अध्याय 62
1 [स]
दुःशासने तु निहते पुत्रास तव महारथाः
महाक्रॊधविषा वीराः समरेष्व अपलायिनः
दश राजन महावीर्यॊ भीमं पराच्छादयञ शरैः
2 कवची निषङ्गी पाशी दण्डधारॊ धनुर्धरः
अलॊलुपः शलः संधॊ वातवेगसुवर्चसौ
3 एते समेत्य सहिता भरातृव्यसनकर्शिताः
भीमसेनं महाबाहुं मार्गणैः समवारयन
4 स वार्यमाणॊ विशिखैः समन्तात तैर महारथैः
भीमः करॊधाभिरक्ताक्षः करुद्धः काल इवाबभौ
5 तांस तु भल्लैर महावेगैर दशभिर दशभिः शितैः
रुक्माङ्गदॊ रुक्मपुङ्खैः पार्थॊ निन्ये यमक्षयम
6 हतेषु तेषु वीरेषु परदुद्राव बलं तव
पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम
7 ततः कर्णॊ महाराज परविवेश महारणम
दृष्ट्वा भीमस्य विक्रान्तम अन्तकस्य परजास्व इव
8 तस्य तव आकार भावज्ञः शल्यः समितिशॊभनः
उवाच वचनं कर्णां परप्त कालम अरिंदम
मा वयथां कुरु राधेय नैतत तवय्य उपपद्यते
9 एते दरवन्ति राजानॊ भीमसेनभयार्दिताः
दुर्यॊधनश च संमूढॊ भरातृव्यसनदुःखितः
10 दुःशासनस्य रुधिरे पीयमाने महात्मना
वयापन्न चेतसश चैव शॊकॊपहतमन्यवः
11 दुर्यॊधनम उपासन्ते परिवार्य समन्ततः
कृपप्रभृतयः कर्णहतशेषाश च सॊदराः
12 पाण्डवा लब्धलक्षाश च धनंजय पुरॊगमाः
तवाम एवाभिमुखाः शूरा युद्धाय समुपास्थिताः
13 स तं पुरुषशार्दूल पौरुषे महति सथितः
कषत्रधर्मं पुरस्कृत्य परत्युद्याहि धनंजयम
14 भारॊ हि धार्तराष्ट्रेण तवयि सर्वः समर्पितः
तम उद्वह महाबाहॊ यथाशक्ति यथाबलम
जये सयाद विपुला कीर्तिर धरुवः सवर्गः पराजये
15 वृषसेनश च राधेय संक्रुद्धस तनयस तव
तवयि मॊहसमापन्ने पाण्डवान अभिधावति
16 एतच छरुत्वा तु वचनं शल्यस्यामित तेजसः
हृदि मानुष्यकं भावं चक्रे युद्धाय सुस्थिरम
17 ततः करुद्धॊ वृषसेनॊ ऽभयधावद; आतस्थिवांसं सवरथं हतारिम
वृकॊदरं कालम इवात्त दण्डं; गदाहस्तं पॊथमानं तवदीयान
18 तम अभ्यधावन नकुलः परवीरॊ; रॊषाद अमित्रं परतुदन पृषत्कैः
कर्णस्य पुत्रं समरे परहृष्टं; जिष्णुर जिघांसुर मघवेव जम्भम
19 ततॊ धवजं सफाटिकचित्रकम्बुं; चिच्छेद वीरॊ नकुलः कषुरेण
कर्णात्मजस्येष्व असनं च चित्रं; भल्लेन जाम्बूनदपट्ट नद्धम
20 अथान्यद आदाय धनुः सुशीघ्रं; कर्णात्मजः पाण्डवम अभ्यविध्यत
दिव्यैर महास्त्रैर नकुलं महास्त्रॊ; दुःशासनस्यापचितिं यियासुः
21 ततः करुद्धॊ नकुलस तं महात्मा; शरैर महॊल्का परतिमैर अविध्यत
दिव्यैरस्त्रैर अभ्यविध्यच च सॊ ऽपि; कर्णस्या पुत्रॊ नकुलं कृतास्त्रः
22 कर्णस्या पुत्रॊ नकुलस्य राजन; सर्वान अश्वान अक्षिणॊद उत्तमास्त्रैः
वनायुजान सुकुमारस्य शुभ्रान; अलंकृताञ जातरूपेण शीघ्रान
23 ततॊ हताश्वाद अवरुह्य यानाद; आदाय चर्म रुचिरं चाष्ट चन्द्रम
आकाशसंकाशम असिं गृहीत्वा; पॊप्लूयमानः खगवच चचार
24 ततॊ ऽनतरिक्षे नृवराश्वनागंश; चिच्छेद मार्गान विचरन विचित्रान
