अध्याय 40

महाभारत संस्कृत - उद्योगपर्व

1 [वि] यॊ ऽभयर्थितः सद्भिर असज्जमानः; करॊत्य अर्थं शक्तिम अहापयित्वा
कषिप्रं यशस तं समुपैति सन्तम अलं; परसन्ना हि सुखाय सन्तः

2 महान्तम अप्य अर्थम अधर्मयुक्तं; यः संत्यजत्य अनुपाक्रुष्ट एव
सुखं स दुःखान्य अवमुच्य शेते; जीर्णां तवचं सर्प इवावमुच्य

3 अनृतं च समुत्कर्षे राजगामि च पैशुनम
गुरॊश चालीक निर्बन्धः समानि बरह्महत्यया

4 असूयैक पदं मृत्युर अतिवादः शरियॊ वधः
अशुश्रूषा तवरा शलाघा विद्यायाः शत्रवस तरयः

5 सुखार्थिनः कुतॊ विद्या नास्ति विद्यार्थिनः सुखम
सुखार्थी वा तयजेद विद्यां विद्यार्थी वा सुखं तयजेत

6 नाग्निस तृप्यति काष्ठानां नापगानां महॊदधिः
नान्तकः सर्वभूतानां न पुंसां वामलॊचना

7 आशा धृतिं हन्ति समृद्धिम अन्तकः; करॊधः शरियं हन्ति यशः कदर्यता
अपालनं हन्ति पशूंश च राजन्न; एकः करुद्धॊ बराह्मणॊ हन्ति राष्ट्रम

8 अजश च कांस्यं च रथश च नित्यं; मध्व आकर्षः शकुनिः शरॊत्रियश च
वृद्धॊ जञातिर अवसन्नॊ वयस्य; एतानि ते सन्तु गृहे सदैव

9 अजॊक्षा चन्दनं वीणा आदर्शॊ मधुसर्पिषी
विषम औदुम्बरं शङ्खः सवर्णं नाभिश च रॊचना

10 गृहे सथापयितव्यानि धन्यानि मनुर अब्रवीत
देव बराह्मण पूजार्थम अतिथीनां च भारत

11 इदं च तवां सर्वपरं बरवीमि; पुण्यं पदं तात महाविशिष्टम
न जातु कामान न भयान न लॊभाद; धर्मं तयजेज जीवितस्यापि हेतॊः

12 नित्यॊ धर्मः सुखदुःखे तव अनित्ये; नित्यॊ जीवॊ धातुर अस्य तव अनित्यः
तयक्त्वानित्यं परतितिष्ठस्व नित्ये; संतुष्य तवं तॊष परॊ हि लाभः

13 महाबलान पश्य मनानुभावान; परशास्य भूमिं धनधान्य पूर्णाम
राज्यानि हित्वा विपुलांश च भॊगान; गतान नरेन्द्रान वशम अन्तकस्य

14 मृतं पुत्रं दुःखपुष्टं मनुष्या; उत्क्षिप्य राजन सवगृहान निर्हरन्ति
तं मुक्तकेशाः करुणं रुदन्तश; चितामध्ये काष्ठम इव कषिपन्ति

15 अन्यॊ धनं परेतगतस्य भुङ्क्ते; वयांसि चाग्निश च शरीरधातून
दवाभ्याम अयं सह गच्छत्य अमुत्र; पुण्येन पापेन च वेष्ट्यमानः

16 उत्सृज्य विनिवर्तन्ते जञातयः सुहृदः सुताः
अग्नौ परास्तं तु पुरुषं कर्मान्वेति सवयं कृतम

17 अस्माल लॊकाद ऊर्ध्वम अमुष्य चाधॊ; महत तमस तिष्ठति हय अन्धकारम
तद वै महामॊहनम इन्द्रियाणां; बुध्यस्व मा तवां परलभेत राजन

18 इदं वचः शक्ष्यसि चेद यथावन; निशम्य सर्वं परतिपत्तुम एवम
यशः परं पराप्स्यसि जीवलॊके; भयं न चामुत्र न चेह ते ऽसति

19 आत्मा नदी भारत पुण्यतीर्था; सत्यॊदका धृतिकूला दमॊर्मिः
तस्यां सनातः पूयते पुण्यकर्मा; पुण्यॊ हय आत्मा नित्यम अम्भॊ ऽमभ एव

20 कामक्रॊधग्राहवतीं पञ्चेन्द्रिय जलां नदीम
कृत्वा धृतिमयीं नावं जन्म दुर्गाणि संतर

21 परज्ञा वृद्धं धर्मवृद्धं सवबन्धुं; विद्या वृद्धं वयसा चापि वृद्धम
कार्याकार्ये पूजयित्वा परसाद्य; यः संपृच्छेन न स मुह्येत कदा चित

22 धृत्या शिश्नॊदरं रक्षेत पाणिपादं च चक्षुषा
चक्षुः शरॊत्रे च मनसा मनॊ वाचं च कर्मणा

23 नित्यॊदकी नित्ययज्ञॊपवीती; नित्यस्वाध्यायी पतितान्न वर्जी
ऋतं बरुवन गुरवे कर्म कुर्वन; न बराह्मणश चयवते बरह्मलॊकात

24 अधीत्य वेदान परिसंस्तीर्य चाग्नीन; इष्ट्वा यज्ञैः पालयित्वा परजाश च
गॊब्राह्मणार्थे शस्त्रपूतान्तर आत्मा; हतः संग्रामे कषत्रियः सवर्गम एति

25 वैश्यॊ ऽधीत्य बराह्मणान कषत्रियांश च; धनैः काले संविभज्याश्रितांश च
तरेता पूतं धूमम आघ्राय पुण्यं; परेत्य सवर्गे देव सुखानि भुङ्क्ते

26 बरह्मक्षत्रं वैश्य वर्णं च शूद्रः; करमेणैतान नयायतः पूजयानः
तुष्टेष्व एतेष्व अव्यथॊ दग्धपापस; तयक्त्वा देहं सवर्गसुखानि भुङ्क्ते

27 चातुर्वर्ण्यस्यैष धर्मस तवॊक्तॊ; हेतुं चात्र बरुवतॊ मे निबॊध
कषात्राद धर्माद धीयते पाण्डुपुत्रस; तं तवं राजन राजधर्मे नियुङ्क्ष्व

28 एवम एतद यथा मां तवम अनुशासति नित्यदा
ममापि च मतिः सौम्य भवत्य एवं यथात्थ माम

29 सा तु बुद्दिः कृताप्य एवं पाण्डवान रप्ति मे सदा
दुर्यॊधनं समासाद्य पुनर विपरिवर्तते

30 न दिष्टम अभ्यतिक्रान्तुं शक्यं मर्त्येन केन चित
दिष्टम एव कृतं मन्ये पौरुषं तु निरर्थकम

अध्याय 4
अध्याय 3