अध्याय 22

महाभारत संस्कृत - सभापर्व

1 [व] भीमसेनस ततः कृष्णम उवाच यदुनन्दनम
बुद्धिम आस्थाय विपुलां जरासंध जिघांसया

2 नायं पापॊ मया कृष्ण युक्तः सयाद अनुरॊधितुम
पराणेन यदुशार्दूल बद्धवङ्क्षण वाससा

3 एवम उक्तस ततः कृष्णः परत्युवाच वृकॊदरम
तवरयन पुरुषव्याघ्रॊ जरासंध वधेप्सया

4 यत ते दैवं परं सत्त्वं यच च ते मातरिश्वनः
बलं भीम जरासंधे दर्शयाशु तद अद्य नः

5 एवम उक्तस तदा भीमॊ जरासंधम अरिंदमः
उत्क्षिप्य भरामयद राजन बलवन्तं महाबलः

6 भरामयित्वा शतगुणं भुजाभ्यां भरतर्षभ
बभञ्ज पृष्ठे संक्षिप्य निष्पिष्य विननाद च

7 तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः
अभवत तुमुलॊ नादः सर्वप्राणि भयंकरः

8 वित्रेसुर मागधाः सर्वे सत्रीणां गर्भाश च सुस्रुवुः
भीमसेनस्य नादेन जरासंधस्य चैव ह

9 किं नु सविद धिमवान भिन्नः किं नु सविद दीर्यते मही
इति सम मागधा जज्ञुर भीमसेनस्य निस्वनात

10 ततॊ राजकुलद्वारि परसुप्तम इव तं नृपम
रात्रौ परासुम उत्सृज्य निश्चक्रमुर अरिंदमाः

11 जरासंध रथं कृष्णॊ यॊजयित्वा पताकिनम
आरॊप्य भरातरौ चैव मॊक्षयाम आस बान्धवान

12 ते वै रत्नभुजं कृष्णं रत्नार्हं पृथिवीश्वराः
राजानश चक्रुर आसाद्य मॊक्षिता महतॊ भयात

13 अक्षतः शस्त्रसंपन्नॊ जितारिः सह राजभिः
रथम आस्थाय तं दिव्यं निर्जगाम गिरिव्रजात

14 यः ससॊदर्यवान नाम दवियॊधः कृष्णसारथिः
अभ्यासघाती संदृश्यॊ दुर्जयः सर्वराजभिः

15 भीमार्जुनाभ्यां यॊधाभ्याम आस्थितः कृष्णसारथिः
शुशुभे रथवर्यॊ ऽसौ दुर्जयः सर्वधन्विभिः

16 शक्र विष्णू हि संग्रामे चेरतुस तारका मये
रथेन तेन तं कृष्ण उपारुह्य ययौ तदा

17 तप्तचामीकराभेण किङ्किणीजालमालिना
मेघनिर्घॊषनादेन जैत्रेणामित्र घातिना

18 येन शक्रॊ दानवानां जघान नवतीर नव
तं पराप्य समहृष्यन्त रथं ते पुरुषर्षभाः

19 ततः कृष्णं महाबाहुं भरातृभ्यां सहितं तदा
रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः

20 हयैर दिव्यैः समायुक्तॊ रथॊ वायुसमॊ जवे
अधिष्ठितः स शुशुभे कृष्णेनातीव भारत

21 असङ्गी देव विहितस तस्मिन रथवरे धवजः
यॊजनाद ददृशे शरीमान इन्द्रायुधसमप्रभः

22 चिन्तयाम आस कृष्णॊ ऽथ गरुत्मन्तं स चाभ्ययात
कषणे तस्मिन स तेनासीच चैत्ययूप इवॊच्छ्रितः

23 वयादितास्यैर महानादैः सह भूतैर धवजालयैः
तस्थौ रथवरे तस्मिन गरुत्मान पन्नगाशनः

24 दुर्निरीक्ष्यॊ हि भूतानां तेजसाभ्यधिकं बभौ
आदित्य इव मध्याह्ने सहस्रकिरणावृतः

25 न स सज्जति वृक्षेषु शस्त्रैश चापि न रिष्यते
दिव्यॊ धवजवरॊ राजन दृश्यते देव मानुषैः

26 तम आस्थाय रथं दिव्यं पर्जन्यसमनिस्वनम
निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः

27 यं लेभे वासवाद राजा वसुस तस्माद बृहद्रथः
बृहद्रथात करमेणैव पराप्तॊ बार्हद्रथं नृपम

28 स निर्ययौ महाबाहुः पुण्डरीकेक्षणस ततः
गिरिव्रजाद बहिस तस्थौ समे देशे महायशाः

29 तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस तदा
बराह्मण परमुखा राजन विधिदृष्टेण कर्मणा

30 बन्धनाद विप्रमुक्ताश च राजानॊ मधुसूदनम
पूजयाम आसुर ऊचुश च सान्त्वपूर्वम इदं वचः

