अध्याय 153

महाभारत संस्कृत - शांतिपर्व

1 [य] अनर्थानाम अधिष्ठानम उक्तॊ लॊभः पितामह
अज्ञानम अपि वै तात शरॊतुम इच्छामि तत्त्वतः

2 [भ] करॊति पापं यॊ ऽजञानान नात्मनॊ वेत्ति च कषमम
परद्वेष्टि साधुवृत्तांश च स लॊकस्यैति वाच्यताम

3 अज्ञानान निरयं याति तथाज्ञानेन दुर्गतिम
अज्ञानात कलेशम आप्नॊति तथापत्सु निमज्जति

4 [य] अज्ञानस्य परवृत्तिं च सथानं वृद्धिं कषयॊदयौ
मूलं यॊगं गतिं कालं कारणं हेतुम एव च

5 शरॊतुम इच्छामि तत्त्वेन यथावद इह पार्थिव
अज्ञानप्रभवं हीदं यद दुःखम उपलभ्यते

6 [भ] रागॊ दवेषस तथा मॊहॊ हर्षः शॊकॊ ऽभिमानिता
कामः करॊधश च दर्पश च तन्द्रीर आलस्यम एव च

7 इच्छा दवेषस तथा तापः परवृद्ध्य उपतापिता
अज्ञानम एतन निर्दिष्टं पापानां चैव याः करियाः

8 एतया या परवृत्तिश च वृद्ध्यादीन यांश च पृच्छसि
विस्तरेण महाबाहॊ शृणु तच च विशां पते

9 उभाव एतौ समफलौ समदॊषौ च भारत
अज्ञानं चातिलॊभश चाप्य एकं जानीहि पार्थिव

10 लॊभप्रभवम अज्ञानं वृद्धं भूयः परवर्धते
सथाने सथानं कषये कषैण्यम उपैति विविधां गतिम

11 मूलं लॊभस्य महतः कालात्म गतिर एव च
छिन्ने ऽचछिन्ने तथा लॊभे कारणं काल एव हि

12 तस्याज्ञानात तु लॊभॊ हि लॊभाद अज्ञानम एव च
सर्वे दॊषास तथा लॊभात तस्माल लॊभं विवर्जयेत

13 जनकॊ युवनाश्वश च वृषादर्भिः परसेनजित
लॊभक्षयाद दिवं पराप्तास तथैवान्ये जनाधिपाः

14 परत्यक्षं तु कुरुश्रेष्ठ तयज लॊभम इहात्मना
तयक्त्वा लॊभं सुखं लॊके परेत्य चानुचरिष्यसि

अध्याय 1
अध्याय 1