अध्याय 257

महाभारत संस्कृत - आरण्यकपर्व

1 [जनम] एवं हृतायां कृष्णायां पराप्य कलेशम अनुत्तमम
अत ऊर्ध्वं नरव्याघ्राः किम अकुर्वत पाण्डवाः

2 [वै] एवं कृष्णां मॊक्षयित्वा विनिर्जित्य जयद्रथम
आसां चक्रे मुनिगणैर धर्मराजॊ युधिष्ठिरः

3 तेषां मध्ये महर्षीणां शृण्वताम अनुशॊचताम
मार्कण्डेयम इदं वाक्यम अब्रवीत पाण्डुनन्दनः

4 मन्ये कालश च बलवान दैवं च विधिनिर्मितम
भवितव्यं च भूतानां यस्य नास्ति वयतिक्रमः

5 कथं हि पत्नीम अस्माकं धर्मज्ञां धर्मचारिणीम
संस्पृशेद ईदृशॊ भावः शुचिं सतैन्यम इवानृतम

6 न हि पापं कृतं किं चित कर्म वा निन्दितं कव चित
दरौपद्या बराह्मणेष्व एव धर्मः सुचरितॊ महान

7 तां जहार बलाद राजा मूढ बुद्धिर जयद्रथः
तस्याः संहरणात पराप्तः शिरसः केशवापनम
पराजयं च संग्रामे ससहायः समाप्तवान

8 परत्याहृता तथास्माभिर हत्वा तत सैन्धवं बलम
तद दारहरणं पराप्तम अस्माभिर अवितर्कितम

9 दुःखश चायं वनेवासॊ मृगयायां च जीविका
हिंसा च मृगजातीनां वनौकॊभिर वनौकसाम
जञातिभिर विप्रवासश च मिथ्या वयवसितैर अयम

10 अस्ति नूनं मया कश चिद अल्पभाग्यतरॊ नरः
भवता दृष्टपूर्वॊ वा शरुतपूर्वॊ ऽपि वा भवेत

अध्याय 2
अध्याय 2