अध्याय 38

महाभारत संस्कृत - कर्णपर्व

1 [स] कृतवर्मा कृपॊ दरौणिः सूतपुत्रश च मारिष
उलूकः सौबलश चैव राजा च सह सॊदरैः

2 सीदमानां चमूं दृष्ट्वा पाण्डुपुत्र भयार्दिताम
समुज्जिहीर्षुर वेगेन भिन्नां नावम इवार्णवे

3 ततॊ युद्धम अतीवासीन मुहूर्तम इव भारत
भीरूणां तरासजननं शूराणां हर्षवर्धनम

4 कृपेण शरवर्षाणि विप्र मुक्तानि संयुगे
सृञ्जयाः शातयाम आसुः शलभानां वरजा इव

5 शिखण्डी तु ततः करुद्धॊ गौतमं तवरितॊ ययौ
ववर्ष शरवर्षाणि समन्ताद एव बराह्मणे

6 कृपस तु शरवर्षं तद विनिहत्य महास्त्रवित
शिखण्डिनं रणे करुद्धॊ विव्याध दशभिः शरैः

7 ततः शिखण्डी कुपीतः शरैः सप्तभिर आहवे
कृपं विव्याध सुभृशं कङ्कपत्रैर अजिह्मगैः

8 ततः कृपः शरैस तीक्ष्णैः सॊ ऽतिविद्धॊ महारथः
वयश्व सूत रथं चक्रे पार्षतं तु दविजॊत्तमः

9 हताश्वात तु ततॊ यानाद अवप्लुत्य महारथः
चर्मखड्गे च संगृह्य सत्वरं बराह्मणं ययौ

10 तम आपतन्तं सहसा शरैः संनतपर्वभिः
छादयाम आस समरे तद अद्भुतम इवाभवत

11 तत्राद्भुतम अपश्याम शिलानां पलवनं यथा
निश्चेष्टॊ यद रणे राजञ शिखण्डी समतिष्ठत

12 कृपेण छादितं दृष्ट्वा नृपॊत्तम शिखण्डिनम
परत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नॊ महारथ

13 धृष्टद्युम्नं ततॊ यान्तं शारद्वत रथं परति
परतिजग्राह वेगेन कृतवर्मा महारथः

14 युधिष्ठिरम अथायान्तं शारद्वत रथं परति
सपुत्रं सहसेनं च दरॊणपुत्रॊ नयवारयत

15 नकुलं सहदेवं च तवरमाणौ महारथौ
परतिजग्राह ते पुत्रः शरवर्षेण वारयन

16 भीमसेनं करूषांश च केकयान सहसृञ्जयान
कर्णॊ वैकर्तनॊ युद्धे वारयाम आस भारत

17 शिखण्डिनस ततॊ बाणान कृपः शारद्वतॊ युधि
पराहिणॊत तवरया युक्तॊ दिधक्षुर इव मारिष

18 ताञ शरान परेषितांस तेन समन्ताद धेमभूषणान
चिच्छेद खड्गम आविध्य भरामयंश च पुनः पुनः

19 शतचन्द्रं ततश चर्म गौतमः पार्षतस्य ह
वयधमत सायकैस तूर्णं तत उच्चुक्रुशुर जनाः

20 स विचर्मा महाराज खड्गपाणिर उपाद्रवत
कृपस्य वशम आपन्नॊ मृत्यॊर आस्यम इवातुरः

21 शारद्वत शरैर गरस्तं कलिश्यमानं महाबलम
चित्रकेतुसुतॊ राजन सुकेतुस तवरितॊ ययौ

22 विकिरन बराह्मणं युद्धे बहुभिर निशितैः शरैः
अभ्यापतद अमेयात्मा गौतमस्य रथं परति

23 दृष्ट्वाविषह्यं तं युद्धे बराह्मणं चरितव्रतम
अपयातस ततस तूर्णं शिखण्डी राजसत्तम

24 सुकेतुस तु ततॊ राजन गौतमं नवभिः शरैः
विद्ध्वा विव्याध सप्तत्या पुनश चैनं तरिभिः शरैः

25 अथास्य सशरं चापं पुनश चिच्छेद मारिष
सारथिं च शरेणास्य भृशं मर्मण्य अताडयत

26 गौतमस तु ततः करुद्धॊ धनुर गृह्य नवं दृढम
सुकेतुं तरिंशता बाणैः सर्वमर्मस्व अताडयत

27 स विह्वलितसर्वाङ्गः परचचाल रथॊत्तमे
भूमिचाले यथा वृक्षश चलत्य आकम्पितॊ भृशम

28 चलतस तस्य कायात तु शिरॊ जवलितकुण्डलम
सॊष्णीषं सशिरस्त्राणं कषुरप्रेणान्वपातयत

29 तच्छिरः परापतद भूमौ शयेनाहृतम इवामिषम
ततॊ ऽसय कायॊ वसुधां पश्चात पराप तदा चयुतः

30 तस्मिन हते महाराज तरस्तास तस्य पदानुगाः
गौतमं समरे तयक्त्वा दुद्रुवुस ते दिशॊ दश

31 धृष्टद्युम्नं तु समरे संनिवार्य महाबलः
कृतवर्माब्रवीद धृष्टस तिष्ठ तिष्ठेति पार्षतम

32 तद अभूत तुमुलं युद्धं वृष्णिपार्षतयॊ रणे
आमिषार्थे यथा युद्धं शयेनयॊर गृद्धयॊर नृप

33 धृष्टद्युम्नस तु समरे हार्दिक्यं नवभिः शरैः
आजघानॊरसि करुद्धः पीडयन हृदिकात्मजम

34 कृतवर्मा तु समरे पार्षतेन दृढाहतः
पार्षतं सरथं साश्वं छादयाम आस सायकैः

35 सरथश छादितॊ राजन धृष्टद्युम्नॊ न दृश्यते
मेघैर इव परिच्छन्नॊ भास्करॊ जलदागमे

36 विधूय तं बाणगणं शरैः कनकभूषणैः
वयरॊचत रणे राजन धृष्टद्युम्नः कृतव्रणः

37 ततस तु पार्षतः करुद्धः शस्त्रवृष्टिं सुदारुणाम
कृतवर्माणम आसाद्य वयसृजत पृतना पतिः

38 ताम आपतन्तीं सहसा शस्त्रवृष्टिं निरन्तराम
शरैर अनेकसाहस्रैर हार्दिक्यॊ वयधमद युधि

39 दृष्ट्वा तु दारितां युद्धे शस्त्रवृष्टिं दुरुत्तराम
कृतवर्माणम अभ्येत्य वारयाम आस पार्षतः

40 सारथिं चास्य तरसा पराहिणॊद यमसादनम
भल्लेन शितधारेण स हतः परापतद रथात

41 धृष्टद्युम्नस तु बलवाञ जित्वा शत्रुं महारथम
कौरवान समरे तूर्णं वारयाम आस सायकैः

42 ततस ते तावका यॊधा धृष्टद्युम्नम उपाद्रवन
सिंहनाद रवं कृत्वा ततॊ युद्धम अवर्तत

अध्याय 3
अध्याय 3