अध्याय 318

महाभारत संस्कृत - शांतिपर्व

1 [नारद] सुखदुःखविपर्यासॊ यदा समुपपद्यते
नैनं परज्ञा सुनीतं वा तरायते नापि पौरुषम

2 सवभावाद यत्नम आतिष्ठेद यत्नवान नावसीदति
जरामरणरॊगेभ्यः परियम आत्मानम उद्धरेत

3 रुजन्ति हि शरीराणि रॊगाः शारीर मानसाः
सायका इव तीक्ष्णाग्राः परयुक्ता दृध धन्विभिः

4 वयाधितस्य विवित्साभिस तरस्यतॊ जीवितैषिणः
अवशस्य विनाशाय शरीरम अपकृष्यते

5 सरवन्ति न निवर्तन्ते सरॊतांसि सरिताम इव
आयुर आदाय मर्त्यानां रात्र्यहानि पुनः पुनः

6 वयत्ययॊ हय अयम अत्यन्तं पक्षयॊः शुक्लकृष्णयॊः
जातं मर्त्यं जरयति निमेषं नावतिष्ठते

7 सुखदुःखानि भूतानाम अजरॊ जरयन्न असौ
आदित्यॊ हय अस्तम अभ्येति पुनः पुनर उदेति च

8 अदृष्टपूर्वान आदाय भावान अपरिशङ्कितान
इष्टानिष्टान मनुष्याणाम अस्तं गच्छन्ति रात्रयः

9 यॊ यम इच्छेद यथाकामं कामानां तत तद आप्नुयात
यदि सयान न पराधीनं पुरुषस्य करियाफलम

10 संयताश च हि दक्षाश च मतिमन्तश च मानवाः
दृश्यते निष्फलाः सन्तः परहीनाश च सवकर्मभिः

11 अपरे बालिशाः सन्तॊ निर्गुणाः पुरुषाधमाः
आशीर्भिर अप्य असंयुक्ता दृश्यन्ते सर्वकामिनः

12 भूतानाम अपरः कश चिद धिंसायां सततॊत्थितः
वञ्चनायां च लॊकस्य स सुखेष्व एव जीर्यते

13 अचेष्टमानम आसीनं शरीः कं चिद उपतिष्ठति
कश चित कर्मानुसृत्यान्यॊ न पराप्यम अधिगच्छति

14 अपराधं समाचक्ष्व पुरुषस्य सवभावतः
शुक्रम अन्यत्र संभूतं पुनर अन्यत्र गच्छति

15 तस्य यॊनौ परसक्तस्य गर्भॊ भवति वा न वा
आम्रपुष्पॊपमा यस्य निवृत्तिर उपलभ्यते

16 केषां चित पुत्र कामानाम अनुसंतानम इच्छताम
सिद्धौ परयतमानानां नैवान्दम उपजायते

17 गर्भाच चॊद्विजमानानां करुद्धाद आशीविषाद इव
आयुष्माञ जायते पुत्रः कथं परेतः पितैव सः

18 देवान इष्ट्वा तपस तप्त्वा कृपणैः पुत्रगृद्धिभिः
दश मासान परिधृता जायन्ते कुलपांसनाः

19 अपरे धनधान्यानि भॊगांश च पितृसंचितान
विपुलान अभिजायन्ते लब्धास तैर एव मङ्गलैः

20 अन्यॊन्यं समभिप्रेत्य मैथुनस्य समागमे
उपद्रव इवाविष्टॊ यॊनिं गर्भः परपद्यते

21 शीर्णं परशरीरेण निच्छवीकं शरीरिणम
परानिनां पराण संरॊधे मांसश्लेष्म विचेष्टितम

22 निर्दग्धं परदेहेन परदेहं चलाचलम
विनश्यन्तं विनाशान्ते नावि नावम इवाहितम

23 संगत्या जथरे नयस्तं रेतॊ बिन्दुम अचेतनम
केन यत्नेन जीवन्तं गर्भं तवम इह पश्यसि

24 अन्नपानानि जीर्यन्ते यत्र भक्षाश च भक्षिताः
तस्मिन्न एवॊदरे गर्भः किं नान्नम इव जीर्यते

25 गर्भमूत्र पुरीसानां सवभावनियता गतिः
धारणे वा विसर्गे वा न कर्तुर विद्यते वशः

26 सरवन्ति हय उदराद गर्भा जायमानास तथापरे
आगमेन सहान्येषां विनाश उपपद्यते

27 एतस्माद यॊनिसंबन्धाद यॊ जीवन परिमुच्यते
परजां च लभते कां चित पुनर दवन्द्वेषु मज्जति

28 शतस्य सह जातस्य सप्तमीं दशमीं दशाम
पराप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः

29 नाभ्युत्थाने मनुष्याणां यॊगाः सयुर नात्र संशयः
वयाधिभिश च विमथ्यन्ते वयालैः कषुद्रमृगा इव

30 वयाधिभिर भक्ष्यमाणानां तयजतां विपुलं धनम
वेदनां नापकर्षन्ति यतमानाश चिकित्सकाः

31 ते चापि निपुना वैद्याः कुशलाः संभृतौषधाः
वयाधिभिः परिकृष्यन्ते मृगा वयाधैर इवार्दिताः

32 ते पिबन्तः कसायांश च सर्पींसि विविधानि च
दृश्यन्ते जरया भग्ना नागा नागैर इवॊत्तमैः

33 के वा भुवि चिकित्सन्ते रॊगार्तान मृगपक्षिणः
शवापदानि दरिद्रांश च परायॊ नार्ता भवन्ति ते

