अध्याय 41
1 [वै]
उत्तरं सारथिं कृत्वा शमीं कृत्वा परदक्षिणम
आयुधं सर्वम आदाय ततः परायाद धनंजयः
2 धवजं सिंहं रथात तस्माद अपनीय महारथः
परणिधाय शमी मूले परायाद उत्तरसारथिः
3 दैवीं मायां रथे युक्त्वा विहितां विश्वकर्मणा
काञ्चनं सिंहलाङ्गूलं धवजं वानरलक्षणम
4 मनसा चिन्तयाम आस परसादं पावकस्य च
स च तच चिन्तितं जञात्वा धवजे भूतान्य अचॊदयत
5 स पताकं विचित्राङ्गं सॊपासङ्गं महारथः
रथम आस्थाय बीभत्सुः कौन्तेयः शवेतवाहनः
6 बधासिः स तनुत्राणः परगृहीतशरासनः
ततः परायाद उदीचीं स कपिप्रवर केतनः
7 सवनवन्तं महाशङ्खं बलवान अरिमर्दनः
पराधमद बलम आस्थाय दविषतां लॊमहर्षणम
8 तत ते जवना धुर्या जानुभ्याम अगमन महीम
उत्तरश चापि संत्रस्तॊ रथॊपस्थ उपाविशत
9 संस्थाप्य चाश्वान कौन्तेयः समुद्यम्य च रश्मिभिः
उत्तरं च परिष्वज्य समाश्वासयद अर्जुनः
10 मा भैस तवं राजपुत्राग्र्य कषत्रियॊ ऽसि परंतप
कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि
11 शरुतास ते शङ्खशब्दाश च भेरीशब्दाश च पुष्कलाः
कुञ्जराणां च नदतां वयूढानीकेषु तिष्ठताम
12 स तवं कथम इहानेन शङ्खशब्देन भीषितः
विषण्णरूपॊ वित्रस्तः पुरुषः पराकृतॊ यथा
13 [उत्तर]
शरुता मे शङ्खशब्दाश च भेरीशब्दाश च पुष्कलाः
कुञ्जराणां च निनदा वयूढानीकेषु तिष्ठताम
14 नैवंविधः शङ्खशब्दः पुरा जातु मया शरुतः
धवजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम
धनुर अश चैव निर्घॊषः शरुतपूर्वॊ न मे कव चित
15 अस्य शङ्खस्य शब्देन धनुषॊ निस्वनेन च
रथस्य च निनादेन मनॊ मुह्यति मे भृशम
16 वयाकुलाश च दिशः सर्वा हृदयं वयथतीव मे
धवजेन पिहिताः सर्वा दिशॊ न परतिभान्ति मे
गाण्डीवस्य च शब्देन कौणौ मे बधिरी कृतौ
17 [अर्ज]
एकान्ते रथम आस्थाय पद्भ्यां तवम अवपीडय
दृढं च रश्मीन संयच्छ शङ्खं धमास्याम्य अहं पुनः
18 [वै]
तस्य शङ्खस्य शब्देन रथनेमि सवनेन च
गाण्डीवस्य च घॊषेण पृथिवीसमकम्पत
19 [दरॊण]
यथा रथस्य निर्घॊषॊ यथा शङ्ख उदीर्यते
कम्पते च यथा भूमिर नैषॊ ऽनयः सव्यसाचिनः
20 शस्त्राणि न परकाशन्ते न परहृष्यन्ति वाजिनः
अग्नयश च न भासन्ते समिद्धास तन न शॊभनम
21 परत्य आदित्यं च नः सर्वे मृगा घॊरप्रवादिनः
धवजेषु च निलीयन्ते वायसास तन न शॊभनम
शकुनाश चापसव्या नॊ वेदयन्ति महद भयम
22 गॊमायुर एष सेनाया रुवन मध्ये ऽनुधावति
अनाहतश च निष्क्रान्तॊ महद वेदयते भयम
भवतां रॊमकूपाणि परहृष्टान्य उपलक्षये
23 पराभूता च वः सेना न कश चिद यॊद्धुम इच्छति
विवर्णमुख भूयिष्ठाः सर्वे यॊघा विचेतसः
गाः संप्रस्थाप्य तिष्ठामॊ वयूढानीकाः परहारिणः