अध्याय 192
1 [य]
कालमृत्युयमानां च बराह्मणस्य च सत्तम
विवादॊ वयाहृतः पूर्वं तद भवान वक्तुम अर्हति
2 [भी]
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
इक्ष्वाकॊः सूर्यपुत्रस्य यद्वृत्तं बराह्मणस्य च
3 कालस्य मृत्यॊश च तथा यद्वृत्तं तन निबॊध मे
यथा स तेषां संवादॊ यस्मिन सथाने ऽपि चाभवत
4 बराह्मणॊ जापकः कश चिद धर्मवृत्तॊ महायशाः
षडङ्गविन महाप्राज्ञः पैप्पलादिः स कौशिकः
5 तस्यापरॊक्षं विज्ञानं षडङ्गेषु तथैव च
वेदेषु चैव निष्णातॊ हिमवत्पादसंश्रयः
6 सॊ ऽनत्यं बराह्मं तपस तेपे संहितां संयतॊ जपन
तस्य वर्षसहस्रं तु नियमेन तथागतम
7 स देव्या दर्शितः साक्षात परीतास्मीति तदा किल
जप्यम आवर्तयंस तूस्नीं न च तां किं चिद अब्रवीत
8 तस्यानुकम्पया देवी परीता समभवत तदा
वेद माता ततस तस्य तज जप्यं समपूजयत
9 समाप्तजप्यस तूत्थाय शिरसा पादयॊस तथा
पपात देव्या धर्मात्मा वचनं चेदम अब्रवीत
10 दिष्ट्या देवि परसन्ना तवं दर्शनं चागता मम
यदि वापि परसन्नासि जप्ये मे रमतां मनः
11 [सावित्री]
किं परार्थयसि विप्रर्षे किं चेष्टं करवाणि ते
परब्रूहि जपतां शरेष्ठ सर्वं तत ते भविष्यति
12 [भी]
इत्य उक्तः स तदा देव्या विप्रः परॊवाच धर्मवित
जप्यं परति ममेच्छेयं वर्धत्व इति पुनः पुनः
13 मनसश चसमाधिर मे वर्धेताहर अहः शुभे
तत तथेति ततॊ देवी मधुरं परत्यभासत
14 इदं चैवापरं पराह देवी तत्प्रियकाम्यया
निरयं नैव यातासि यत्र याता दविजर्षभाः
15 यास्यसि बरह्मणः सथानम अनिमित्तम अनिन्दितम
साधये भविता चैतद यत तवयाहम इहार्थिता
16 नियतॊ जप चैकाग्रॊ धर्मस तवां समुपैष्यति
कालॊ मृत्युर यमश चैव समायास्यन्ति ते ऽनतिकम
भविता च विवादॊ ऽतर तव तेषां च धर्मतः
17 एवम उक्त्वा घवगती जगाम भवनं सवकम
बराह्मणॊ ऽपि जपन्न आस्ते दिव्यं वर्षशतं तदा
18 समाप्ते नियमे तस्मिन्न अथ विप्रस्य धीमतः
साक्षात परीतस तदा धर्मॊ दर्शयाम आस तं दविजम
19 [धर्म]
दविजाते पश्य मां धर्मम अहं तवां दरष्टुम आगतः
जप्यस्य च फलं यत ते संप्राप्तं तच च मे शृणु
20 जिता लॊकास तवया सर्वे ये दिव्या ये च मानुषाः
देवानां निरयान साधॊ सर्वान उत्क्रम्य यास्यसि
21 पराण तयागं कुरु मुने गच्छ लॊकान यथेप्सितान
तयक्त्वात्मनः शरीरं च ततॊ लॊकान अवाप्स्यसि
22 [बराह्मण]
कृतं लॊकैर हि मे धर्मगच्छ च तवं यथासुखम
बहुदुःखसुखं देहं नॊत्सृजेयम अहं विभॊ
23 [धर्म]
अवश्यं भॊः शरीरं ते तयक्तव्यं मुनिपुंगव
सवर्ग आरॊह्यतां विप्र किं वा ते रॊचते ऽनघ
24 [बराह्मण]
न रॊचये सवर्गवसं विना देहाद अहं विभॊ
गच्छ धर्मन मे शरद्धा सवर्गं गन्तुं विनात्मना
25 [धर्म]
अलं देहे मनः कृत्वा तयक्त्वा देहं सुखी भव
गच्छ लॊकान अरजसॊ यत्र गत्वा न शॊचति
