अध्याय 351
1 [सूर्य]
नैष देवॊ ऽनिलसखॊ नासुरॊ न च पन्नगः
उञ्छवृत्ति वरते सिद्धॊ मुनिर एष दिवं गतः
2 एष मूलफलाहारः शीर्णपर्णाशनस तथा
अब्भक्षॊ वायुभक्षश च आसीद विप्रः समाहितः
3 ऋचश चानेन विप्रेण संहितान्तर अभिष्टुताः
सवर्गद्वार कृतॊद्यॊगॊ येनासौ तरिदिवं गतः
4 असन्न धीरनाकाङ्क्षी नित्यम उञ्छशिलाशनः
सर्वभूतहिते युक्त एष विप्रॊ भुजंगम
5 न हि देवा न गन्धर्वा नासुरा न च पन्नगाः
परभवन्तीह भूतानां पराप्तानां परमां गतिम
6 [नाग]
एतद एवंविधं दृष्टम आश्चर्यं तत्र मे दविज
संसिद्धॊ मानुषः कायॊ यॊ ऽसौ सिद्धगतिं गतः
सूर्येण सहितॊ बरह्मन पृथिवीं परिवर्तते