अध्याय 1

महाभारत संस्कृत - स्त्रीपर्व

1 [ज] हते दुर्यॊधने चैव हते सैन्ये च सर्वशः
धृतराष्ट्रॊ महाराजः शरुत्वा किम अकरॊन मुने

2 तथैव कौरवॊ राजा धर्मपुत्रॊ महामनाः
कृपप्रभृतयश चैव किम अकुर्वत ते तरयः

3 अश्वत्थाम्नः शरुतं कर्म शापश चान्यॊन्य कारितः
वृत्तान्तम उत्तरं बरूहि यद अभाषत संजयः

4 [व] हते पुत्रशते दीनं छिन्नशाखम इव दरुमम
पुत्रशॊकाभिसंतप्तं धृतराष्ट्रं महीपतिम

5 धयानमूकत्वम आपन्नं चिन्तया समभिप्लुतम
अभिगम्य महाप्राज्ञः संजयॊ वाक्यम अब्रवीत

6 किं शॊचसि महाराज नास्ति शॊके सहायता
अक्षौहिण्यॊ हताश चाष्टौ दश चैव विशां पते
निर्जनेयं वसुमती शून्या संप्रति केवला

7 नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः
सहितास तव पुत्रेण सर्वे वै निधनं गताः

8 पितॄणां पुत्रपौत्राणां जञातीनां सुहृदां तथा
गुरूणां चानुपूर्व्येण परेतकार्याणि कारय

9 [व] तच छरुत्वा करुणं वाक्यं पुत्रपौत्र वधार्दितः
पपात भुवि दुर्धर्षॊ वाताहत इव दरुमः

10 [धृ] हतपुत्रॊ हतामात्यॊ हतसर्वसुहृज जनः
दुःखं नूनं भविष्यामि विचरन पृथिवीम इमाम

11 किं नु बन्धुविहीनस्य जीवितेन ममाद्य वै
लूनपक्षस्य इव मे जरा जीर्णस्य पक्षिणः

12 हृतराज्यॊ हतसुहृद धतचक्षुश च वै तथा
न भराजिष्ये महाप्राज्ञ कषीणरश्मिर इवांशुमान

13 न कृतं सुहृदॊ वाक्यं जामदग्न्यस्य जल्पतः
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च

14 सभामध्ये तु कृष्णेन यच छरेयॊ ऽभिहितं मम
अलं वैरेण ते राजन पुत्रः संगृह्यताम इति

15 तच च वाक्यम अकृत्वाहं भृशं तप्यामि दुर्मतिः
न हि शरॊतास्मि भीष्मस्य धर्मयुक्तं परभाषितम

16 दुर्यॊधनस्य च तथा वृषभस्येव नर्दतः
दुःशासन वधं शरुत्वा कर्णस्य च विपर्ययम
दरॊण सूर्यॊपरागं च हृदयं मे विदीर्यते

17 न समराम्य आत्मनः किं चित पुरा संजय दुष्कृतम
यस्येदं फलम अद्येह मया मूढेन भुज्यते

18 नूनं हय अपकृतं किं चिन मया पूर्वेषु जन्मसु
येन मां दुःखभागेषु धाता कर्मसु युक्तवान

19 परिणामश च वयसः सर्वबन्धुक्षयश च मे
सुहृन मित्र विनाशश च दैवयॊगाद उपागतः
कॊ ऽनयॊ ऽसति दुःखिततरॊ मया लॊके पुमान इह

20 तन माम अद्यैव पश्यन्तु पाण्डवाः संशितव्रतम
विवृतं बरह्मलॊकस्य दीर्घम अध्वानम आस्थितम

21 [व] तस्य लालप्यमानस्य बहु शॊकं विचिन्वतः
शॊकापहं नरेन्द्रस्य संजयॊ वाक्यम अब्रवीत

22 शॊकं राजन वयपनुद शरुतास ते वेद निश्चयाः
शास्त्रागमाश च विविधा वृद्धेभ्यॊ नृपसत्तम
सृञ्जये पुत्रशॊकार्ते यद ऊचुर मुनयः पुरा

23 तथा यौवनजं दर्पम आस्थिते ते सुते नृप
न तवया सुहृदां वाक्यं बरुवताम अवधारितम
सवार्थश च न कृतः कश चिल लुब्धेन फलगृद्धिना

24 तव दुःशासनॊ मन्त्री राधेयश च दुरात्मवान
शकुनिश चैव दुष्टात्मा चित्रसेनश च दुर्मतिः
शल्यश च येन वै सर्वं शल्य भूतं कृतं जगत

25 कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च
न कृतं वचनं तेन तव पुत्रेण भारत

26 न धर्मः सत्कृतः कश चिन नित्यं युद्धम इति बरुवन
कषपिताः कषत्रियाः सर्वे शत्रूणां वर्धितं यशः

27 मध्यस्थॊ हि तवम अप्य आसीर न कषमं किं चिद उक्तवान
धूर धरेण तवया भारस तुलया न समं धृतः

28 आदाव एव मनुष्येण वर्तितव्यं यथा कषमम
यथा नातीतम अर्थं वै पश्चात तापेन युज्यते

29 पुत्रगृद्ध्या तवया राजन परियं तस्य चिकीर्षता
पश्चात तापम इदं पराप्तं न तवं शॊचितुम अर्हसि

30 मधु यः केवलं दृष्ट्वा परपातं नानुपश्यति
स भरष्टॊ मधु लॊभेन शॊचत्य एव यथा भवान

31 अर्थान न शॊचन पराप्नॊति न शॊचन विन्दते सुखम
न शॊचञ शरियम आप्नॊति न शॊचन विन्दते परम

32 सवयम उत्पादयित्वाग्निं वस्त्रेण परिवेष्टयेत
दह्यमानॊ मनस्तापं भजते न स पण्डितः

33 तवयैव स सुतेनायं वाक्यवायुसमीरितः
लॊभाज्येन च संसिक्तॊ जवलितः पार्थ पावकः

34 तस्मिन समिद्धे पतिताः शलभा इव ते सुताः
तान केशवार्चिर निर्दग्धान न तवं शॊचितुम अर्हसि

35 यच चाश्रुपात कलिलं वदनं वहसे नृप
अशास्त्रदृष्टम एतद धि न परशंसन्ति पण्डिताः

36 विस्फुलिङ्गा इव हय एतान दहन्ति किल मानवान
जहीहि मन्युं बुद्ध्या वै धारयात्मानम आत्मना

37 एवम आश्वासितस तेन संजयेन महात्मना
विदुरॊ भूय एवाह बुद्धिपूर्वं परंतप

अध्याय 2