अध्याय 266

महाभारत संस्कृत - शांतिपर्व

1 [य] मॊक्षः पितामहेनॊक्त उपायान नानुपायतः
तम उपायं यथान्यायं शरॊतुम इच्छामि भारत

2 [भी] तवय्य एवैतन महाप्राज्ञ युक्तं निपुन दर्शनम
यद उपायेन सर्वार्थान नित्यं मृगयसे ऽनघ

3 करणे घतस्य या बुद्धिर घतॊत्पत्तौ न सानघ
एवं धर्माभ्युपायेषु नान्यद धर्मेषु कारणम

4 पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम
एकः पन्था हि मॊक्षस्य तन मे विस्तरतः शृणु

5 कषमया करॊधम उच्छिन्द्यात कामं संकल्पवर्जनात
सत्त्वसंसेवनाद धीरॊ निद्राम उच्छेतुम अर्हति

6 अप्रमादाद भयं रक्षेच छवासं कषेत्रज्ञशीलनात
इच्छां दवेषं च कामं च धैर्येण विनिवर्तयेत

7 भरमं परमॊहम आवर्तम अभ्यासाद विनिवर्तयेत
निद्रां च परतिभां चैव जञानाभ्यास न तत्त्ववित

8 उपद्रवांस तथा रॊगान हितजीर्ण मिताशनात
लॊभं मॊहं च संतॊषाद विषयांस तत्त्वदर्शनात

9 अनुक्रॊषाद अधर्मं च जयेद धर्मम उपेक्षया
आयत्या च जयेद आशाम अर्थं सङ्गविवर्जनात

10 अनित्यत्वेन च सनेहं कषुधं यॊगेन पण्डितः
कारुण्येनात्मनॊ मानं तृष्णां च परितॊषतः

11 उत्थानेन जयेत तन्द्रीं वितर्कं निश्चयाज जयेत
मौनेन बहु भास्यं च शौर्येण च भयं जयेत

12 यच्छेद वाङ्मनसी बुद्ध्या तां यच्छेज जञानचक्षुषा
जञानम आत्मा महान यच्छेत तं यच्छेच छान्तिर आत्मनः

13 तद एतद उपशान्तेन बॊद्धव्यं शुचि कर्मणा
यॊगदॊषान समुच्छिद्य पञ्च यान कवयॊ विदुः

14 कामं करॊधं च लॊभं च भयं सवप्नं च पञ्चमम
परित्यज्य निषेवेत तथेमान यॊगसाधनान

15 धयानम अध्ययनं दानं सत्यं हरीर आर्जवं कषमा
शौचम आहारतः शुद्धिर इन्द्रियाणां च संयमः

16 एतैर विवर्धते तेजः पाप्मानम अपहन्ति च
सिध्यन्ति चास्य संकल्पा विज्ञानं च परवर्तते

17 धूतपापः स तेजस्वी लघ्व आहारॊ जितेन्द्रियः
कामक्रॊधौ वशे कृत्वा निनीसेद बरह्मणः पदम

18 अमूढत्वम असङ्गित्वं कामक्रॊधविवर्जनम
अदैन्यम अनुदीर्णत्वम अनुद्वेगॊ वयवस्थितिः

19 एष मार्गॊ हि मॊक्षस्य परसन्नॊ विमलः शुचिः
तथा वाक्कायमनसां नियमः कामतॊ ऽनयथा

अध्याय 2
अध्याय 2