31 नैतच चित्रं महाबाहॊ तवयि देवकिनन्दन
भीमार्जुनबलॊपेते धर्मस्य परिपालनम

32 जरासंध हरदे घॊरे दुःखपङ्के निमज्जताम
राज्ञां समभ्युद्धरणं यद इदं कृतम अद्य ते

33 विष्णॊ समवसन्नानां गिरिदुर्गे सुदारुणे
दिष्ट्या मॊक्षाद यशॊ दीप्तम आप्तं ते पुरुषॊत्तम

34 किं कुर्मः पुरुषव्याघ्र बरवीहि पुरुषर्षभ
कृतम इत्य एव तज जञेयं नृपैर यद्य अपि दुष्करम

35 तान उवाच हृषीकेशः समाश्वास्य महामनाः
युधिष्ठिरॊ राजसूयं करतुम आहर्तुम इच्छति

36 तस्य धर्मप्रवृत्तस्य पार्थिव तवं चिकीर्षतः
सर्वैर भवद्भिर यज्ञार्थे साहाय्यं दीयताम इति

37 ततः परतीतमनसस ते नृपा भरतर्षभ
तथेत्य एवाब्रुवन सर्वे परतिजज्ञुश च तां गिरम

38 रत्नभाजं च दाशार्हं चक्रुस ते पृथिवीश्वराः
कृच्छ्राज जग्राह गॊविन्दस तेषां तद अनुकम्पया

39 जरासंधात्मजश चैव सहदेवॊ महारथः
निर्ययौ सजनामात्यः पुरस्कृत्य पुरॊहितम

40 स नीचैः परश्रितॊ भूत्वा बहुरत्नपुरॊगमः
सहदेवॊ नृणां देवं वासुदेवम उपस्थितः

41 भयार्ताय ततस तस्मै कृष्णॊ दत्त्वाभयं तदा
अभ्यषिञ्चत तत्रैव जरासंधात्मजं तदा

42 गत्वैकत्वं च कृष्णेन पार्थाभ्यां चैव सत्कृतः
विवेश राजा मतिमान पुनर बार्हद्रथं पुरम

43 कृष्णस तु सह पार्थाभ्यां शरिया परमया जवलन
रत्नान्य आदाय भूरीणि परययौ पुष्करेक्षणः

44 इन्द्रप्रस्थम उपागम्य पाण्डवाभ्यां सहाच्युतः
समेत्य धर्मराजानं परीयमाणॊ ऽभयभाषत

45 दिष्ट्या भीमेन बलवाञ जरासंधॊ निपातितः
राजानॊ मॊक्षिताश चेमे बन्धनान नृपसत्तम

46 दिष्ट्या कुशलिनौ चेमौ भीमसेनधनंजयौ
पुनः सवनगरं पराप्ताव अक्षताव इति भारत

47 ततॊ युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः
भीमसेनार्जुनौ चैव परहृष्टः परिषस्वजे

48 ततः कषीणे जरासंधे भरातृभ्यां विहितं जयम
अजातशत्रुर आसाद्य मुमुदे भरातृभिः सह

49 यथा वयः समागम्य राजभिस तैश च पाण्डवः
सत्कृत्य पूजयित्वा च विससर्ज नराधिपान

50 युधिष्ठिराभ्यनुज्ञातास ते नृपा हृष्टमानसाः
जग्मुः सवदेशांस तवरिता यानैर उच्चावचैस ततः

51 एवं पुरुषशार्दूलॊ महाबुद्धिर जनार्दनः
पाण्डवैर घातयाम आस जरासंधम अरिं तदा

52 घातयित्वा जरासंधं बुद्धिपूर्वम अरिंदमः
धर्मराजम अनुज्ञाप्य पृथां कृष्णां च भारत

53 सुभद्रां भीमसेनं च फाल्गुणं यमजौ तथा
धौम्यम आमन्त्रयित्वा च परययौ सवां पुरीं परति

54 तेनैव रथमुख्येन तरुणादित्यवर्चसा
धर्मराज विसृष्टेन दिव्येनानादयन दिशः

55 ततॊ युधिष्ठिर मुखाः पाण्डवा भरतर्षभ
परदक्षिणम अकुर्वन्त कृष्णम अक्लिष्टकारिणम

56 ततॊ गते भगवति कृष्णे देवकिनन्दने
जयं लब्ध्वा सुविपुलं राज्ञाम अभयदास तदा

57 संवर्धितौजसॊ भूयॊ कर्मणा तेन भारत
दरौपद्याः पाण्डवा राजन परां परीतिम अवर्धयन

58 तस्मिन काले तु यद युक्तं धर्मकामार्थ संहितम
तद राजा धर्मतश चक्रे राज्यपालन कीर्तिमान

अध्याय 2
अध्याय 2