अध्याय 51
1 [स]
गतापराह्णभूयिष्ठे तस्मिन्न अहनि भारत
रथनागाश्वपत्तीनां सादिनां च महाक्षये
2 दरॊणपुत्रेण शल्येन कृपेण च महात्मना
समसज्जत पाञ्चाल्यस तरिभिर एतैर महारथैः
3 स लॊकविदितान अश्वान निजघान महाबलः
दरौणेः पाञ्चाल दायादः शितैर दशभिर आशुगैः
4 ततः शल्य रथं तूर्णम आस्थाय हतवाहनः
दरौणिः पाञ्चाल दायादम अभ्यवर्षद अथेषुभिः
5 धृष्टद्युम्नं तु संसक्तं दरौणिना दृश्य भारत
सौभद्रे ऽभयपतत तूर्णं विकिरन निशिताञ शरान
6 स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः
अश्वत्थामानम अष्टाभिर विव्याध पुरुषर्षभ
7 आर्जुनिं तु ततस तूर्णं दरौणिर विव्याध पत्रिणा
शल्यॊ दवादशभिश चैव कृपश च निशितैस तरिभिः
8 लक्ष्मणस तव पौत्रस तु तव पौत्रम अवस्थितम
अभ्यवर्तत संहृष्टस ततॊ युद्धम अवर्तत
9 दौर्यॊधनिस तु संक्रुद्धः सौभद्रं नवभिः शरैः
विव्याध समरे राजंस तद अद्भुतम इवाभवत
10 अभिमन्युस तु संक्रुद्धॊ भरातरं भरतर्षभ
शरैः पञ्चाशता राजन कषिप्रहस्तॊ ऽभयविध्यत
11 लक्ष्मणॊ ऽपि ततस तस्य धनुश चिच्छेद पत्रिणा
मुष्टिदेशे महाराज तत उच्चुक्रुशुर जनाः
12 तद विहाय धनुश छिन्नं सौभद्रः परवीरहा
अन्यद आदत्तवांश चित्रं कार्मुकं वेगवत्तरम
13 तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ
अन्यॊन्यं विशिखैस तीक्ष्णैर जघ्नतुः पुरुषर्षभौ
14 ततॊ दुर्यॊधनॊ राजा दृष्ट्वा पुत्रं महारथम
पीडितं तव पौत्रेण परायात तत्र जनेश्वरः
15 संनिवृत्ते तव सुते सर्व एव जनाधिपाः
आर्जुनिं रथवंशेन समन्तात पर्यवारयन
16 स तैः परिवृतः शूरैः शूरॊ युधि सुदुर्जयैः
न सम विव्यथते राजन कृष्ण तुल्यपराक्रमः
17 सौभद्रम अथ संसक्तं तत्र दृष्ट्वा धनंजयः
अभिदुद्राव संक्रुद्धस तरातुकामः सवम आत्मजम
18 ततः सरथनागाश्वा भीष्मद्रॊणपुरॊगमाः
अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम
19 उद्धूतं सहसा भौमं नागाश्वरथसादिभिः
दिवाकरपथं पराप्य रजस तीव्रम अदृश्यत
20 तानि नागसहस्राणि भूमिपाल शतानि च
तस्य बाणपथं पराप्य नाभ्यवर्तन्त सर्वशः
21 परणेदुः सर्वभूतानि बभूवुस तिमिरा दिशः
कुरूणाम अनयस तीव्रः समदृश्यत दारुणः
22 नाप्य अन्तरिक्षं न दिशॊ न भूमिर न च भास्करः
परजज्ञे भरतश्रेष्ठ शरसंघैः किरीटिनः
23 सादित धवजनागास तु हताश्वा रथिनॊ भृशम
विप्रद्रुत रथाः के चिद दृश्यन्ते रथयूथपाः
24 विरथा रथिनश चान्ये धावमानाः समन्ततः
तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर भुजैः
25 हयारॊहा हयांस तयक्त्वा गजारॊहाश च दन्तिनः
अर्जुनस्य भयाद राजन समन्ताद विप्रदुद्रुवुः
26 रथेभ्यश च गजेभ्यश च हयेभ्यश च नराधिपाः
पतिताः पात्यमानाश च दृश्यन्ते ऽरजुन ताडिताः
27 सगदान उद्यतान बाहून स खड्गांश च विशां पते
स परासांश च स तूणीरान स शरान स शरासनान
28 साङ्कुशान स पताकांश च तत्र तत्रार्जुनॊ नृणाम
निचकर्त शरैर उग्रै रौद्रं बिभ्रद वपुस तदा
29 परिघाणां परवृद्धानां मुद्गराणां च मारिष
परासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे
30 परश्वधानां तीक्ष्णानां तॊमराणां च भारत
वर्मणां चापविद्धानां कवचानां च भूतले
31 धवजानां चर्मणां चैव वयजनानां च सर्वशः
छत्राणां हेमदण्डानां चामराणां च भारत
32 परतॊदानां कशानां च यॊक्त्राणां चैव मारिष
राशयश चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ
33 नासीत तत्र पुमान कश चित तव सैन्यस्य भारत
यॊ ऽरजुनं समरे शूरं परत्युद्यायात कथं चन
34 यॊ यॊ हि समरे पार्थं पत्युद्याति विशां पते
स स वै विशिखैस तीक्ष्णैः परलॊकाय नीयते
35 तेषु विद्रवमाणेषु तव यॊधेषु सर्वशः
अर्जुनॊ वासुदेवश च दध्मतुर वारिजॊत्तमौ
36 तत परभग्नं बलं दृष्ट्वा पिता देवव्रतस तव
अब्रवीत समरे शूरं भारद्वाजं समयन्न इव
37 एष पाण्डुसुतॊ वीरः कृष्णेन सहितॊ बली
तथा करॊति सैन्यानि यथा कुर्याद धनंजयः
38 न हय एष समरे शक्यॊ जेतुम अद्य कथं चन
यथास्य दृश्यते रूपं कालान्तकयमॊपमम
39 न निवर्तयितुं चापि शक्येयं महती चमूः
अन्यॊन्यप्रेक्षया पश्य दरवतीयं वरूथिनी
40 एष चास्तं गिरिश्रेष्ठं भानुमान परतिपद्यते
वपूंषि सर्वलॊकस्य संहरन्न इव सर्वथा
41 तत्रावहारं संप्राप्तं मन्ये ऽहं पुरुषर्षभ
शरान्ता भीताश च नॊ यॊधा न यॊत्स्यन्ति कथं चन
42 एवम उक्त्वा ततॊ भीष्मॊ दरॊणम आचार्य सत्तमम
अवहारम अथॊ चक्रे तावकानां महारथः
43 ततॊ ऽवहारः सैन्यानां तव तेषां च भारत
अस्तं गच्छति सूर्ये ऽभूत संध्याकाले च वर्तति