अध्याय 340

महाभारत संस्कृत - शांतिपर्व

1 [य] धर्माः पितामहेनॊक्ता मॊक्षधर्माश्रिताः शुभाः
धर्मम आश्रमिणां शरेष्ठं वक्तुम अर्हति मे भवान

2 [भीस्म] सर्वत्र विहितॊ धर्मः सवर्ग्यः सत्यफलॊदयः
बहु दवारस्य धर्मस्य नेहास्ति विफला करिया

3 यस्मिन यस्मिंस तु विषये यॊ यॊ याति विनिश्चयम
स तम एवाभिजानाति नान्यं भरतसत्तम

4 अपि च तवं नरव्याघ्र शरॊतुम अर्हसि मे कथाम
पुरा शक्रस्य कथितां नारदेन सुरर्षिणा

5 सुरर्षिर नारदॊ राजन सिद्धस तरैलॊक्यसंमतः
पर्येति करमशॊ लॊकान वायुर अव्याहतॊ यथा

6 स कदा चिन महेष्वास देवराजालयं गतः
सत्कृतश च महेन्द्रेण परत्यासन्न गतॊ ऽभवत

7 तं कृतक्षणम आसीनं पर्यपृच्छच छची पतिः
बरह्मर्षे किं चिद आश्चर्यम अस्ति दृष्टं तवयानघ

8 यथा तवम अपि विप्रर्षे तरैलॊक्यं सचराचरम
जातकौतूहलॊ नित्यं सिद्धश चरसि साक्षिवत

9 न हय अस्त्य अविदितं लॊके देवर्षे तव किं चन
शरुतं वाप्य अनुभूतं वा दृष्टं वा कथयस्व मे

10 तस्मै राजन सुरेन्द्राय नारदॊ वदतां वरः
आसीनायॊपपन्नाय परॊक्तवान विपुलां कथाम

11 यथा येन च कल्पेन स तस्मै दविजसत्तमः
कथां कथितवान पृष्ठस तथा तवम अपि मे शृणु

अध्याय 3
अध्याय 3