अध्याय 66

महाभारत संस्कृत - उद्योगपर्व

1 [स] अर्जुनॊ वासुदेवश च धन्विनौ परमार्चितौ
कामाद अन्यत्र संभूतौ सर्वाभावाय संमितौ

2 दयाम अन्तरं समास्थाय यथा युक्तं मनस्विनः
चक्रं तद वासुदेवस्य मायया वर्तते विभॊ

3 सापह्नवं पाण्डवेषु पाण्डवानां सुसंमतम
सारासार बलं जञात्वा तत समासेन मे शृणु

4 नरकं शम्बरं चैव कंसं चैद्यं च माधवः
जितवान घॊरसंकाशान करीडन्न इव जनार्दनः

5 पृथिवीं चान्तरिक्षं च दयां चैव पुरुषॊत्तमः
मनसैव विशिष्टात्मा नयत्य आत्मवशं वशी

6 भूयॊ भूयॊ हि यद राजन पृच्छसे पाण्डवान परति
सारासार बलं जञातुं तन मे निगदतः शृणु

7 एकतॊ वा जगत कृत्स्नम एकतॊ वा जनार्दनः
सारतॊ जगतः कृत्स्नाद अतिरिक्तॊ जनार्दनः

8 भस्म कुर्याज जगद इदं मनसैव जनार्दनः
न तु कृत्स्नं जगच छक्तं भस्म कर्तुं जनार्दनम

9 यतः सत्यं यतॊ धर्मॊ यतॊ हरीर आर्जवं यतः
ततॊ भवति गॊविन्दॊ यतः कृष्णस ततॊ जयः

10 पृथिवीं चान्तरिक्षं च दिवं च पुरुषॊत्तमः
विचेष्टयति भूतात्मा करीडन्न इव जनार्दनः

11 स कृत्वा पाण्डवान सत्रं लॊकं संमॊहयन्न इव
अधर्मनिरतान मूढान दग्धुम इच्छति ते सुतान

12 कालचक्रं जगच चक्रं युगचक्रं च केशवः
आत्मयॊगेन भगवान परिवर्तयते ऽनिशम

13 कालस्य च हि मृत्यॊश च जङ्गम सथावरस्य च
ईशते भगवान एकः सत्यम एतद बरवीमि ते

14 ईशन्न अपि महायॊगी सर्वस्य जगतॊ हरिः
कर्माण्य आरभते कर्तुं कीनाश इव दुर्बलः

15 तेन वञ्चयते लॊकान मायायॊगेन केशवः
ये तम एव परपद्यन्ते न ते मुह्यन्ति मानवाः

अध्याय 6
अध्याय 6