26 [बराह्मण]
रमे जपन महाभाग कृतं लॊकैः सनातनैः
सशरीरेण गन्तव्यॊ मया सवर्गॊ न वा विभॊ
27 [धर्म]
यदि तवं नेच्छसि तयक्तुं शरीरं पश्य व दविज
एष कालस तथा मृत्युर यमश च तवाम उपागताः
28 [भीस्म]
अथ वैवस्वतः कालॊ मृत्युश च तरितयं विभॊ
बराह्मणं तं महाभागम उपागम्येदम अब्रुवन
29 तपसॊ ऽसय सुतप्तस्य तथा सुचरितस्य च
फलप्राप्तिस तव शरेष्ठा यमॊ ऽहं तवाम उपब्रुवे
30 यथावद अस्य जप्यस्य फलं पराप्तस तवम उत्तमम
कालस ते सवर्गम आरॊधुं कालॊ ऽहं तवाम उपागतः
31 मृत्युं मा विधिधर्मज्ञ रूपिणं सवयम आगतम
कालेन चॊदितं विप्र तवाम इतॊ नेतुम अद्य वै
32 [बराह्मण]
सवागतं सूर्यपुत्राय कालाय च महात्मने
मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः
33 [भी]
अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस तत्र समागमे
अब्रवीत परमप्रीतः सवशक्त्या किं करॊमि वः
34 तस्मिन्न एवाथ काले तु तीर्थयात्राम उपागतः
इक्ष्वाकुर अगमत तत्र समेता यत्र ते विभॊ
35 सर्वान एव तु राजर्षिः संपूज्याभिप्रनम्य च
कुशलप्रश्नम अकरॊत सर्वेषां राजसत्तमः
36 तस्मै सॊ ऽथासनं दत्त्वा पाद्यम अर्घ्यं तथैव च
अब्रवीद बराह्मणॊ वाक्यं कृत्वा कुशलसंविदम
37 सवागतं ते महाराज बरूहि यद यद इहेच्छसि
सवशक्त्या किं करॊमीह तद भवान परब्रवीतु मे
38 [राजा]
राजाहं बराह्मणश च तवं यदि सः कर्म संस्थितः
ददामि वसु किं चित ते परार्थितं तद वदस्व मे
39 [बरा]
दविविधा बराह्मणा राजन धर्मश च दविविधः समृतः
परवृत्तश च निवृत्तश च निवृत्तॊ ऽसमि परतिग्रहात
40 तेभ्यः परयच्छ दानानि ये परवृत्ता नराधिप
अहं न परतिगृह्णामि किम इष्टं किं ददानि ते
बरूहि तवं नृपतिश्रेष्ठ तपसा साधयामि किम
41 [रा]
कषत्रियॊ ऽहं न जानामि देहीति वचनं कव चित
परयच्छ युद्धम इत्य एवं वादिनः समॊ दविजॊत्तम
42 [बरा]
तुष्यसि तवं सवधर्मेण तथा तुष्टा वयं नृप
अन्यॊन्यस्यॊत्तरं नास्ति यद इष्टं तत समाचर
43 [रा]
सवशक्त्याहं ददानीति तवया पूर्वं परभासितम
याचे तवां दियतां मह्यं जप्यस्यास्य फलं दविज
44 [बरा]
युद्धं मम सदा वाणी याचतीति विकत्थसे
न च युद्धं मया सार्धं किमर्थं याचसे पुनः
45 [रा]
वाग्वज्रा बराह्मणा परॊक्ताः कषत्रिया बाहुजीविनः
वाग युद्धं तद इदं तीव्रं मम विप्र तवया सह
46 [बरा]
सैवाद्यापि परतिज्ञा मे सवशक्त्या किं परदीयताम
बरूहि दास्यामि राजेन्द्र विभवे सति माचिरम
47 [रा]
यत तद वर्षशतं पूर्णं जप्यं वै जपता तवया
फलं पराप्तं तत परयच्छ मम दित्सुर भवान यदि
48 [बरा]
परमं गृह्यतां तस्य फलं यज जपितं मया
अर्धं तवम अविचारेण फलं तस्य समाप्नुहि
49 अथ वा सर्वम एवेह जप्यकं मामकं फलम
राजन पराप्नुहि कामं तवं यदि सर्वम इहेच्छसि
50 [रा]
