अध्याय 6
1 [दरुपद]
भूतानां पराणिनः शरेष्ठाः पराणिनां बुद्धिजीविनः
बुद्धिमत्सु नराः शरेष्ठा नराणां तु दविजातयः
2 दविजेषु वैद्याः शरेयांसॊ वैद्येषु कृतबुद्धयः
स भवान कृतबुद्धीनां परधान इति मे मतिः
3 कुलेन च विशिष्टॊ ऽसि वयसा च शरुतेन च
परज्ञयानवमश चासि शुक्रेणाङ्गिरसेन च
4 विदितं चापि ते सर्वं यथावृत्थः स कौरवः
पाण्डवश च यथावृत्तः कुन्तीपुत्रॊ युधिष्ठिरः
5 धृतराष्टस्य विदिते वञ्चिताः पाण्डवाः परैः
विदुरेणानुनीतॊ ऽपि पुत्रम एवानुवर्तते
6 शकुनिर बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत
अनक्षज्ञं मताक्षः सन कषत्रवृत्ते सथितं शुचिम
7 ते तथा वञ्चयित्वा तु धर्मपुत्रं युधिष्ठिरम
न कस्यां चिद अवस्थायां राज्यं दास्यन्ति वै सवयम
8 भवांस तु धर्मसंयुक्तं धृतराष्ट्रं बरुवन वचः
मनांसि तस्य यॊधानां धरुवम आवर्तयिष्यति
9 विदुरश चापि तद वाक्यं साधयिष्यति तावकम
भीष्मद्रॊणकृपाणां च भेद्यं संजनयिष्यति
10 अमात्येषु च भिन्नेषु यॊधेषु विमुखेषु च
पुनर एकाग्रकरणं तेषां कर्म भविष्यति
11 एतस्मिन्न अन्तरे पार्थाः सुखम एकाग्रबुद्धयः
सेना कर्म करिष्यन्ति दरव्याणां चैव संचयम
12 भिद्यमानेषु च सवेषु लम्बमाने च वै तवयि
न तथा ते करिष्यन्ति सेना कर्म न संशयः
13 एतत परयॊजनं चात्र पराधान्येनॊपलभ्यते
संगत्या धृतराष्ट्रश च कुर्याद धर्म्यं वचस तव
14 स भवान धर्मयुक्तश च धर्म्यं तेषु समाचरन
कृपालुषु परिक्लेशान पाण्डवानां परकीर्तयन
15 वृद्धेषु कुलधर्मं च बरुवन पूर्वैर अनुष्ठितम
विभेत्स्यति मनांस्य एषाम इति मे नात्र संशयः
16 न च तेभ्यॊ भयं ते ऽसति बराह्मणॊ हय असि वेदवित
दूत कर्मणि युक्तश च सथविरश च विशेषतः
17 स भवान पुष्ययॊगेन मुहूर्तेन जयेन च
कौरवेयान परयात्व आशु कौन्तेयस्यार्थ सिद्धये
18 तथानुशिष्टः परययौ दरुपदेन महात्मना
पुरॊधा वृत्तसंपन्नॊ नगरं नागसाह्वयम