ते परापतन्न असिना गां विशस्ता; यथाश्वमेधे पशवः शमित्रा
25 दविसाहस्रा विदिता युद्धशौण्डा; नानादेश्याः सुभृताः सत्यसंधाः
एकेन शीघ्रं नकुलेन कृत्ताः; सारेप्सुना इवॊत्तम चन्दनास ते
26 तम आपतन्तं नकुलं सॊ ऽभिपत्य; समन्ततः सायकैर अभ्यविध्यत
स तुद्यमानॊ नकुलः पृषत्कैर; विव्याध वीरं स चुकॊप विद्धः
27 तं कर्ण पुत्रॊ विधमन्तम एकं; नराश्वमातङ्गरथप्रवेकान
करीडन्तम अष्टादशभिः पृषत्कैर; विव्याध वीरं स चुकॊप विद्धः
28 ततॊ ऽभयधावत समरे जिघांसुः; कर्णात्मजं पाण्डुसुतॊ नृवीरः
तस्येषुभिर वयधमत कर्ण पुत्रॊ; महारणे चर्म सहस्रतारम
29 तस्यायसं निशितं तीक्ष्णधारम; असिं विकॊशं गुरुभारसाहम
दविषच छरीरापहरं सुघॊरम; आधुन्वतः सर्पम इवॊग्ररूपम
30 कषिप्रं शरैः षड्भिर अमित्रसाहश; चकर्त खड्गं निशितैः सुघॊरैः
पुनश च पीतैर निशितैः पृषत्कैः; सतनान्तरे गाढम अथाभ्यविध्यत
31 स भीमसेनस्य रतहं हताश्वॊ; माद्री सुतः कर्णसुताभितप्तः
आपुप्लुवे सिंह इवाचलाग्रं; संप्रेक्षमाणस्य धनंजयस्य
32 नकुलम अथ विदित्वा छिन्नबाणासनासिं; विरथम अरिशरार्तं कर्ण पुत्रास्त्र भग्नम
पवनधुत पताका हरादिनॊ वल्गिताश्वा; वरपुरुषनियत्तास ते रथाः शीघ्रम ईयुः
33 दरुपद सुत वरिष्ठाः पञ्च शैनेय षष्ठा; दरुपद दुहितृपुत्राः पञ्च चामित्रसाहाः
दविरदरथनराश्वान सूदयन्तस तवदीयान; भुजग पतिनिकाशैर मार्गणैर आत्तशस्त्राः
34 अथ तव रथमुख्यास तान परतीयुस तवरन्तॊ; हृदिक सुत कृपौ च दरौणिदुर्यॊधनौ च
शकुनिशुकवृकाश च कराथ देवावृधौ च; दविरदजलदघॊषैः सयन्दनैः कार्मुकैश च
35 तव नरवरवर्यास तान दशैकं च वीरान; परवर शरवराग्र्यैस ताडयन्तॊ ऽभयरुन्धन
नव जलदसवर्णैर हस्तिभिर तान उदीयुर; गिरिशिखरनिकाशैर भीमवेगैः कुणिन्दाः
36 सुकल्पिता हैमवता मदॊत्कटा; रणाभिकामैः कृतिभिः समास्थिताः
सुवर्णजालावतता बभुर गजास; तथा यथा वै जलदाः सविद्युतः
37 कुणिन्द पुत्रॊ दशभिर महायसैः; कृपं ससूताश्वम अपीडयद भृशम
ततः शरद्वत सुत सायकैर हतः; सहैव नागेन पपात भूतले
38 कुणिन्द पुत्रावरजस तु तॊमरैर; दिवाकरांशु परतिमैर अयॊ मयैः
रथं च विक्षॊभ्य ननाद नर्दतस; ततॊ ऽसय गान्धारपतिः शिरॊ ऽहरत
39 ततः कुणिन्देषु हतेषु तेष्व अथ; परहृष्टरूपास तव ते महारथाः
भृशं परदध्मुर लवनाम्बुसंभवान; परांश च बाणासनपाणयॊ ऽभययुः
40 अथाभवद युद्धम अतीव दारुणं; पुनः कुरूणां सह पाणु सृञ्जयैः
शरासि शक्त्यृष्टि गदा परश्वधैर; नराश्वनागासु हरं भृशाकुलम
41 रथाश्वमातङ्गपदातिभिस ततः; परस्परं विप्रहतापतन कषितौ
यथा सविद्युत्स्तनिता बलाहकाः; समास्थिता दिग्भ्य इवॊग्रमारुतैः
42 ततः शतानीक हतान महागजांस; तथा रथान पत्तिगणांश च तावकान
जघान भॊजश च हयान अथापतन; विशस्त्र कृत्ताः कृतवर्मणा दविपाः
