अध्याय 74

महाभारत संस्कृत - अनुशासनपर्व

1 [य] विस्रम्भितॊ ऽहं भवता धर्मान परवदता विभॊ
परवक्ष्यामि तु संदेहं तन मे बरूहि पितामह

2 वरतानां किं फलं परॊक्तं कीदृशं वा महाद्युते
नियमानां फलं किं च सवधीतस्य च किं फलम

3 दमस्येह फलं किं च वेदानां धारणे च किम
अध्यापने फलं किं च सर्वम इच्छामि वेदितुम

4 अप्रतिग्राहके किं च फलं लॊके पितामह
तस्य किं च फलं दृष्टं शरुतं यः संप्रयच्छति

5 सवकर्मनिरतानां च शूराणां चापि किं फलम
सत्ये च किं फलं परॊक्तं बरह्मचर्ये च किं फलम

6 पितृशुश्रूषणे किं च मातृशुश्रूषणे तथा
आचार्य गुरुशुश्रूषास्व अनुक्रॊशानुकम्पने

7 एतत सर्वम अशेषेण पितामह यथातथम
वेत्तुम इच्छामि धर्मज्ञ परं कौतूहलं हि मे

8 [भ] यॊ वरतं वै यथॊद्दिष्टं तथा संप्रतिपद्यते
अखण्डं सम्यग आरब्धं तस्य लॊकाः सनातनाः

9 नियमानां फलं राजन परत्यक्षम इह दृश्यते
नियमानां करतूनां च तवयावाप्तम इदं फलम

10 सवधीतस्यापि च फलं दृश्यते ऽमुत्र चेह च
इह लॊके ऽरथवान नित्यं बरह्मलॊके च मॊदते

11 दमस्य तु फलं राजञ शृणु तवं विस्तरेण मे
दान्ताः सर्वत्र सुखिनॊ दान्ताः सर्वत्र निर्वृताः

12 यत्रेच्छा गामिनॊ दान्ताः सर्वशत्रुनिषूदनाः
परार्थयन्ति च यद दान्ता लभन्ते तन न संशयः

13 युज्यन्ते सर्वकामैर हि दान्ताः सर्वत्र पाण्डव
सवर्गे तथा परमॊदन्ते तपसा विक्रमेण च

14 दानैर यज्ञैश च विविधैर यथा दान्ताः कषमान्विताः
दाता कुप्यति नॊ दान्तस तस्माद दानात परॊ दमः

15 यस तु दद्याद अकुप्यन हि तस्य लॊकाः सनातनाः
करॊधॊ हन्ति हि यद दानं तस्माद दानात परॊ दमः

16 अदृश्यानि महाराज सथानान्य अयुतशॊ दिवि
ऋषीणां सर्वलॊकेषु यानीतॊ यान्ति देवताः

17 दमेन यानि नृपते गच्छन्ति परमर्षयः
कामयाना महत सथानं तस्माद दानात परॊ दमः

18 अध्यापकं परिक्लेशाद अक्षयं फलम अश्नुते
विधिवत पावकं हुत्वा बरह्मलॊके नराधिप

19 अधीत्यापि हि यॊ वेदान नयायविद्भ्यः परयच्छति
गुरु कर्म परशंसी च सॊ ऽपि सवर्गे महीयते

20 कषत्रियॊ ऽधययने युक्तॊ यजने दानकर्मणि
युद्धे यश च परित्राता सॊ ऽपि सवर्गे महीयते

21 वैश्यः सवकर्मनिरतः परदानाल लभते महत
शूद्रः सवकर्मनिरतः सवर्गं शुश्रूषयर्च्छति

22 शूरा बहुविधाः परॊक्तास तेषाम अर्थाश च मे शृणु
शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव ह

23 यज्ञशूरा दमे शूराः सत्यशूरास तथापरे
युद्धशूरास तथैवॊक्ता दानशूराश च मानवाः

24 बुद्धिशूरास तथैवान्ये कषमा शूरास तथापरे
आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः

25 तैस तैस तु नियमैः शूरा बहवः सन्ति चापरे
वेदाध्ययनशूराश च शूराश चाध्यापने रताः

26 गुरुशुश्रूषया शूराः पितृशुश्रूषयापरे
मातृशुश्रूषया शूरा भैक्ष्य शूरास तथापरे

27 सांख्यशूराश च बहवॊ यॊगशूरास तथापरे
अरण्ये गृहवासे च शूराश चातिथि पूजने
सर्वे यान्ति पराँल लॊकान सवकर्मफलनिर्जितान

28 धारणं सर्ववेदानां सर्वतीर्थावगाहनम
सत्यं च बरुवतॊ नित्यं समं वा सयान न वा समम

29 अश्वमेध सहस्रं च सत्यं च तुलया धृतम
अश्वमेध सहस्राद धि सत्यम एव विशिष्यते

30 सत्येन सूर्यस तपति सत्येनाग्निः परदीप्यते
सत्येन मारुतॊ वाति सर्वं सत्ये परतिष्ठितम

31 सत्येन देवान परीणाति पितॄन वै बराह्मणांस तथा
सत्यम आहुः परं धर्मं तस्मात सत्यं न लङ्घयेत

32 मुनयः सत्यनिरता मुनयः सत्यविक्रमाः
मुनयः सत्यशपथास तस्मात सत्यं विशिष्यते
सत्यवन्तः सवर्गलॊके मॊदन्ते भरतर्षभ

33 दमः सत्यफलावाप्तिर उक्ता सर्वात्मना मया
असंशयं विनीतात्मा सर्वः सवर्गे महीयते

34 बरह्मचर्यस्य तु गुणाञ शृणु मे वसुधाधिप
आ जन्म मरणाद यस तु बरह्म चारी भवेद इह
न तस्य किं चिद अप्राप्यम इति विद्धि जनाधिप

35 बह्व्यः कॊट्यस तव ऋषीणां तु बरह्मलॊके वसन्त्य उत
सत्ये रतानां सततं दान्तानाम ऊर्ध्वरेतसाम

36 बरह्मचर्यं दहेद राजन सर्वपापान्य उपासितम
बराह्मणेन विशेषेण बराह्मणॊ हय अगिर उच्यते

37 परत्यक्षं च तवाप्य एतद बराह्मणेषु तपस्विषु
बिभेति हि यथा शक्रॊ बरह्म चारि परधर्षितः
तद बरह्मचर्यस्य फलम ऋषीणाम इह दृश्यते

38 मातापित्रॊः पूजने यॊ धर्मस तम अपि मे शृणु
शुश्रूषते यः पितरं न चासूयेत कथं चन
मातरं वानहं वादी गुरुम आचार्यम एव च

39 तस्य राजन फलं विद्धि सवर्लॊके सथानम उत्तमम
न च पश्येत नरकं गुरुशुश्रूषुर आत्मवान
1 [य] विधिं गवां परम अहं शरॊतुम इच्छामि तत्त्वतः

अध्याय 7
अध्याय 7