अध्याय 307

महाभारत संस्कृत - शांतिपर्व

1 [य] ऐश्वर्यं वा महत पराप्य धनं वा भरतर्षभ
दीर्घम आयुर अवाप्याथ कथं मृत्युम अतिक्रमेत

2 तपसा वा सुमहता कर्मणा वा शरुतेन वा
रसायन परयॊगैर वा कैर नॊपैति जरान्तकौ

3 [भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
भिक्षॊः पञ्चशिखस्येह संवादं जनकस्य च

4 वैदेहॊ जनकॊ राजा महर्षिं वेद वित्तमम
पर्यपृच्छत पञ्चशिखं छिन्नधर्मार्थसंशयम

5 केन वृत्तेन भगवन्न अतिक्रामेज जरान्तकौ
तपसा वाथ बुद्ध्या वा कर्मणा वा शरुतेन वा

6 एवम उक्तः स वैदेहं परत्युवाच परॊक्षवित
निवृत्तिर नैतयॊर अस्ति नानिवृत्तिः कथं चन

7 न हय अहानि निवर्तन्ते न मासा न पुनः कषपाः
सॊ ऽयं परपद्यते ऽधवानं चिराय धरुवम अध्रुवः

8 सर्वभूतसमुच्छेदः सरॊतसेवॊह्यते सदा
उह्यमानं निमज्जन्तम अप्लवे कालसागरे
जरामृत्युमहाग्राहे न कश चिद अभिपद्यते

9 नैवास्य भविता कश चिन नासौ भवति कस्य चित
पथि संगतम एवेदं दारैर अन्यैश च बन्धुभिः
नायम अत्यन्तसंवासॊ लब्धपूर्वॊ हि केन चित

10 कषिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः
कालेन जाता जाता हि वायुनेवाभ्र संचयाः

11 जरा मृयू हि भूतानां खादितारौ वृकाव इव
बलिनां दुर्बलानां च हरस्वानां महताम अपि

12 एवं भूतेषु भूतेषु नित्यभूताध्रुवेषु च
कथं हृष्येत जातेषु मृतेषु च कथं जवरेत

13 कुतॊ ऽहम आगतः कॊ ऽसमि कव गमिष्यामि कस्य वा
कस्मिन सथितः कव भविता कस्मात किम अनुशॊचसि

14 दरष्टा सवर्गस्य न हय अस्ति तथैव नरकस्य च
आगमांस तव अनतिक्रम्य दद्याच चैव यजेत च

अध्याय 3
अध्याय 3