43 अथापरे दरौणिशराहता दविपास; तरयः ससर्वायुध यॊधकेतवः
निपेतुर उर्व्यां वयसवः परपातितास; तथा यथा वज्रहता महाचलाः
44 कुणिन्द राजावरजाद अनन्तरः; सतनान्तरे पत्रिवरैर अताडयत
तवात्मजं तस्य तवात्मजः शरैः; शितैः शरीरं बिभिदे दविपं च तम
45 स नागराजः सह राजसूनुना; पपात रक्तं बहु सर्वतः कषरन
शचीश वज्रप्रहतॊ ऽमुदागमे; यथा जलं गैरिकपर्वतस तथा
46 कुणिन्द पुत्र परहितॊ ऽपरद्विपः; शुकं ससूताश्वरथं वयपॊथयत
ततॊ ऽपतत कराथ शराभिदारितः; सहेश्वरॊ वज्रहतॊ यथा गिरिः
47 रथी दविपस्थेन हतॊ ऽपतच छरैः; कराथाधिपः पर्वतजेन दुर्जयः
स वाजिसूतेष्व असनस तथापतद; यथा महावातहतॊ महाद्रुमः
48 वृकॊ दविपस्थं गिरिराजवासिनं; भृशं शरैर दवादशभिः पराभिनत
ततॊ वृकं साश्वरथं महाजवं; तवरंश चतुर्भिश चरणे वयपॊथयत
49 स नागराजः सनियन्तृकॊ ऽपतत; पराहतॊ बभ्रु सुतेषु भिर भृशम
स चापि देवावृध सूनुर अर्दितः; पपात नुन्नः सहदेव सूनुना
50 विषाण पॊत्रापरगात्रघातिना; गजेन हन्तुं शकुनेः कुणिन्दजः
जगाम वेगेन भृशार्दयंश च तं; ततॊ ऽसय गान्धारपतिः शिरॊ ऽहरत
51 ततः शतानीक हता महागजा; हया रथाः पत्तिगणाश च तावकाः
सुपर्णवातप्रहता यथा नगास; तथागता गाम अवशा विचूर्णिताः
52 ततॊ ऽभयविध्यद बहुभिः शितैः शरैः; कुणिन्द पुत्रॊ नकुलात्मजं समयन
ततॊ ऽसय कायान निचकर्त नाकुलिः; शिरः करुषेणाम्बुज संनिभाननम
53 ततः शतानीकम अविध्यद आशुगैस; तरिभिः शितैः कर्णसुतॊ ऽरजुनं तरिभिः
तरिभिश च भीमं नकुलं च सप्तभिर; जनार्दनं दवादशभिश च सायकैः
54 तद अस्य कर्मातिमनुष्य कर्मणः; समीक्ष्य हृष्टाः कुरवॊ ऽभयपूजयन
पराक्रमज्ञास तु धनंजयस्य ते; हुतॊ ऽयम अग्नाव इति तं तु मेनिरे
55 ततः किरीटी परवीर घाती; हताश्वम आलॊक्य नरप्रवीरम
तम अभ्यधावद वृषसेनम आहवे; ससूतजस्य परमुखे सथितं तदा
56 तम आपतन्तं नरवीरम उग्रं; महाहवे बाणसहस्रधारिणम
अभ्यापतत कर्णसुतॊ महारथॊ; यथैव चेन्द्रं नमुचिः पुरातने
57 ततॊ ऽदभुतेनैक शतेन पार्थं; शरैर विद्ध्वा सूतपुत्रस्य पुत्रः
ननाद नादं सुमहानुभावॊ; विद्ध्वेव शक्रं नमुचिः पुरा वै
58 पुनः स पार्थं वृषसेन उग्रैर; बाणैर अविध्यद भुजमूलमध्ये
तथैव कृष्णं नवभिः समार्दयत; पुनश च पार्थं दशभिः शिताग्रैः
59 ततः किरीटी रणमूर्ध्नि कॊपात; कृत्वा तरिशाखां भरुकुटिं ललाटे
मुमॊच बाणान विशिखान महात्मा; वधाय राजन सूतपुत्रस्य संख्ये
60 विव्याध चैनं दशभिः पृषत्कैर; मर्मस्व असक्तं परसभं किरीटी
चिच्छेद चास्येष्व असनं भुजौ च; कषुरैर चतुर्भिः शिर एव चॊग्रैः
61 स पार्थ बाणाभिहतः पपात; रथाद विबाहुर विशिरा धरायाम
सुपुष्पितः पर्णधरॊ ऽतिकायॊ; वातेरितः शाल इवाद्रिशृङ्गात
62 तं परेक्ष्य बाणाभिहतं पतन्तं; रथात सुतं सूतजः कषिप्रकारी
रथं रथेनाशु जगाम वेगात; किरीटिनः पुत्र बधाभितप्तः