अध्याय 65
1 [व]
दुर्यॊधने धार्तराष्ट्रे तद वचॊ ऽपरतिनन्दति
तूष्णींभूतेषु सर्वेषु समुत्तस्थुर नरेश्वराः
2 उत्थितेषु महाराज पृथिव्यां सर्वराजसु
रहिते संजयं राजा परिप्रष्टुं परचक्रमे
3 आशंसमानॊ विजयं तेषां पुत्र वशानुगाः
आत्मनश च परेषां च पाण्डवानां च निश्चयम
4 गावल्गणे बरूहि नः सारफल्गु; सवसेनायां यावद इहास्ति किं चित
तवं पाण्डवानां निपुणं वेत्थ सर्वं; किम एषां जयायः किम उ तेषां कनीयः
5 तवम एतयॊः सारवित सर्वदर्शी; धर्मार्थयॊर निपुणॊ निश्चयज्ञः
स मे पृष्टः संजय बरूहि सर्वं; युध्यमानाः कतरे ऽसमिन न सन्ति
6 न तवां बरूयां रहिते जातु किं चिद; असूया हि तवां परसहेत राजन
आनयस्व पितरं संशितव्रतं; गांधारीं च महिषीम आजमीढ
7 तौ ते ऽसुयां विनयेतां नरेन्द्र; धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ
तयॊस तु तवां संमिधौ तद वदेयं; कृत्स्नं मतं वासुदेवार्जुनाभ्याम
8 ततस तन मतम आज्ञाय संजयस्यात्मजस्य च
अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनॊ ऽबरवीत
9 संपृच्छते धृतराष्ट्राय संजय; आचक्ष्व सर्वं यावद एषॊ ऽनुयुङ्क्ते
सर्वं यावद वेत्थ तस्मिन यथावद; याथातथ्यं वासुदेवे ऽरजुने च