कृतं सर्वेण भद्रं ते जप्यं यद याचितं मया
सवस्ति ते ऽसतु गमिष्यामि किं चतस्य फलं वद
51 [बरा]
फलप्राप्तिं न जानामि दत्तं यज जपितं मया
अयं धर्मश च कालश च यमॊ मृत्युश च साक्षिणः
52 [रा]
अज्ञातम अस्य धर्मस्य फलं मे किं करिष्यति
पराप्नॊतु तत फलं विप्रॊ नाहम इच्छे ससंशयम
53 [बरा]
नाददे ऽपरवक्तव्यं दत्तं वाचा फलं मया
वाक्यं परमानं राजर्षे ममापि तव चैव हि
54 नाभिसंधिर मया जप्ये कृतपूर्वः कथं चन
जप्यस्य राजशार्दूल कथं जञास्याम्य अहं फलम
55 ददस्वेति तवया चॊक्तं ददामीति तथा मया
न वाचं दूसयिष्यामि सत्यं रक्ष सथिरॊ भव
56 अथैवं वदतॊ मे ऽदय वचनं न करिष्यसि
महान अधर्मॊ भविता तव राजन मृषा कृतः
57 न युक्तं तु मृषा वाणी तवया वक्तुम अरिन्दम
तथा मयाप्य अभ्यधिकं मृषा वक्तुं न शक्यते
58 संश्रुतं च मया पूर्वं ददानीत्य अविचारितम
तद्गृह्णीस्वाविचारेण यदि सत्ये सथितॊ भवान
59 इहागम्य हि मां राजञ जाप्यं फलम अयाचिथाः
तन मन निसृष्टं गृह्णीस्व भव सत्ये सथिरॊ ऽपि च
60 नायं लॊकॊ ऽसति न परॊ न च पूर्वान स तारयेत
कुत एवावरान राजन मृषावादपरायनः
61 न यज्ञाध्ययने दानं नियमास तारयन्ति हि
तथा सत्यं परे लॊके यथा वै पुरुषर्षभ
62 तपांसि यानि चीर्णानि चरिष्यसि च यत तपः
समाः शतैः सहस्रैश च तत सत्यान न विशिष्यते
63 सत्यम एकाक्षरं बरह्मसत्यम एकाक्षरं तपः
सत्यम एकाक्षरॊ यज्ञः सत्यम एकाक्षरं शरुतम
64 सत्यं वेदेषु जागर्ति फलं सत्ये परं समृतम
सत्याद धर्मॊ दमश चैव सर्वं सत्ये परतिष्ठितम
65 सत्यं वेदास तथाङ्गानि सत्यं यज्ञस तथा विधिः
वरतचर्यास तथा सत्यम ओंकारः सत्यम एव च
66 परानिनां जननं सत्यं सत्यं संततिर एव च
सत्येन वायुर अभ्येति सत्येन तपते रविः
67 सत्येन चाग्निर दहति सवर्गः सत्ये परतिष्ठितः
सत्यं यज्ञस तपॊ वेदाः सतॊभा मन्त्राः सरस्वती
68 तुलाम आरॊपितॊ धर्मः सत्यं चैवेति नः शरुतम
समां कक्षां धारयतॊ यतः सत्यं ततॊ ऽधिकम
69 यतॊ धर्मस ततः सत्यं सर्वं सत्येन वर्धते
किमर्थम अनृतं कर्म कर्तुं राजंस तवम इच्छसि
70 सत्ये कुरु सथिरं भावं मा राजन्न अनृतं कृथाः
कस्मात तवम अनृतं वाक्यं देहीति कुरुषे ऽशुभम
71 यदि जप्यफलं दत्तं मया नेसिष्यसे नृप
सवधर्मेभ्यः परिभ्रष्टॊ लॊकान अनुचरिष्यसि
72 संश्रुत्य यॊ न दित्सेत याचित्वा यश च नेच्छति
उभाव आनृतिकाव एतौ न मृषा कर्तुम अर्हसि
73 [रा]
यॊद्धव्यं रक्षितव्यं च कषत्रधर्मः किल दविज
दातारः कषत्रियाः परॊक्ता गृह्णीयां भवतः कथम
74 [बरा]
न छन्दयामि ते राजन नापि ते गृहम आव्रजम
इहागम्य तु याचित्वा न गृह्णीसे पुनः कथम
75 [धर्म]
अविवादॊ ऽसतु युवयॊर वित्तं मां धर्मम आगतम
दविजॊ दानफलैर युक्तॊ राजा सत्यफलेन च
76 [सवर्ग]
सवर्गं मां विद्धि राजेन्द्र रूपिणं सवयम आगतम