34 घॊरान अपि दुराधर्षान नृपतीन उग्रतेजसः
आक्रम्य रॊग आदत्ते पशून पशुपचॊ यथा

35 इति लॊकम अनाक्रन्दं मॊहशॊकपरिप्लुतम
सरॊतसा सहसा कषिप्तं करियमाणं बलीयसा

36 न धनेन न राज्येन नॊग्रेण तपसा तथा
सवभावा वयतिवर्तन्ते ये नियुक्ताः शरीरिषु

37 न मरियेरन न जीर्येरन सर्वे सयुः सर्वकामिकाः
नाप्रियं परतिपश्येयुर उत्थानस्य फलं परति

38 उपर्य उपरि लॊकस्य सर्वॊ भवितुम इच्छति
यतते च यथाशक्ति न च तद वर्तते तथा

39 ऐश्वर्यमदमत्तांश च मत्तान मद्य मदेन च
अप्रमत्ताः शठाः करूरा विक्रान्ताः पर्युपासते

40 कलेशाः परतिनिवर्तन्ते केषां चिद असमीक्षिताः
सवं सवं च पुनर अन्येषां न किं चिद अभिगम्यते

41 महच च फलवैषम्यं दृश्यते कर्म संधिषु
वहन्ति शिबिकाम अन्ये यान्त्य अन्ये शिबिका गताः

42 सर्वेषाम ऋद्धिकामानाम अन्ये रथपुरःसराः
मनुजाश च शतस्त्रीकाः शतशॊ विधवाः सत्रियः

43 दवन्द्वारामेषु भूतेषु गच्छन्त्य एकैकशॊ नराः
इदम अन्यत परं पश्य मात्रमॊहं करिष्यसि

44 तयज धर्मम अधर्मं च उभे सत्यानृते तयज
उभे सत्यानृते तयक्त्वा येन तयजसि तं तयज

45 एतत ते परमं गुह्यम आख्यातम ऋषिसत्तम
येन देवाः परित्यज्य मर्त्यलॊकं दिवं गताः

46 [भी] नारदस्य वचः शरुत्वा शुकः परमबुद्धिमान
संचिन्त्य मनसा धीरॊ निश्चयं नाध्यगच्छत

47 पुत्रदारैर महान कलेशॊ विद्याम्नाये महाञ शरमः
किं नु सयाच छाश्वतं सथानम अल्पक्लेशं महॊदरम

48 ततॊ मुहूर्तं संचिन्त्य निश्चितां गतिम आत्मनः
परावपज्ञॊ धर्मस्य परां नैःश्रेयसीं गतिम

49 कथं तव अहम असंक्लिष्टॊ गच्छेयं परमां गतिम
नावर्तेयं यथा भूयॊ यॊनिसंसारसागरे

50 परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः
सर्वसङ्गान परित्यज्य निश्चितां मनसॊ गतिम

51 तत्र यास्यामि यत्रात्मा शमं मे ऽधिगमिष्यति
अक्षयश चाव्ययश चैव यत्र सथास्यामि शाश्वतः

52 न तु यॊगम ऋते शक्या पराप्तुं सा परमा गतिः
अवबन्धॊ हि मुक्तस्य कर्मभिर नॊपपद्यते

53 तस्माद यॊगं समास्थाय तयक्त्वा गृहकलेवरम
वायुभूतः परवेक्ष्यामि तेजॊराशिं दिवाकरम

54 न हय एष कषयम आप्नॊति सॊमः सुरगणैर यथा
कम्पितः पतते भूमिं पुनश चैवाधिरॊहति
कषीयते हि सदा सॊमः पुनश चैवाभिपूर्यते

55 रविस तु संतापयति लॊकान रश्मिभिर उल्बनैः
सर्वतस तेज आदत्ते नित्यम अक्षय मन्दलः

56 अतॊ मे रॊचते गन्तुम आदित्यं दीप्ततेजसम
अत्र वत्स्यामि दुर्धर्षॊ निःसङ्गेनान्तरात्मना

57 सूर्यस्य सदने चाहं निक्षिप्येदं कलेवरम
ऋषिभिः सह यास्यामि सौरं तेजॊ ऽतिदुःसहम

58 आपृच्छामि नगान नागान गिरीन उर्वीं दिशॊ दिवम
देवदानवगन्धर्वान पिशाचॊरगराक्षसान

59 लॊकेषु सर्वभूतानि परवेक्ष्यामि न संशयः
पश्यन्तु यॊगवीर्यं मे सर्वे देवाः सहर्षिभिः

60 अथानुज्ञाप्य तम ऋषिं नारदं लॊकविश्रुतम
तस्माद अनुज्ञां संप्राप्य जगाम पितरं परति

61 सॊ ऽभिवाद्य महात्मानम ऋषिं दवैपायनं मुनिम
शुकः परदक्षिणीकृत्य कृष्णम आपृष्टवान मुनिः

62 शरुत्वा ऋषिस तद वचनं शुकस्य; परीतॊ महात्मा पुनर आह चैनम
भॊ भॊः पुत्र सथीयतां तावद अद्य; यावच चक्षुः परीणयामि तवदर्थम

63 निरपेक्षः शुकॊ भूत्वा निःस्नेहॊ मुक्तबन्धनः
मॊक्षम एवानुसंचिन्त्य गमनाय मनॊ दधे
पितरं संपरित्यज्य जगाम दविजसत्तमः

अध्याय 3
अध्याय 3