अध्याय 28

महाभारत संस्कृत - सभापर्व

1 [व] तथैव सहदेवॊ ऽपि धर्मराजेन पूजितः
महत्या सेनया सार्धं परययौ दक्षिणां दिशम

2 स शूरसेनान कार्त्स्न्येन पूर्वम एवाजयत परभुः
मत्स्यराजं च कौरव्यॊ वशे चक्रे बलाद बली

3 अधिराजाधिपं चैव दन्तवक्रं महाहवे
जिगाय करदं चैव सवराज्ये संन्यवेशयत

4 सुकुमारं वशे चक्रे सुमित्रं च नराधिपम
तथैवापरमत्स्यांश च वयजयत स पटच चरान

5 निषादभूमिं गॊशृङ्गं पर्वत परवरं तथा
तरसा वयजयद धीमाञ शरेणिमन्तं च पार्थिवम

6 नव राष्ट्रं विनिर्जित्य कुन्तिभॊजम उपाद्रवत
परीतिपूर्वं च तस्यासौ परतिजग्राह शासनम

7 ततश चर्मण्वती कूले जम्भकस्यात्मजं नृपम
ददर्श वासुदेवेन शेषितं पूर्ववैरिणा

8 चक्रे तत्र स संग्रामं सह भॊजेन भारत
स तम आजौ विनिर्जित्य दक्षिणाभिमुखॊ ययौ

9 करांस तेभ्य उपादाय रत्नानि विविधानि च
ततस तैर एव सहितॊ नर्मदाम अभितॊ ययौ

10 विन्दानुविन्दाव आवन्त्यौ सैन्येन महता वृतौ
जिगाय समरे वीराव आश्विनेयः परतापवान

11 ततॊ रत्नान्य उपादाय पुरीं माहिष्मतीं ययौ
तत्र नीलेन राज्ञा सचक्रे युद्धं नरर्षभः

12 पाण्डवः परवीरघ्नः सहदेवः परतापवान
ततॊ ऽसय सुमहद युद्धम आसीद भीरु भयंकरम

13 सैन्यक्षयकरं चैव पराणानां संशयाय च
चक्रे तस्य हि साहाय्यं भगवान हव्यवाहनः

14 ततॊ हया रथा नागाः पुरुषाः कवचानि च
परदीप्तानि वयदृश्यन्त सहदेव बले तदा

15 ततः सुसंभ्रान्त मना बभूव कुरुनन्दनः
नॊत्तरं परतिवक्तुं च शक्तॊ ऽभूज जनमेजय

16 [ज] किमर्थं भगवान अग्निः परत्यमित्रॊ ऽभवद युधि
सहदेवस्य यज्ञार्थं घटमानस्य वै दविज

17 [व] तत्र माहिष्मती वासी भगवान हव्यवाहनः
शरूयते निगृहीतॊ वै पुरस्तत पारदारिकः

18 नीलस्य राज्ञः पूर्वेषाम उपनीतश च सॊ ऽभवत
तदा बराह्मणरूपेण चरमाणॊ यदृच्छया

19 तं तु राजा यथाशास्त्रम अन्वशाद धार्मिकस तदा
परजज्वाल ततः कॊपाद भगवान हव्यवाहनः

20 तं दृष्ट्वा विस्मितॊ राजा जगाम शिरसा कविम
चक्रे परसादं च तदा तस्य राज्ञॊ विभावसुः

21 वरेण छन्दयाम आस तं नृपं सविष्टकृत्तमः
अभयं च स जग्राह सवसैन्ये वै महीपतिः

22 ततः परभृति ये के चिद अज्ञानात तां पुरीं नृपाः
जिगीषन्ति बलाद राजंस ते दह्यन्तीह वह्निना

23 तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह
बभूवुर अनभिग्राह्या यॊषितश छन्दतः किल

24 एवम अग्निर वरं परादात सत्रीणाम अप्रतिवारणे
सवैरिण्यस तत्र नार्यॊ हि यथेष्टं परचरन्त्य उत

25 वर्जयन्ति च राजानस तद राष्ट्रं पुरुषॊत्तम
भयाद अग्नेर महाराज तदा परभृति सर्वदा

26 सहदेवस तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम
परीतम अग्निना राजन नाकम्पत यथा गिरिः

27 उपस्पृश्य शुचिर भूत्वा सॊ ऽबरवीत पावकं ततः
तवदर्थॊ ऽयं समारम्भः कृष्णवर्त्मन नमॊ ऽसतु ते

