अध्याय 61

महाभारत संस्कृत - विराटपर्व

1 [वै] आहूयमानस तु स तेन संख्ये; महामना धृतराष्ट्रस्य पुत्रः
निवर्तितस तस्य गिराङ्कुशेन; गजॊ यथामत्त इवाङ्कुशेन

2 सॊ ऽमृष्यमाणॊ वचसाभिमृष्टॊ; महारथेनाति रथस तरस्वी
पर्याववर्ताथ रथेन वीरॊ; भॊगी यथा पादतलाभिमृष्टः

3 तं परेक्ष्य कर्णः परिवर्तमानं; निवर्त्य संस्तभ्य च विद्ध गात्रः
दुर्यॊधनं दक्षिणतॊ ऽभयगच्छत; पार्थं नृवीरॊ युधि हेममाली

4 भीष्मस ततः शांतनवॊ निवृत्य; हिरण्यकक्ष्यांस तवरयंस तुरंगान
दुर्यॊधनं पश्चिमतॊ ऽभयरक्षत; पार्थान महाबाहुर अधिज्य धन्वा

5 दरॊणः कृपश चैव विविंशतिश च; दुःशासनश चैव निवृत्य शीघ्रम
सर्वे पुरस्ताद विततेषु चापा; दुर्यॊधनार्थं तवरिताभ्युपेयुः

6 स तान्य अनीकानि निवर्तमानान्य; आलॊक्य पूर्णौघनिभानि पार्थः
हंसॊ यथा मेघम इवापतन्तं; धनंजयः परत्यपतत तरस्वी

7 ते सर्वतः संपरिवार्य पार्थम; अस्त्राणि दिव्यानि समाददानाः
ववर्षुर अभ्येत्य शरैः समन्तान; मेघा यथा भूधरम अम्बुवेगैः

8 ततॊ ऽसत्रम अस्त्रेण निवार्य तेषां; गाण्डीवधन्वा कुरुपुंगवानाम
संमॊहनं शत्रुसहॊ ऽनयद अस्त्रं; परादुश्चकारैन्द्रिर अपारणीयम

9 ततॊ दिशश चानुदिशॊ विवृत्य; शरैः सुधारैर निशितैः सुपुङ्खैः
गाण्डीवघॊषेण मनांसि तेषां; महाबलः परव्यथयां चकार

10 ततः पुनर भीमरवं परगृह्य; दॊर्भ्यां महाशङ्खम उदारघॊषम
वयनादयत स परदिशॊ दिशः खं; भुवं च पार्थॊ दविषतां निहन्ता

11 ते शङ्खनादेन कुरुप्रवीराः; संमॊहिताः पार्थ समीरितेन
उत्सृज्य चापानि दुरासदानि; सर्वे तदा शान्ति परा बभूवुः

12 तथा विसंज्ञेषु परेषु पार्थः; समृत्वा तु वाक्यानि तथॊत्तरायाः
निर्याहि मध्याद इति मत्स्यपुत्रम; उवाच यावत कुरवॊ विसंज्ञाः

13 आचार्य शारद्वतयॊः सुशुक्ले; कर्णस्य पीतं रुचिरं च वस्त्रम
दरौणेश च राज्ञश च तथैव नीले; वस्त्रे समादत्स्व नरप्रवीर

14 भीष्मस्य संज्ञां तु तथैव मन्य; जानाति मे ऽसत्रप्रतिघातम एषः
एतस्य वाहान कुरु सव्यतस तवम; एवं हि यातव्यम अमूढ संज्ञैः

15 रश्मीन समुत्सृज्य ततॊ महात्मा; रथाद अवप्लुत्य विराट पुत्रः
वस्त्राण्य उपादाय महारथानां; तूर्णं पुनः सवं रथम आरुरॊह

16 ततॊ ऽनवशासच चतुरः सदश्वान; पुत्रॊ विराटस्य हिरण्यकक्ष्यान
ते तद वयतीयुर धवजिनाम अनीकं; शवेता वहन्तॊ ऽरजुनम आजिमध्यात

17 तथा तु यान्तं पुरुषप्रवीरं; भीष्मः शरैर अभ्यहनत तरस्वी
स चापि भीष्मस्य हयान निहत्य; विव्याध पार्श्वे दशभिः पृषत्कैः

18 ततॊ ऽरजुनॊ भीष्मम अपास्य युद्धे; विद्ध्वास्य यन्तारम अरिष्टधन्वा
तस्थौ विमुक्तॊ रथवृन्दमध्याद; राहुं विदार्येव सहस्ररश्मिः

19 लब्ध्वा तु संज्ञां च कुरुप्रवीरः; पार्थं समीक्ष्याथ महेन्द्रकल्पम
रणाद विमुक्तं सथितम एकम आजौ; स धार्तराष्ट्रस तवरितॊ बभाषे

20 अयं कथं सविद भवतां विमुक्तस; तं वै परबध्नीत यथा न मुच्येत
तम अब्रवीच छांतनवः परहस्य; कव ते गता बुद्धिर अभूत कव वीर्यम

21 शान्तिं पराश्वस्य यथा सथितॊ ऽभूर; उत्सृज्य बाणांश च धनुश च चित्रम
न तव एव बीभत्सुर अलं नृशंसं; कर्तुं न पापे ऽसय मनॊ निविष्टम

22 तरैलॊक्यहेतॊर न जहेत सवधर्मं; तस्मान न सर्वे निहता रणे ऽसमिन
कषिप्रं कुरून याहि कुरुप्रवीर; विजित्य गाश च परतियातु पार्थः

23 दुर्यॊधनस तस्य तु तन निशम्य; पितामहस्यात्म हितं वचॊ ऽथ
अतीतकामॊ युधि सॊ ऽतय अमर्षी; राजा विनिःश्वस्य बभूव तूष्णीम

24 तद भीष्म वाक्यं हितम ईक्ष्य सर्वे; धनंजयाग्निं च विवर्धमानम
निवर्तनायैव मनॊ निदध्युर; दुर्यॊधनं ते परिरक्षमाणाः

25 तान परस्थितान परीतमनाः स पार्थॊ; धनंजयः परेक्ष्य कुरुप्रवीरान
आभाषमाणॊ ऽनुययौ मुहूर्तं; संपूजयंस तत्र गुरून महात्मा

26 पितामहं शांतनवं स वृद्धं; दरॊणं गुरुं च परतिपूज्य मूर्ध्ना
दरौणिं कृपं चैव गुरूंश च सर्वाञ; शरैर विचित्रैर अभिवाद्य चैव

27 दुर्यॊधनस्यॊत्तम रत्नचित्रं; चिच्छेद पार्थॊ मुकुटं शरेण
आमन्त्र्य वीरांश च तथैव मान्यान; गाण्डीवघॊषेण विनाद्य लॊकान

28 स देवदत्तं सहसा विनाद्य; विदार्य वीरॊ दविषतां मनांसि
धवजेन सर्वान अभिभूय शत्रून; स हेमजालेन विराजमानः

29 दृष्ट्वा परयातांस तु कुरून किरीटी; हृष्टॊ ऽबरवीत तत्र स मत्स्यपुत्रम
आवर्तयाश्वान पशवॊ जितास ते; याताः परे याहि पुरं परहृष्टः

अध्याय 6
अध्याय 6