अध्याय 79

महाभारत संस्कृत - उद्योगपर्व

1 [सहदेव] यद एतत कथितं राज्ञा धर्म एष सनातनः
यथा तु युद्धम एव सयात तथा कार्यम अरिंदम

2 यदि परशमम इच्छेयुः कुरवः पाण्डवैः सह
तथापि युद्धं दाशार्ह यॊजयेथाः सहैव तैः

3 कथं नु दृष्ट्वा पाञ्चालीं तथा कलिष्टां सभा गताम
अवधेन परशाम्येत मम मन्युः सुयॊधने

4 यदि भीमार्जुनौ कृष्ण धर्मराजश च धार्मिकः
धर्मम उत्सृज्य तेनाहं यॊद्धुम इच्छामि संयुगे

5 [सात्यकि] सत्यम आह महाबाहॊ सहदेवॊ महामतिः
दुर्यॊधन वधे शान्तिस तस्य कॊपस्य मे भवेत

6 जानासि हि यथादृष्ट्वा चीराजिनधरान वने
तवापि मन्युर उद्भूतॊ दुःखितान परेक्ष्य पाण्डवान

7 तस्मान माद्री सुतः शूरॊ यद आह पुरुषर्षभः
वचनं सर्वयॊधानां तन मतं पुरुषॊत्तम

8 [व] एवं वदति वाक्यं तु युयुधाने महामतौ
सुभीमः सिंहनादॊ ऽभूद यॊधानां तत्र सर्वशः

9 सर्वे हि सर्वतॊ वीरास तद वचः परत्यपूजयन
साधु साध्व इति शैनेयं हर्षयन्तॊ युयुत्सवः

अध्याय 8
अध्याय 7