अध्याय 50
1 [वै]
अपयाते तु राधेये दुर्यॊधन पुरॊगमाः
अनीकेन यथा सवेन शरैर आर्च्छन्त पाण्डवम
1 [वै]
तान्य अनीकान्य अदृश्यन्त कुरूणाम उग्रधन्विनाम
संसर्पन्तॊ यथा मेघा घर्मान्ते मन्दमारुताः
1 [वै]
एतस्मिन्न अन्तरे तत्र महावीर्यपराक्रमः
आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः
अर्जुनं परति संयॊद्धुं युद्धार्थी स महारथः
1 [अर्ज]
यत्रैषा काञ्चनी वेदी परदीप्ताग्निशिखॊपमा
उच्छ्रिता काञ्चने दण्डे पताकाभिर अलं कृता
तत्र मां वह भद्रं ते दरॊणानीकाय मारिष