अध्याय 35

महाभारत संस्कृत - शांतिपर्व

1 [युधिस्ठिर] कानि कृत्वेह कर्माणि परायश्चित्तीयते नरः
किं कृत्वा चैव मुच्येत तन मे बरूहि पितामहः

2 [वयास] अकुर्वन विहितं कर्म परतिषिद्धानि चाचरन
परायश्चित्तीयते हय एवं नरॊ मिथ्या च वर्तयन

3 सूर्येणाभ्युदितॊ यश च बरह्म चारी भवत्य उत
तथा सूर्याभिनिर्मुक्तः कुनखी शयावदन्न अपि

4 परिवित्तिः परिवेत्ता बरह्मॊज्झॊ यश च कुत्सकः
दिधिषू पतिस तथा यः सयाद अग्रे दिधिषुर एव च

5 अवकीर्णी भवेद यश च दविजातिवधकस तथा
अतीर्थे बरह्मणस तयागी तीर्थे चाप्रतिपादकः

6 गरामयाजी च कौन्तेय राज्ञश च परिविक्रयी
शूद्र सत्रीवधकॊ यश च पूर्वः पूर्वस तु गर्हितः

7 वृथा पशुसमालम्भी वनदाहस्य कारकः
अनृतेनॊपचर्ता च परतिरॊद्धा गुरॊस तथा

8 यश चाग्नीन अपविध्येत तथैव बरह्म विक्रयी
एतान्य एनांसि सर्वाणि वयुत्क्रान्त समयश च यः

9 अकार्याण्य अपि वक्ष्यामि यानि तानि निबॊध मे
लॊकवेद विरुद्धानि तान्य एकाग्रमनाः शृणु

10 सवधर्मस्य परित्यागः परधर्मस्य च करिया
अयाज्य याजनं चैव तथाभक्ष्यस्य भक्षणम

11 शरणागत संत्यागॊ भृत्यस्याभरणं तथा
रसानां विक्रयश चापि तिर्यग्यॊनिवधस तथा

12 आधानादीनि कर्माणि शक्तिमान न करॊति यः
अप्रयच्छंश च सर्वाणि नित्यं देयानि भारत

13 दक्षिणानाम अदानं च बराह्मण सवाभिमर्शनम
सर्वाण्य एतान्य अकार्याणि पराहुर धर्मविदॊ जनाः

14 पित्रा विभजते पुत्रॊ यश च सयाद गुरु तल्प गः
अप्रजायन्न अधर्मेण भवत्य आधर्मिकॊ जनः

15 उक्तान्य एतानि कर्माणि विस्तरेणेतरेण च
यानि कुर्वन्न अकुर्वंश च परायश्चित्तीयते जनः

16 एतान्य एव तु कर्माणि करियमाणानि मानवान
येषु येषु निमित्तेषु न लिम्पन्त्य अथ तच छृणु

17 परगृह्य शस्त्रम आयान्तम अपि वेदान्तगं रणे
जिघांसन्तं निहत्याजौ न तेन बरह्म हा भवेत

18 अपि चाप्य अत्र कौन्तेय मन्त्रॊ वेदेषु पठ्यते
वेद परमाण विहितं तं धर्मं परब्रवीमि ते

19 अपेतं बराह्मणं वृत्ताद यॊ हन्याद आततायिनम
न तेन बरह्म हा स सयान मन्युस तं मन्युम ऋच्छति

20 पराणात्यये तथाज्ञानाद आचरन मदिराम अपि
अचॊदितॊ धर्मपरः पुनः संस्कारम अर्हति

21 एतत ते सर्वम आख्यातं कौन्तेयाभक्ष्य भक्षणम
परायश्चीत विधानेन सर्वम एतेन शुध्यति

22 गुरु तल्पं हि गुर्वर्थे न दूषयति मानवम
उद्दालकः शवेतकेतुं जनयाम आस शिष्यतः

23 सतेयं कुर्वंस तु गुर्वर्थम आपत्सु न निबध्यते
बहुशः कामकारेण न चेद यः संप्रवर्तते

24 अन्यत्र बराह्मण सवेभ्य आददानॊ न दुष्यति
सवयम अप्राशिता यश च न स पापेन लिप्यते

25 पराणत्राणे ऽनृतं वाच्यम आत्मनॊ वा परस्य वा
गुर्वर्थे सत्रीषु चैव सयाद विवाह करणेषु च

26 नावर्तते वरतं सवप्ने शुक्रमॊक्षे कथं चन
आज्यहॊमः समिद्धे ऽगनौ परायश्चित्तं विधीयते

27 पारिवित्त्यं च पतिते नास्ति परव्रजिते तथा
भिक्षिते पारदार्यं च न तद धर्मस्य दूषकम

28 वृथा पशुसमालम्भं नैव कुर्यान न कारयेत
अनुग्रहः पशूणां हि संस्कारॊ विधिचॊदितः

29 अनर्हे बराह्मणे दत्तम अज्ञानात तन न दूषकम
स कारणं तथा तीर्थे ऽतीर्थे वा परतिपादनम

30 सत्रियस तथापचारिण्यॊ निष्कृतिः सयाद अदूषिका
अपि सा पूयते तेन न तु भर्ता परदुष्यते

31 तत्त्वं जञात्वा तु सॊमस्य विक्रयः सयाद अदूषकः
असमर्थस्य भृत्यस्य विसर्गः सयाद अदॊषवान
वनदाहॊ गवाम अर्थे करियमाणॊ न दूषकः

32 उक्तान्य एतानि कर्माणि यानि कुर्वन न दुष्यति
परायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत

अध्याय 3
अध्याय 3