अध्याय 47

महाभारत संस्कृत - सभापर्व

1 [द] यन मया पाण्डवानां तु दृष्टं तच छृणु भारत
आहृतं भूमिपालैर हि वसु मुख्यं ततस ततः

2 न विन्दे दृढम आत्मामं दृष्ट्वाहं तद अरेर धनम
फलतॊ भूमितॊ वापि परतिपद्यस्व भारत

3 ऐडांश चैलान वार्षदंशाञ जातरूपपरिष्कृताम
परावाराजिन मुख्यांश च कम्बॊजः परददौ वसु

4 अश्वांस तित्तिरि कल्माषांस तरिशतं शुकनासिकान
उष्ट्रवामीस तरिशतं च पुष्टाः पीलु शमीङ्गुदैः

5 गॊवासना बराह्मणाश च दासमीयाश च सर्वशः
परीत्यर्थं ते महाभागा धर्मराज्ञॊ महात्मनः
तरिखर्वं बलिम आदाय दवारि तिष्ठन्ति वारिताः

6 कमण्डलून उपादाय जातरूपमयाञ शुभान
एवं बलिं परदायाथ परवेशं लेभिरे ततः

7 शतं दासी सहस्राणां कार्पासिक निवासिनाम
शयामास तन्व्यॊ दीर्घकेश्यॊ हेमाभरण भूषिताः
शूद्रा विप्रॊत्तमार्हाणि राङ्कवान्य अजिनानि च

8 बलिं च कृत्स्नम आदाय भरु कच्छ निवासिनः
उपनिन्युर महाराज हयान गान्धारदेशजान

9 इन्द्र कृष्टैर वर्तयन्ति धान्यैर नदी मुखैश च ये
समुद्रनिष्कुटे जाताः परिसिन्दु च मानवाः

10 ते वैरामाः पारदाश च वङ्गाश च कितवैः सह
विविधं बलिम आदाय रत्नानि विविधानि च

11 अजाविकं गॊहिरण्यं खरॊष्ट्रं फलजं मधु
कम्बलान विविधांश चैव दवारि तिष्ठन्ति वारिताः

12 पराग्ज्यॊतिषाधिपः शूरॊ मलेच्छानाम अधिपॊ बली
यनवैः सहितॊ राजा भगदत्तॊ महारथः

13 आजानेयान हयाञ शीघ्रान आदायानिल रंहसः
बलिं च कृत्स्नम आदाय दवारि तिष्ठति वारितः

14 अश्मसारमयं भाण्डं शुद्धदन्तत्सरून असीन
पराग्ज्यॊतिषॊ ऽथ तद दत्त्वा भगदत्तॊ ऽवरजत तदा

15 दव्यक्षांस तर्यक्षाँल ललाटाक्षान नानादिग्भ्यः समागतान
औष्णीषान अनिवासांश च बाहुकान पुरुषादकान

16 एकपादांश च तत्राहम अपश्यं दवारि वारितान
बल्यर्थं ददतस तस्मै हिरण्यं रजतं बहु

17 इन्द्र गॊप कवर्णाभाञ शुकवर्णान मनॊजवान
तथैवेन्द्रायुध निभान संध्याभ्रसदृशान अपि

18 अनेकवर्णान आरण्यान गृहीत्वाश्वान मनॊजवान
जातरूपम अनर्घ्यं च ददुस तस्यैक पादकाः

19 चीनान हूनाञ शकान ओडून पर्वतान्तरवासिनः
वार्ष्णेयान हारहूणांश च कृष्णान हैमवतांस तथा

20 न पारयाम्य अभिगतान विविधान दवारि वारितान
बल्यर्थं ददतस तस्य नानारूपान अनेकशः

21 कृष्ण गरीवान महाकायान रासभाञ शतपातिनः
आहार्षुर दशसाहस्रान विनीतान दिक्षु विश्रुतान

22 परमाण रागस्पर्शाढ्यं बाह्ली चीन समुद्भवम
और्णं च राङ्कवं चैव कीटजं पट्टजं तथा

23 कुट्टी कृतं तथैवान्यत कमलाभं सहस्रशः
शलक्ष्णं वस्त्रम अकार्पासम आविकं मृदु चाजिनम

24 निशितांश चैव दीर्घासीन ऋष्टिशक्तिपरश्वधान
अपरान्त समुद्भूतांस तथैव परशूञ शितान

25 रसान गन्धांश च विविधान रत्नानि च सहस्रशः
बलिं च कृत्स्नम आदाय दवारि तिष्ठन्ति वारिताः

26 शकास तुखाराः कङ्काश च रॊमशाः शृङ्गिणॊ नराः
महागमान दूरगमान गणितान अर्बुदं हयान

27 कॊटिशश चैव बहुशः सुवर्णं पद्मसंमितम
बलिम आदाय विविधं दवारि तिष्ठन्ति वारिताः

28 आसनानि महार्हाणि यानानि शयनानि च
मणिकाञ्चनचित्राणि गजदन्त मयानि च

29 रथांश च विविधाकाराञ जातरूपपरिष्कृतान
हयैर विनीतैः संपन्नान वैयाघ्रपरिवारणान

30 विचित्रांश च परिस्तॊमान रत्नानि च सहस्रशः
नाराचान अर्धनाराचाञ शस्त्राणि विविधानि च

31 एतद दत्त्वा महद दरव्यं पूर्वदेशाधिपॊ नृपः
परविष्टॊ यज्ञसदनं पाण्डवस्य महात्मनः

अध्याय 4
अध्याय 4