अध्याय 25

महाभारत संस्कृत - कर्णपर्व

1 [दुर] एवं स भगवान देवः सर्वलॊकपितामहः
सारथ्यम अकरॊत तत्र यत्र रुद्रॊ ऽभवद रथी

2 रथिनाभ्यधिकॊ वीरः कर्तव्यॊ रथसारथिः
तस्मात तवं पुरुषव्याघ्र नियच्छ तुरगान युधि

3 [स] ततः शल्यः परिष्वज्य सुतं ते वाक्यम अब्रवीत
दुर्यॊधनम अमित्रघ्नः परीतॊ मद्राधिपस तदा

4 एवं चेन मन्यसे राजन गान्धारे परियदर्शन
तस्मात ते यत परियं किं चित तत सर्वं करवाण्य अहम

5 यत्रास्मि भरतश्रेष्ठ यॊग्यः कर्मणि कर्हि चित
तत्र सर्वात्मना युक्तॊ वक्ष्ये कार्यधुरं तव

6 यत तु कर्णम अहं बरूयां हितकामः परियाप्रियम
मम तत्क्षमतां सर्वं भवान कर्णश च सर्वशः

7 [कर्ण] ईशानस्य यथा बरह्मा यथा पार्थस्य केशवः
तथा नित्यं हिते युक्तॊ मद्रराजभजस्व नः

8 [षल्य] आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः
अनाचरितम आर्याणां वृत्तम एतच चतुर्विधम

9 यत तु विद्वान परवक्ष्यामि परत्ययार्थम अहं तव
आत्मनः सतवसंयुक्तं तन निबॊध यथातथम

10 अहं शक्रस्य सारथ्ये यॊग्यॊ मातलिवत परभॊ
अप्रमाद परयॊगाच च जञानविद्या चिकित्सितैः

11 ततः पार्थेन संग्रामे युध्यमानस्य ते ऽनघ
वाहयिष्यामि तुरगान विज्वरॊ भव सूतज

अध्याय 2
अध्याय 2