अविवादॊ ऽसतु युवयॊर उभौ तुल्यफलौ युवाम
77 [रा]
कृतं सवर्गेण मे कार्यं गच्छ सवर्गयथासुखम
विप्रॊ यदीच्छते दातुं परतीच्छतु च मे धनम
78 [बरा]
बाल्ये यदि सयाद अज्ञानान मया हस्तः परसारितः
निवृत्ति लक्षणं धर्मम उपासे संहितां जपन
79 निवृत्तं मां चिरं राजन विप्रं लॊभयसे कथम
सवेन कार्यं करिष्यामि तवत्तॊ नेच्छे फलं नृप
तपःस्वाध्यय शीलॊ ऽहं निवृत्तश च परतिग्रहात
80 [रा]
यदि विप्र निसृष्टं ते जप्यस्य फलम उत्तमम
आवयॊर यत फलं किं चित सहितं नौ तद अस्त्व इह
81 दविजाः परतिग्रहे युक्ता दातारॊ राजवंशजाः
यदि धर्मः शरुतॊ विप्र सहैव फलम अस्तु नौ
82 मा वा भूत सह भॊज्यं नौ मदीयं फलम आप्नुहि
परतीच्छ मत्कृतं धर्मं यदि ते मय्य अनुग्रहः
83 [भी]
ततॊ विकृतचेष्टौ दवौ पुरुषौ समुपस्थितौ
गृहीत्वान्यॊन्यम आवेष्ट्य कुचेलाव ऊचतुर वचः
84 न मे धारयसीत्य एकॊ धारयामीति चापरः
इहास्ति नौ विवादॊ ऽयम अयं राजानुशासकः
85 सत्यं बरवीम्य अहम इदं न मे धारयते भवान
अनृतं वदसीह तवम ऋणं ते धारयाम्य अहम
86 ताव उभौ भृशसंतप्तौ राजानम इदम ऊचतुः
परीक्ष्यतां यथा सयाव नावाम इह विगर्हितौ
87 [विकृत]
धारयामि नरव्याघ्र विकृतस्येह गॊः फलम
ददतश च न गृह्णाति विकृतॊ मे महीपते
88 [विरूप]
न मे धारयते किं चिद विरूपॊ ऽयं नराधिप
मिथ्या बरवीत्य अयं हि तवा मिथ्याभासं नराधिप
89 [रा]
विरूपकिं धारयते भवान अस्य वदस्व मे
शरुत्वा तथा करिष्यामीत्य एवं मे धीयते मतिः
90 [विरूप]
शृणुष्वावहितॊ राजन यथैतद धारयाम्य अहम
विकृतस्यास्य राजर्षे निखिलेन नरर्षभ
91 अनेन धर्मप्राप्त्य अर्थं शुभा दत्ता पुरानघ
धेनुर विप्राय राजर्षे तपःस्वाध्यायशीलिने
92 तस्याश चायं मया राजन फलम अभ्येत्य याचितः
विकृतेन च मे दत्तं विशूधेनान्तरात्मना
93 ततॊ मे सुकृतं कर्मकृतम आत्मविशुद्धये
गावौ हि कपिले करीत्वा वत्सले बहु दॊहने
94 ते चॊञ्छ वृत्तये राजन मया समपवर्जिते
यथाविधि यथाश्रद्धं तद अस्याहं पुनः परभॊ
95 इहाद्य वै गृहीत्वा तत परयच्छे दविगुणं फलम
एकस्याः पुरुषव्याघ्र कः शुद्धः कॊ ऽतर दॊषवान
96 एवं विवदमानौ सवस तवाम इहाभ्यागतौ नृप
कुरु धर्मम अधर्मं वा विनये नौ समाधय
97 यदि नेच्छति मे दानं यथादत्तम अनेन वै
भवान अत्र सथिरॊ भूत्वा मार्गे सथापयतु परभुः
98 [रा]
दीयमानं न गृह्णासि ऋणं कस्मात तवम अद्य वै
यथैव ते ऽभयनुज्ञातं तथा गृह्णीस्व माचिरम
99 [विकृत]
दीयताम इत्य अनेनॊक्तं ददानीति तथा मया
नायं मे धारयत्य अत्र गम्यतां यत्र वाञ्छति
100 [रा]
ददतॊ ऽसय न गृह्णासि विषमं परतिभाति मे
दन्द्यॊ हि तवं मम मतॊ नास्त्य अत्र खलु संशयः
101 [विकृत]
मयास्य दत्तं राजर्षे गृह्णीयां तत कथं पुनः
कामम अत्रापराधॊ मे दन्द्यम आज्ञापय परभॊ
