अध्याय 223

महाभारत संस्कृत - आदिपर्व

1 [जरितारि] पुरतः कृच्छ्रकालस्य धीमाञ जागर्ति पूरुषः
स कृच्छ्रकालं संप्राप्य वयथां नैवैति कर्हि चित

2 यस तु कृच्छ्रम असंप्राप्तं विचेता नावबुध्यते
स कृच्छ्रकाले वयथितॊ न परजानाति किं चन

3 [सारिसृक्व] धीरस तवम असि मेधावी पराणकृच्छ्रम इदं च नः
शूरः पराज्ञॊ बहूनां हि भवत्य एकॊ न संशयः

4 [सतम्बमित्र] जयेष्ठस तराता भवति वै जयेष्ठॊ मुञ्चति कृच्छ्रतः
जयेष्ठश चेन न परजानाति कनीयान किं करिष्यति

5 [दरॊण] हिरण्यरेतास तवरितॊ जवलन्न आयाति नः कषयम
सप्त जिह्वॊ ऽनलः कषामॊ लेलिहानॊपसर्पति

6 [वै] एवम उक्तॊ भरातृभिस तु जरितारिर बिभावसुम
तुष्टाव पराञ्जलिर भूत्वा यथा तच छृणु पार्थिव

7 [जरितारि] आत्मासि वायॊः पवनः शरीरम उत वीरुधाम
यॊनिर आपश च ते शुक्रयॊनिस तवम असि चाम्भसः

8 ऊर्ध्वं चाधश च गच्छन्ति विसर्पन्ति च पार्श्वतः
अर्चिषस ते महावीर्यरश्मयः सवितुर यथा

9 [सारिसृक्व] माता परपन्ना पितरं न विद्मः; पक्षाश च नॊ न परजाताब्ज केतॊ
न नस तराता विद्यते ऽगने तवदन्यस; तस्माद धि नः परिरक्षैक वीर

10 यद अग्ने ते शिवं रूपं ये च ते सप्त हेतवः
तेन नः परिरक्षाद्य ईडितः शरणैषिणः

11 तवम एवैकस तपसे जातवेदॊ; नान्यस तप्ता विद्यते गॊषु देव
ऋषीन अस्मान बालकान पालयस्व; परेणास्मान परैहि वै हव्यवाह

12 [सतम्बमित्र] सर्वम अग्ने तवम एवैकस तवयि सर्वम इदं जगत
तवं धारयसि भूतानि भुवनं तवं बिभर्षि च

13 तवम अग्निर हव्यवाहस तवं तवम एव परमं हविः
मनीषिणस तवां यजन्ते बहुधा चैकधैव च

14 सृष्ट्वा लॊकांस तरीन इमान हव्यवाह; पराप्ते काले पचसि पुनः समिद्धः
सर्वस्यास्य भुवनस्य परसूतिस; तवम एवाग्ने भवसि पुनः परतिष्ठा

15 तवम अन्नं पराणिनां भुक्तम अन्तर भूतॊ जगत्पते
नित्यं परवृद्धः पचसि तवयि सर्वं परतिष्ठितम

16 [दरॊण] सूर्यॊ भूत्वा रश्मिभिर जातवेदॊ; भूमेर अम्भॊ भूमिजातान रसांश च
विश्वान आदाय पुनर उत्सर्ग काले; सृष्ट्वा वृष्ट्या भावयसीह शुक्र

17 तवत्त एताः पुनः शुक्रवीरुधॊ हरितच छदाः
जायन्ते पुष्करिण्यश च समुद्रश च महॊदधिः

18 इदं वै सद्म तिग्मांशॊ वरुणस्य परायणम
शिवस तराता भवास्माकं मास्मान अद्य विनाशय

19 पिङ्गाक्षलॊहितग्रीव कृष्णवर्त्मन हुताशन
परेण परैहि मुञ्चास्मान सागरस्य गृहान इव

20 [वै] एवम उक्तॊ जातवेदा दरॊणेनाक्लिष्ट कर्मणा
दरॊणम आह परतीतात्मा मन्दपाल परतिज्ञया

21 ऋषिर दरॊणस तवम असि वै बरह्मैतद वयाहृतं तवया
ईप्सितं ते करिष्यामि न च ते विद्यते भयम

22 मन्दपालेन यूयं हि मम पूर्वं निवेदिताः
वर्जयेः पुत्रकान मह्यं दहन दावम इति सम ह

23 य च तद वचनं तस्य तवया यच चेह भाषितम
उभयं मे गरीयस तद बरूहि किं करवाणि ते
भृशं परीतॊ ऽसमि भद्रं ते बरह्मन सतॊत्रेण ते विभॊ

24 [दरॊण] इमे मार्जारकाः शुक्रनित्यम उद्वेजयन्ति नः
एतान कुरुष्व दंष्ट्रासु हव्यवाहसबान्धवान

25 [वै] तथा तत कृतवान वह्निर अभ्यनुज्ञाय शार्ङ्गकान
ददाह खाण्डवं चैव समिद्धॊ जनमेजय

अध्याय 2
अध्याय 2