अध्याय 37
1 [वै]
तं दृष्ट्वा कलीव वेषेण रथस्थं नरपुंगवम
शमीम अभिमुखं यान्तं रथम आरॊप्य चॊत्तरम
2 भीष्मद्रॊणमुखास तत्र कुरूणां रथसत्तमाः
वित्रस्तमनसः सर्वे धनंजय कृताद भयात
3 तान अवेक्ष्य हतॊत्साहान उत्पातान अपि चाद्भुतान
गुरुः शस्त्रभृतां शरेष्ठॊ भारद्वाजॊ ऽभयभाषत
4 चलाश च वाताः संवान्ति रूक्षाः परुषनिःस्वनाः
भस्म वर्णप्रकाशेन तमसा संवृतं नभः
5 रूक्षवर्णाश च जलदा दृश्यन्ते ऽदभुतदर्शनाः
निःसरन्ति च कॊशेभ्यः षस्त्राणि विविधानि च
6 शिवाश च विनदन्त्य एता दीप्तायां दिशि दारुणाः
हयाश चाश्रूणि मुञ्चन्ति धवजाः कम्पन्त्य अकम्पिताः
7 यादृशान्य अत्र रूपाणि संदृश्यन्ते बहून्य अपि
यत्ता भवन्तस तिष्ठन्तु सयाद युद्धं समुपस्थितम
8 रक्षध्वम अपि चात्मानं वयूहध्वं वाहिनीम अपि
वैशसं च परतीक्षध्वं रक्षध्वं चापि गॊधनम
9 एष वीरॊ महेष्वासः सर्वशस्त्रभृतां वरः
आगतः कलीब वेषेण पार्थॊ नास्त्य अत्र संशयः
10 स एष पार्थॊ विक्रान्तः सव्यसाची परंतपः
नायुद्धेन निवर्तेत सर्वैर अपि मरुद्गणैः
11 कलेशितश च वने शूरॊ वासवेन च शिक्षितः
अमर्षवशम आपन्नॊ यॊत्स्यते नात्र संशयः
12 नेहास्य परतियॊद्धारम अहं पश्यामि कौरवाः
महादेवॊ ऽपि पार्थेन शरूयते युधि तॊषितः
13 [कर्ण]
सदा भवान फल्गुनस्य गुणैर अस्मान विकत्थसे
न चार्जुनः कला पूर्णा मम दुर्यॊधनस्य वा
14 [दुर]
यद्य एष पार्थॊ राधेय कृतं कार्यं भवेन मम
जञाताः पुनश चरिष्यन्ति दवादशान्यान हि वत्सरान
15 अथैष कश चिद एवान्यः कलीब वेषेण मानवः
शरैर एनं सुनिशितैः पातयिष्यामि भूतले
16 [वै]
तस्मिन बरुवति तद वाक्यं धार्तराष्ट्रे परंतपे
भीष्मॊ दरॊणः कृपॊ दरौणिः पौरुषं तद अपूजयन