अध्याय 265
1 [य]
कथं भवति पापात्मा कथं धर्मं करॊति वा
केन निर्वेदम आदत्ते मॊक्षं वा केन गच्छति
2 [भी]
विदिताः सर्वधर्मास ते सथित्य अर्थम अनुपृच्छसि
शृणु मॊक्षं सनिर्वेदं पापं धर्मं च मूलतः
3 विज्ञानार्थं हि पञ्चानाम इच्छा पूर्वं परवर्तते
पराप्य ताञ जायते कामॊ दवेषॊ वा भरतर्षभ
4 ततस तदर्थं यतते कर्म चारभते पुनः
इष्टानां रूपगन्धानाम अभ्यासं च चिकीर्षति
5 ततॊ रागः परभवति दवेषश च तदनन्तरम
ततॊ लॊभः परभवति मॊहश च तदनन्तरम
6 लॊभमॊहाभिभूतस्य रागद्वेषान्वितस्य च
न धर्मे जायते बुद्धिर वयाजाद धर्मं करॊति च
7 वयाजेन चरतॊ धर्मम अर्थव्याजॊ ऽपि रॊचते
वयाजेन सिध्यमानेषु धनेषु कुरुनन्दन
8 तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति
सुहृद्भिर वार्यमाणॊ ऽपि पण्डितैश चापि भारत
9 उत्तरं नयायसंबद्धं बरवीति विधियॊजितम
अधर्मस तरिविधस तस्य वर्धते रागमॊहजः
10 पापं चिन्तयते चैव परब्रवीति करॊति च
तस्याधर्मप्रवृत्तस्य दॊषान पश्यन्ति साधवः
11 एकशीलाश च मित्रत्वं भजन्ते पापकर्मिणः
स नेह सुखम आप्नॊति कुत एव परत्र वै
12 एवं भवति पापात्मा धर्मात्मानं तु मे शृणु
यथा कुशलधर्मा स कुशलं परतिपद्यते
13 य एतान परज्ञया दॊषान पूर्वम एवानुपश्यति
कुशलः सुखदुःखानां साधूंश चाप्य उपसेवते
14 तस्य साधु समाचाराद अभ्यासाच चैव वर्धते
परज्ञा धर्मे च रमते धर्मं चैवॊपजीवति
15 सॊ ऽथ धर्माद अवाप्तेषु धनेषु कुरुते मनः
तस्यैव सिञ्चते मूलं गुणान पश्यति यत्र वै
16 धर्मात्मा भवति हय एवं मित्रं च लभते शुभम
स मित्र धनलाभात तु परेत्य चेह च नन्दति
17 शब्दे सपर्शे तथारूपे रसे गन्धे च भारत
परभुत्वं लभते जन्तुर धर्मस्यैतत फलं विदुः
18 स धर्मस्य फलं लब्ध्वा न तृप्यति युधिष्ठिर
अतृप्यमाणॊ निर्वेदम आदत्ते जञानचक्षुषा
19 परज्ञा चक्षुर यदा कामे दॊषम एवानुपश्यति
विरज्यते तदा कामान न च धर्मं विमुञ्चति
20 सर्वत्यागे च यतते दृष्ट्वा लॊकं कषयात्मकम
ततॊ मॊक्षाय यतते नानुपायाद उपायतः
21 शनैर निर्वेदम आदत्ते पापं कर्म जहाति च
धर्मात्मा चैव भवति मॊक्षं च लभते परम
22 एतत ते कथितं तात यन मां तवं परिपृच्छसि
पापं धर्मं तथा मॊक्षं निर्वेदं चैव भारत
23 तस्माद धर्मे परवर्तेथाः सर्वावस्थं युधिष्ठिर
धर्मे सथितानां कौन्तेय सिद्धिर भवति शाश्वती