अध्याय 89

महाभारत संस्कृत - भीष्मपर्व

1 [स] विमुखीकृत्य तान सर्वांस तावकान युधि राक्षसः
जिघांसुर भरतश्रेष्ठ दुर्यॊधनम उपाद्रवत

2 तम आपतन्तं संप्रेक्ष्य राजानं परति वेगितम
अभ्यधावज जिघांसन्तस तावका युद्धदुर्मदाः

3 तालमात्राणि चापानि विकर्षन्तॊ महाबलाः
तम एकम अभ्यधावन्त नदन्तः सिंहसंघवत

4 अथैनं शरवर्षेण समन्तात पर्यवारयन
पर्वतं वारिधाराभिः शरदीव बलाहकाः

5 स गाढविद्धॊ वयथितस तॊत्त्रार्दित इव दविपः
उत्पपात तदाकाशं समन्ताद वैनतेयवत

6 वयनदत सुमहानादं जीमूत इव शारदः
दिशः खं परदिशश चैव नादयन भैरवस्वनः

7 राक्षसस्य तु तं शब्दं शरुत्वा राजा युधिष्ठिरः
उवाच भरतश्रेष्ठॊ भीमसेनम इदं वचः

8 युध्यते राक्षसॊ नूनं धार्तराष्ट्रैर महारथैः
यथास्य शरूयते शब्दॊ नदतॊ भैरवं सवनम
अतिभारं च पश्यामि तत्र तात समाहितम

9 पितामहश च संक्रुद्धः पाञ्चालान हन्तुम उद्यतः
तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः

10 एतच छरुत्वा महाबाहॊ कार्यद्वयम उपस्थितम
गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम

11 भरातुर वचनम आज्ञाय तवरमाणॊ वृकॊदरः
परययौ सिंहनादेन तरासयन सर्वपार्थिवान
वेगेन महता राजन पर्वकाले यथॊदधिः

12 तम अन्वयात सत्यघृतिः सौचित्तिर युद्धदुर्मदः
शरेणिमान वसु दानश च पुत्रः काश्यस्य चाभिभूः

13 अभिमन्युमुखाश चैव दरौपदेया महारथाः
कषत्रदेवश च विक्रान्तः कषत्रधर्मा तथैव च

14 अनूपाधिपतिश चैव नीलः सवबलम आस्थितः
महता रथवंशेन हैडिम्बं पर्यवारयन

15 कुञ्जरैश च सदामत्तैः षट सहस्रैः परहारिभिः
अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटॊत्कचम

16 सिंहनादेन महता नेमिघॊषेण चैव हि
खुरशब्दनिनादैश च कम्पयन्तॊ वसुंधराम

17 तेमाम आपततां शरुत्वा शब्दं तं तावकं बलम
भीमसेन भयॊद्विग्नं विवर्णवदनं तथा
परिवृत्तं महाराज परित्यज्य घटॊत्कचम

18 ततः परववृते युद्धं तत्र तत्र महात्मनाम
तावकानां परेषां च संग्रामेष्व अनिवर्तिनाम

19 नानारूपाणि शस्त्राणि विसृजन्तॊ महारथाः
अन्यॊन्यम अभिधावन्तः संप्रहारं परचक्रिरे
वयतिषक्तं महारौद्रं युद्धं भीरु भयावहम

20 हया गजैः समाजग्मुः पादाता रथिभिः सह
अन्यॊन्यं समरे राजन परार्थयाना महद यशः

21 सहसा चाभवत तीव्रं संनिपातान महद रजः
रथाश्वजग पत्तीनां पदनेमि समुद्धतम

22 धूम्रारुणं रजस तीव्रं रणभूमिं समावृणॊत
नैव सवे न परे राजन समजानन परस्परम

23 पिता पुत्रं न जानीते पुत्रॊ वा पितरं तथा
निर्मर्यादे तथा भूते वैशसे लॊमहर्षणे

24 शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम
सुमहान अभवच छब्दॊ वंशानाम इव दह्यताम

25 गजवाजिमनुष्याणां शॊणितान्त्र तरङ्गिणी
परावर्तत नदी तत्र केशशैवलशाद्वला

26 नराणां चैव कायेभ्यः शिरसां पततां रणे
शुश्रुवे सुमहाञ शब्दः पतताम अश्मनाम इव

27 विशिरस्कैर मनुष्यैश च छिन्नगात्रैश च वारणैः
अश्वैः संभिन्नदेहैश च संकीर्णाभूद वसुंधरा

28 नानाविधानि शस्त्राणि विसृजन्तॊ महारथाः
अन्यॊन्यम अभिधावन्तः संप्रहारं परचक्रिरे

29 हया हयान समासाद्य परेषिता हयसादिभिः
समाहत्य रणे ऽनयॊन्यं निपेतुर गतजीविताः

30 नरा नरान समासाद्य करॊधरक्तेक्षणा भृशम
उरांस्य उरॊभिर अन्यॊन्यं समाश्लिष्य निजघ्निरे

31 परेषिताश च महामात्रैर वारणाः परवारणाः
अभिघ्नन्ति विषाणाग्रैर वारणान एव संयुगे

32 ते जातरुधिरापीडाः पताकाभिर अलंकृताः
संसक्ताः परत्यदृश्यन्त मेघा इव स विद्युतः

33 के चिद भिन्ना विषाणाग्रैर भिन्नकुम्भाश च तॊमरैः
विनदन्तॊ ऽभयधावन्त गर्जन्तॊ जलदा इव

34 केचिद धस्तैर दविधा छिन्नैश छिन्नगात्रास तथापरे
निपेतुस तुमुले तस्मिंश छिन्नपक्षा इवाद्रयः

35 पार्श्वैस तु दारितैर अन्ये वारणैर वरवारणाः
मुमुचुः शॊणितं भूरि धातून इव महीधराः

36 नाराचाभिहतास तव अन्ये तथा विद्धाश च तॊमरैः
हतारॊहा वयदृश्यन्त विशृङ्गा इव पर्वताः

37 के चित करॊधसमाविष्टा मदान्धा निरवग्रहाः
रथान हयान पदातांश च ममृदुः शतशॊ रणे

38 तथा हया हयारॊहैस ताडिताः परासतॊमरैः
तेन तेनाभ्यवर्तन्त कुर्वन्तॊ वयाकुला दिशः

39 रथिनॊ रथिभिः सार्धं कुलपुत्रास तनुत्यजः
परां शक्तिं समास्थाय चक्रुः कर्माण्य अभीतवत

40 सवयंवर इवामर्दे परजह्रुर इतरेतरम
परार्थयानां यशॊ राजन सवर्गं वा युद्धशालिनः

41 तस्मिंस तथा वर्तमाने संग्रामे लॊमहर्षणे
धार्तराष्ट्रं महत सैन्यं परायशॊ विमुखीकृतम

अध्याय 8
अध्याय 9