृक्षान; परपुष्पितान अवनाम्यावभज्य
विलज्जमानेव मदाभिभूता; परलॊभयाम आस सुतं महर्षेः

17 अथर्श्य शृङ्गं विकृतं समीक्ष्य; पुनः पुनः पीड्य च कायम अस्य
अवेक्षमाणा शनकिर जगाम; कृत्वाग्निहॊत्रस्य तदापदेशम

18 तस्यां गतायां मदनेन मत्तॊ; वि चेतनश चाभवद ऋश्य शृङ्गः
ताम एव भावेन गतेन शून्यॊ; विनिःश्वसन्न आर्तरूपॊ बभूव

19 ततॊ मुहूर्ताद धरि पिङ्गलाक्षः; परवेष्टितॊ रॊमभिरा नखाग्रात
सवाध्यायवान वृत्तसमाधि युक्तॊ; विभाण्डकः काश्यपः परादुरासीत

20 सॊ ऽपश्यद आसीनम उपेत्य पुत्रं; धयायन्तम एकं विपरीतचित्तम
विनिःश्वसन्तं मुहुर ऊर्ध्वदृष्टिं; विभाण्डकः पुत्रम उवाच दीनम

21 न कल्प्यन्ते समिधः किं नु तात; कच चिद धुतं चाग्निहॊत्रं तवयाद्य
सुनिर्निक्तं सरुक सरुवं हॊमधेनुः; कच चित स वत्सा च कृता तवयाद्य

22 न वै यथापूर्वम इवासि पुत्र; चिन्तापरश चासि वि चेतनश च
दीनॊ ऽति मात्रं तवम इहाद्य किं नु; पृच्छामि तवां क इहाद्यागतॊ ऽभूत

अध्याय 1
अध्याय 1