102 [विरूप]
दीयमानं यदि मया नेसिष्यसि कथं चन
नियंस्यति तवा नृपतिर अयं धर्मानुशासकः
103 [विकृत]
सवं मया याचितेनेह दत्तं कथम इहाद्य तत
गृह्णीयां गच्छतु भवान अभ्यनुज्ञां ददानि ते
104 [बरा]
शरुतम एतत तवया राजन्न अनयॊः कथितं दवयॊः
परतिज्ञातं मया यत ते तद्गृहाणाविचारितम
105 [रा]
परस्तुतं सुमहत कार्यम आवयॊर गह्वरं यथा
जापकस्य दृधी कारः कथम एतद भविष्यति
106 यदि तावन न गृह्णामि बराह्मणेनापवर्जितम
कथं न लिप्येयम अहं दॊषेण महताद्य वै
107 [भी]
तौ चॊवाच स राजर्षिः कृतकार्यौ गमिष्यथः
नेदानीं माम इहासाद्य राजधर्मॊ भवेन मृषा
108 सवधर्मः परिपाल्यश च राज्ञाम एष विनिश्चयः
विप्र धर्मश च सुगुरुर माम अनात्मानम आविशत
109 [बरा]
गृहाण धारये ऽहं ते याचितं ते शरुतं मया
न चेद गरहीष्यसे राजञ शपिष्ये तवां न संशयः
110 [रा]
धिग राजधर्मं यस्यायं कार्यस्येह विनिश्चयः
इत्य अर्थं मे गरहीतव्यं कथं तुल्यं भवेद इति
111 एष पानिर अपूर्वं भॊ निक्षेपार्थं परसारितः
यन मे धारयसे विप्र तद इदानीं परदीयताम
112 [बरा]
संहिता जपता यावान मया कश चिद गुणः कृतः
तत सर्वं परतिगृह्णीस्व यदि किं चिद इहास्ति मे
113 [रा]
जलम एतन निपतितं मम पानौ दविजॊत्तम
समम अस्तु सहैवास्तु परतिगृह्णातु वै भवान
114 [विरूप]
कामक्रॊधौ विद्धि नौ तवम आवाभ्यां कारितॊ भवान
समेति च यद उक्तं ते समा लॊकास तवास्य च
115 नायं धारयते किं चिज जिज्ञासा तवत्कृते कृता
कालॊ धर्मस तथा मृत्युः कामक्रॊधौ तथा युवाम
116 सर्वम अन्यॊन्यनिकसे निघृष्टं पश्यतस तव
गच्छ लॊकाञ जितान सवेन कर्मणा यत्र वाञ्छति
117 [भी]
जापकानां फलावाप्तिर मया ते संप्रकीर्तिता
गतिः सथानं च लॊकाश च जापकेन यथा जिताः
118 परयाति संहिताध्यायी बराह्मणं परमेष्ठिनम
अथ वाग्निं समायाति सूर्यम आविशते ऽपि वा
119 स तैजसेन भावेन यदि तत्राश्नुते रतिम
गुणांस तेषां समादत्ते रागेण परतिमॊहितः
120 एवं सॊमे तथा वायौ भूम्याकाश शरीरगः
सरागस तत्र वसति गुणांस तेषां समाचरन
121 अथ तत्र विरागी स गच्छति तव अथ संशयम
परम अव्ययम इच्छन स तम एवाविशते पुनः
122 अमृताच चामृतं पराप्तः शीती भूतॊ निरात्मवान
बरह्मभूतः स निर्द्वन्द्वः सुखी शान्तॊ निरामयः
123 बरह्म सथानम अनावर्तम एकम अक्षरसंज्ञकम
अदुःखम अजरं शान्तं सथानं तत परतिपद्यते
124 चतुर्भिर लक्षणैर हीनं तथा षड्भिः सषॊडशैः
पुरुषं समतिक्रम्य आकाशं परतिपद्यते
125 अथ वेच्छति रागात्मा सर्वं तद अधितिष्ठति
यच च परार्थयते तच च मनसा परतिपद्यते
126 अथ वा वीक्षते लॊकान सर्वान निरयसंस्थितान
निःस्पृहः सर्वतॊ मुक्तस तत्रैव रमते सुखी
127 एवम एषा महाराज जापकस्य गतिर यथा
एतत ते सर्वम आख्यातं किं भूयः शरॊतुम इच्छसि