28 मुखं तवम असि देवानां यज्ञस तवम असि पावक
पावनात पावकश चासि वहनाद धव्यवाहनः

29 वेदास तवदर्थं जाताश च जातवेदास ततॊ हय असि
यज्ञविघ्नम इमं कर्तुं नार्हस तवं हव्यवाहन

30 एवम उक्त्वा तु माद्रेयः कुशैर आस्तीर्य मेदिनीम
विधिवत पुरुषव्याघ्रः पावकं परत्युपाविशत

31 परमुखे सर्वसैन्यस्य भीतॊद्विग्नस्य भारत
न चैनम अत्यगाद वह्निर वेलाम इव महॊदधिः

32 तम अभ्येत्य शनैर वह्निर उवाच कुरुनन्दनम
सहदेवं नृणां देवं सान्त्वपूर्वम इदं वचः

33 उत्तिष्ठॊत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया
वेद्मि सर्वम अभिप्रायं तव धर्मसुतस्य च

34 मया तु रक्षितव्येयं पुरी भरतसत्तम
यावद राज्ञॊ ऽसय नीलस्य कुलवंशधरा इति
ईप्सितं तु करिष्यामि मनसस तव पाण्डव

35 तत उत्थाय हृष्टात्मा पराञ्जलिः शिरसानतः
पूजयाम आस माद्रेयः पावकं पुरुषर्षभः

36 पावके विनिवृत्ते तु नीलॊ राजाभ्ययात तदा
सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम

37 परतिगृह्य च तां पूजां करे च विनिवेश्य तम
माद्री सुतस ततः परायाद विजयी दक्षिणां दिशम

38 तरैपुरं स वशे कृत्वा राजानम अमितौजसम
निजग्राह महाबाहुस तरसा पॊतनेश्वरम

39 आहृतिं कौशिकाचार्यं यत्नेन महता ततः
वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तथा

40 सुराष्ट्र विषयस्थश च परेषयाम आस रुक्मिणे
राज्ञे भॊजकटस्थाय महामात्राय धीमते

41 भीष्मकाय स धर्मात्मा साक्षाद इन्द्र सखाय वै
स चास्य ससुतॊ राजन परतिजग्राह शासनम

42 परीतिपूर्वं महाबाहुर वासुदेवम अवेक्ष्य च
ततः स रत्नान्य आदाय पुनः परायाद युधां पतिः

43 ततः शूर्पारकं चैव गणं चॊपकृताह्वयम
वशे चक्रे महातेजा दण्डकांश च महाबलः

44 सागरद्वीपवासांश च नृपतीन मलेच्छ यॊनिजान
निषादान पुरुषादांश च कर्णप्रावरणान अपि

45 ये च कालमुखा नाम नरा राक्षसयॊनयः
कृत्स्नं कॊल्ल गिरिं चैव मुरची पत्तनं तथा

46 दवीपं ताम्राह्वयं चैव पर्वतं रामकं तथा
तिमिङ्गिलं च नृपतिं वशे चक्रे महामतिः

47 एकपादांश च पुरुषान केवलान वनवासिनः
नगरीं संजयन्तीं च पिच्छण्डं करहाटकम
दूतैर एव वशे चक्रे करं चैनान अदापयत

48 पाण्ड्यांश च दरविदांश चैव सहितांश चॊद्र केरलैः
अन्ध्रांस तलवनांश चैव कलिङ्गान ओष्ट्र कर्णिकान

49 अन्ताखीं चैव रॊमां च यवनानां पुरं तथा
दूतैर एव वशे चक्रे करं चैनान अदापयत

50 भरु कच्छं गतॊ धीमान दूतान माद्रवतीसुतः
परेषयाम आस राजेन्द्र पौलस्त्याय महात्मने
विभीषणाय धर्मात्मा परीतिपूर्वम अरिंदमः

51 स चास्य परतिजग्राह शासनं परीतिपूर्वकम
तच च कालकृतं धीमान अन्वमन्यत स परभुः

52 ततः संप्रेषयाम आस रत्नानि विविधानि च
चन्दनागुरुमुख्यानि दिव्यान्य आभरणानि च

53 वासांसि च महार्हाणि मणींश चैव महाधनान
नयवर्तत ततॊ धीमान सहदेवः परतापवान

54 एवं निर्जित्य तरसा सान्त्वेन विजयेन च
करदान पार्थिवान कृत्वा परत्यागच्छद अरिंदमः

55 धर्मराजाय तत सर्वं निवेद्य भरतर्षभ
कृतकर्मा सुखं राजन्न उवास जनमेजय

अध्याय 2
अध्याय 2