अध्याय 3

महाभारत संस्कृत - कर्णपर्व

1 [वै] एतच छरुत्वा महाराज धृतराष्ट्रॊ ऽमबिका सुतः
शॊकस्यान्तम अपश्यन वै हतं मत्वा सुयॊधनम
विह्वलः पतितॊ भूमौ नष्टचेता इव दविपः

2 तस्मिन निपतिते भूमौ विह्वले राजसत्तमे
आर्तनादॊ महान आसीत सत्रीणां भरतसत्तम

3 स शब्दः पृथिवीं सर्वां पूरयाम आस सर्वशः
शॊकार्णवे महाघॊरे निमग्ना भरत सत्रियः

4 राजानं च समासाद्य गान्धारी भरतर्षभ
निःसंज्ञा पतिता भूमौ सर्वाण्य अन्तःपुराणि च

5 ततस ताः संजयॊ राजन समाश्वासयद आतुराः
मुह्यमानाः सुबहुशॊ मुञ्चन्त्यॊ वारि नेत्रजम

6 समाश्वस्ताः सत्रियस तास तु वेपमाना मुहुर मुहुः
कदल्य इव वातेन धूयमानाः समन्ततः

7 राजानं विदुरश चापि परज्ञा चक्षुषम ईश्वरम
आश्वासयाम आस तदा सिञ्चंस तॊयेन कौरवम

8 स लब्ध्वा शनकैः संज्ञां ताश च दृष्ट्वा सत्रियॊ नृप
उन्मत्त इव राजा स सथितस तूष्णीं विशां पते

9 ततॊ धयात्वा चिरं कालं निःश्वसंश च पुनः पुनः
सवान पुत्रान गर्हयाम आस बहु मेने च पाण्डवान

10 गर्हयित्वात्मनॊ बुद्धिं शकुनेः सौबलस्य च
धयात्वा च सुचिरं कालं वेपमानॊ मुहुर मुहुः

11 संस्तभ्य च मनॊ भूयॊ राजा धैर्यसमन्वितः
पुनर गावल्गणिं सूतं पर्यपृच्छत संजयम

12 यत तवया कथितं वाक्यं शरुतं संजय तन मया
कच चिद दुर्यॊधनः सूत न गतॊ वै यमक्षयम
बरूहि संजय तत्त्वेन पुनर उक्तां कथाम इमाम

13 एवम उक्तॊ ऽबरवीत सूतॊ राजानं जनमेजय
हतॊ वैकर्तनॊ राजन सह पुत्रैर महारथैः
भरातृभिश च महेष्वासैः सूतपुत्रैस तनुत्यजैः

14 दुःशासनश च निहतः पाण्डवेन यशस्विना
पीतं च रुधिरं कॊपाद भीमसेनेन संयुगे

अध्याय 2
अध्याय 4