अध्याय 40

महाभारत संस्कृत - आदिपर्व

1 [स] तं तथा मन्त्रिणॊ दृष्ट्वा भॊगेन परिवेष्टितम
विवर्णवदनाः सर्वे रुरुदुर भृशदुःखिताः

2 तं तु नादं ततः शरुत्वा मन्त्रिणस ते परदुद्रुवुः
अपश्यंश चैव ते यान्तम आकाशे नागम अद्भुतम

3 सीमन्तम इव कुर्वाणं नभसः पद्मवर्चसम
तक्षकं पन्नगश्रेष्ठं भृशं शॊकपरायणाः

4 ततस तु ते तद्गृहम अग्निना वृतं; परदीप्यमानं विषजेन भॊगिनः
भयात परित्यज्य दिशः परपेदिरे; पपात तच चाशनि ताडितं यथा

5 ततॊ नृपे तक्षक तेजसा हते; परयुज्य सर्वाः परलॊकसत्क्रियाः
शुचिर दविजॊ राजपुरॊहितस तदा; तथैव ते तस्य नृपस्य मन्त्रिणः

6 नृपं शिशुं तस्य सुतं परचक्रिरे; समेत्य सर्वे पुरवासिनॊ जनाः
नृपं यम आहुस तम अमित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः

7 स बाल एवार्य मतिर नृपॊत्तमः; सहैव तैर मन्त्रिपुरॊहितैस तदा
शशास राज्यं कुरुपुंगवाग्रजॊ; यथास्य वीरः परपितामहस तथा

8 ततस तु राजानम अमित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः
सुवर्णवर्माणम उपेत्य काशिपं; वपुष्टमार्थं वरयां परचक्रमुः

9 ततः स राजा परददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः
स चापि तां पराप्य मुदा युतॊ ऽभवन; न चान्यनारीषु मनॊ दधे कव चित

10 सरःसु फुल्लेषु वनेषु चैव ह; परसन्नचेता विजहार वीर्यवान
तथा स राजन्य वरॊ विजह्रिवान; यथॊर्वशीं पराप्य पुरा पुरूरवाः

11 वपुष्टमा चापि वरं पतिं तदा; परतीतरूपं समवाप्य भूमिपम
भावेन रामा रमयां बभूव वै; विहारकालेष्व अवरॊध सुन्दरी

अध्याय 4
अध्याय 1