अध्याय 47

महाभारत संस्कृत - भीष्मपर्व

1 [स] करौञ्चं ततॊ महाव्यूहम अभेद्यं तनयस तव
वयूढं दृष्ट्वा महाघॊरं पार्थेनामित तेजसा

2 आचार्यम उपसंगम्य कृपं शल्यं च मारिष
सौमदत्तिं विकर्णं च अश्वत्थामानम एव च

3 दुःशासनादीन भरातॄंश च स सर्वान एव भारत
अन्यांश च सुबहूञ शूरान युद्धाय समुपागतान

4 पराहेदं वचनं काले हर्षयंस तनयस तव
नानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः

5 एकैकशः समर्थाहि यूयं सर्वे महारथाः
पाण्डुपुत्रान रणे हन्तुं स सैन्यान किम उ संहताः

6 अपर्याप्तं तद अस्माकं बलं भीष्माभिरक्षितम
पर्याप्तं तव इदम एतेषां बलं पार्थिव सत्तमाः

7 संस्थानाः शूरसेनाश च वेणिकाः कुकुरास तथा
आरेवकास तरिगर्ताश च मद्रका यवनास तथा

8 शत्रुंजयेन सहितास तथा दुःशासनेन च
विकर्णेन च वीरेण तथा नन्दॊपनन्दकैः

9 चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः
भीष्मम एवाभिरक्षन्तु सह सैन्यपुरस्कृताः

10 ततॊ दरॊणश च भीष्मश च तव पुत्रश च मारिष
अव्यूहन्त महाव्यूहं पाण्डूनां परतिबाधने

11 भीष्मः सैन्येन महता समन्तात परिवारितः
ययौ परकर्षन महतीं वाहिनीं सुरराड इव

12 तम अन्वयान महेष्वासॊ भारद्वाजः परतापवान
कुन्तलैश च दशार्णैश च मागधैश च विशां पते

13 विदर्भैर मेकलैश चैव कर्णप्रावरणैर अपि
सहिताः सर्वसैन्येन भीष्मम आहवशॊभिनम

14 गान्धाराः सिन्धुसौवीराः शिबयॊ ऽथ वसातयः
शकुनिश च सवसैन्येन भारद्वाजम अपालयत

15 ततॊ दुर्यॊधनॊ राजा सहितः सर्वसॊदरैः
अश्वातकैर विकर्णैश च तथा शर्मिल कॊसलैः

16 दरदैश चूचुपैश चैव तथा कषुद्रकमालवैः
अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम

17 भूरिश्रवाः शलः शल्यॊ भगदत्तश च मारिष
विन्दानुविन्दाव आवन्त्यौ वामं पार्श्वम अपालयन

18 सौमदत्तिः सुशर्मा च काम्बॊजश च सुदक्षिणः
शतायुश च शरुतायुश च दक्षिणं पार्श्वम आस्थिताः

19 अश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः
महत्या सेनया सार्धं सेना पृष्ठे वयवस्थिताः

20 पृष्ठगॊपास तु तस्यासन नानादेश्या जनेश्वराः
केतुमान वसु दानश च पुत्रः काश्यस्य चाभिभूः

21 ततस ते तावकाः सर्वे हृष्टा युद्धाय भारत
दध्मुः शङ्खान मुदा युक्ताः सिंहनादांश च नादयन

22 तेषां शरुत्वा तु हृष्टानां कुरुवृद्धः पितामहः
सिंहनादं विनद्यॊच्चैः शङ्खं दध्मौ परतापवान

23 ततः शङ्खाश च भेर्यश च पेश्यश च विविधाः परैः
आनकाश चाभ्यहन्यन्त स शब्दस तुमुलॊ ऽभवत

24 ततः शवेतैर हयैर युक्ते महति सयन्दने सथितौ
परदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ

25 पाञ्चजन्यं हृषीकेशॊ देवदत्तं धनंजयः
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकॊदरः

26 अनन्तविजयं राजा कुन्तीपुत्रॊ युधिष्ठिरः
नकुलः सहदेवश च सुघॊषमणिपुष्पकौ

27 काशिराजश च शैब्यश च शिखण्डी च महारथः
धृष्टद्युम्नॊ विराटश च सात्यकिश च महायशाः

28 पाञ्चाल्यश च महेष्वासॊ दरौपद्याः पञ्च चात्मजाः
सर्वे दध्मुर महाशङ्खान सिंहनादांश च नेदिरे

29 स घॊषः सुमहांस तत्र वीरैस तैः समुदीरितः
नभश च पृथिवीं चैव तुमुलॊ वयनुनादयत

30 एवम एते महाराज परहृष्टाः कुरुपाण्डवाः
पुनर युद्धाय संजग्मुस तापयानाः परस्परम

अध्याय 4
अध्याय 4