अध्याय 214
1 [य]
दविजातयॊ वरतॊपेता यद इदं भुञ्जते हविः
अन्नं बराह्मण कामाय कथम एतत पितामह
2 [भी]
अवेदॊक्त वरतॊपेता भुञ्जानाः कार्यकारिणः
वेदॊक्तेषु च भुञ्जाना वरतलुप्ता युधिष्ठिर
3 [य]
यद इदं तप इत्य आहुर उपवासं पृथग्जनाः
एतत तपॊ महाराज उताहॊ किं तपॊ भवेत
4 [भी]
मासपक्षॊपवासेन मन्यन्ते यत तपॊ जनाः
आत्मतन्त्रॊपघातः स न तपस तत सतां मतम
तयागश च सन्नतिश चैव शिष्यते तप उत्तमम
5 सदॊपवासी च भवेद बरह्मचारी सदैव च
मुनिश च सयात सदा विप्रॊ दैवतं च सदा भजेत
6 कुतुम्बिकॊ धर्मकामः सदा सवप्नश च भारत
अमांसाशी सदा च सयात पवित्रं च सदा जपेत
7 अमृताशी सदा च सयान न च सयाद विषभॊजनः
विघसाशी सदा च सयात सदा चैवातिथि परियः
8 [य]
कथं सदॊपवासी सयाद बरह्मचारी कथं भवेत
विघसाशी कथं च सयात सदा चैवातिथि परियः
9 [भी]
अन्तरा परातर आशं च सायम आशं तथैव च
सदॊपवासी च भवेद यॊ न भुङ्क्ते कथं चन
10 भार्यां गच्छन बरह्मचारी ऋतौ भवति बराह्मणः
ऋतवादी सदा च सयाज जञाननित्यश च यॊ नरः
11 अभक्षयन वृथा मांसम अमांसाशी भवत्य उत
दाननित्यः पवित्रश च अस्वप्नश च दिवा सवपन
12 भृत्यातिथिषु यॊ भुङ्क्ते भुक्तवत्सु सदा स ह
अमृतं सकलं भुङ्क्त इति विद्धि युधिष्ठिर
13 अभुक्तवत्सु नाश्नानः सततं यस तु वै दविजः
अभॊजनेन तेनास्य जितः सवर्गॊ भवत्य उत
14 देवताभ्यः पितृभ्यश च भृत्येभ्यॊ ऽतिथिभिः सह
अवशिष्टं तु यॊ ऽशनाति तम आहुर विघसासिनम
15 तेषां लॊका हय अपर्यन्ताः सदने बरह्मणा सह
उपस्थिताश चाप्सरॊभिः परियान्ति दिवौकसः
16 देवताभिश च ये सार्धं पितृभिश चॊपभुञ्जते
रमन्ते पुत्रपौत्रैश च तेषां गतिर अनुत्तमा