अध्याय 32

महाभारत संस्कृत - सभापर्व

1 [व] पिता महं गुरुं चैव परत्युद्गम्य युधिष्ठिरः
अभिवाद्य ततॊ राजन्न इदं वचनम अब्रवीत
भीष्मं दरॊणं कृपं दरौणिं दुर्यॊधन विविंशती

2 अस्मिन यज्ञे भवन्तॊ माम अनुगृह्णन्तु सर्वशः
इदं वः सवम अहं चैव यद इहास्ति धनं मम
परीणयन्तु भवन्तॊ मां यथेष्टम अनियन्त्रिताः

3 एवम उक्त्वा स तान सर्वान दीक्षितः पाण्डवाग्रजः
युयॊज ह यथायॊगम अधिकारेष्व अनन्तरम

4 भक्ष्यभॊज्याधिकारेषु दुःशासनम अयॊजयत
परिग्रहे बराह्मणानाम अश्वत्थामानम उक्तवान

5 राज्ञां तु परतिपूजार्थं संजयं संन्ययॊजयत
कृताकृत परिज्ञाने भीष्मद्रॊणौ महामती

6 हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे
दक्षिणानां च वै दाने कृपं राजा नययॊजयत
तथान्यान पुरुषव्याघ्रांस तस्मिंस तस्मिन नययॊजयत

7 बाह्लिकॊ धृतराष्ट्रश च सॊमदत्तॊ जयद्रथः
नकुलेन समानीताः सवामिवत तत्र रेमिरे

8 कषत्ता वययकरस तव आसीद विदुरः सर्वधर्मवित
दुर्यॊधनस तव अर्हणानि परतिजग्राह सर्वशः

9 सर्वलॊकः समावृत्तः पिप्रीषुः फलम उत्तमम
दरष्टुकामः सभां चैव धर्मराजं च पाण्डवम

10 न कश चिद आहरत तत्र सहस्रावरम अर्हणम
रत्नैश च बहुभिस तत्र धर्मराजम अवर्धयन

11 कथं नु मम कौरव्यॊ रत्नदानैः समाप्नुयात
यज्ञम इत्य एव राजानः सपर्धमाना ददुर धनम

12 भवनैः सविमानाग्रैः सॊदर्कैर बलसंवृतैः
लॊकराज विमानैश च बराह्मणावसथैः सह

13 कृतैर आवसथैर दिव्यैर विमानप्रतिमैस तथा
विचित्रै रत्नवद्भिश च ऋद्ध्या परमया युतैः

14 राजभिश च समावृत्तैर अतीव शरीसमृद्धिभिः
अशॊभत सदॊ राजन कौन्तेयस्य महात्मनः

15 ऋद्द्या च वरुणं देवं सपर्धमानॊ युधिष्ठिरः
षड अग्निनाथ यज्ञेन सॊ ऽयजद दक्षिणावता
सर्वाञ जनान सर्वकामैः समृद्धैर समतर्पयत

16 अन्नवान बहुभक्ष्यश च भुक्तवज जनसंवृतः
रत्नॊपहार कर्मण्यॊ बभूव स समागमः

17 इडाज्य हॊमाहुतिभिर मन्त्रशिक्षा समन्वितैः
तस्मिन हि ततृपुर देवास तते यज्ञे महर्षिभिः

18 यथा देवास तथा विप्रा दक्षिणान्न महाधनैः
ततृपुः सर्ववर्णाश च तस्मिन यज्ञे मुदान्विताः

अध्याय 3
अध्याय 3